Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः ।
[ ८. सिद्धराजादिप्रबन्धः । ]
७९) अथ कदाचिद्गुर्जरदेशे अवग्रह निगृहीते' वर्षणे विशोपकदण्डाहिदेशग्रामकुटुम्बिकेषु राजदेयविभागनिर्वाहाक्षमेषु तन्नियुक्तैर्व्यापारिभिः सकलोऽपि सजातवित्तो' देशलोकः ' श्रीपत्तने समानीय भीमभूपाय न्यवेद्यत । ततः कदाचिदहर्मुखे श्रीमूलराजकुमारस्तत्र चङ्क्रममाणो नृपपत्तिभिः सस्यनिदानीभूतदानसम्बन्धे व्याकुलीक्रियमाणं सकललोकमालोक्य पारिपा- 5 र्श्विकेभ्योऽधिंगतवृत्तान्तः कृपया किञ्चिदनुमिश्रलोचनो वाहवाहाल्यां तदतुलया" कलया नृपं परितोष्य" 'वरं वृणीष्वेति नृपादेशमासाद्य " " भाण्डागार एव वरोऽयमस्तु' इति विज्ञापयामास । राज्ञा- 'किमिति अधुनों न याचसे ?' इत्युक्तः 'प्राप्तिप्रमाणाभावाद्' - इत्युदीरयन् भृशं निर्बन्धपराद् धराधिपात्तेषां कुटुम्बिनां दानीमोचनवरं ययाचे ।" ततो हर्षबाष्पाविललोचनेन राज्ञा" तत्तथेति प्रतिपद्य भूयोऽप्यभ्यर्थयखेत्यभिहितः ।
१२८. क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुरोदरपूरणाय पिति स्रोतः पतिं वाडवो जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये ॥
५३
Jain Education International
इति काव्यर्थबलेन निगृहीतप्रभूतलोभस्ततो भूयः " किमप्यप्रार्थयमानो मानोन्नततया * खसौधमध्यमध्यास्य बन्धनविमोचितैस्तैर्लोकैः स दैवतवदुपास्यमानः खस्थानस्थितैश्च * स्तूयमानस्तृतीयेऽहनि तदीय सन्तोषदृशी श्रीमूलराजः खर्लोकं “जगाम । तच्छोकाम्बुधौ सराजलोको राजा, स 15 च पूर्वमोचितलोकश्च निमग्नञ्चिरेण चतुरैर्विविधबोधबलादपकृष्टशोकशङ्कुश्चक्रे ।
अथ द्वितीये वर्षे वर्षाबलाद् हर्षिभिः कर्षुकलोकैर्निष्पन्नेषु समस्तसस्येषु व्यतीततद्वर्षयो राजदेयविभागे" प्रदिश्यमाने राज्ञि चानाददाने सति तैरतरसभा मेलिता । तत्र सभ्यानां लक्षणमेवम्
१२९. न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न चास्ति " सत्यं सत्यं न तद्यत्कृतकानुविद्धम् ॥
इति निर्णयात्सभ्यैर्गतवर्षतद्वर्षयोर्दानी" राज्ञी ग्राहिता" । ततस्तेन द्रव्येण कोशद्रव्येण च श्रीमूराज कुमार श्रेयसे नव्यस्त्रिपुरुषप्रासादः श्री भीमेन कारितः ।
1 AD निगृहीतायां वृष्टौ
८०) 'अनेन श्रीपत्तने श्री भीमेश्वरदेव-भट्टारिका भीरुआणीप्रासादौ कारितौ । । सं० २०७७ ' 2 नास्तीदं पदं AD 3 AD • निर्वाहाक्षमो देशलोकः । 4 AD न सन्ति एते शब्दाः । 5 BP • भूपतये । 6 नास्ति BP | 7 BP मूलराजः । 8 AD ' ० दानी ० ' नास्ति । 9 BP परिगत | 10 AD अस्त्रमिश्र० । 11 AD • तुल्यया । 12 B तोषितः सन्; P परितोष्य तस्माद् । 13 BP आदेशे श्रुते । 14 P विना नास्त्यन्यत्र । 15 D कुटुम्बिकानां । 16 'ययाचे ततो' स्थाने BP याचमानो । 17 BP नास्ति । osभ्यर्थयेः । 19 BP • सूक्तार्थ विद्याबलेन । 20 BP लोभभूतः । 21 A 'भूयः' नास्ति । * एतदन्तर्गतपाठस्थाने AD 'स्वस्थानमगमत् । ततश्च कौटुम्बिकैः' इत्येव पाठः । 23 नास्तीदं AD P स्वर्गमुपतस्थौ । 25 BP आगामिनि वर्षे | 26 AD कर्पुकलोकैर्वर्षाबलात् । 'हर्षिभिः' पदं नास्ति । 27 AD • देयभागविभागे । 28 AD प्रविश्य० | 29 'तैः' स्थाने 'ताभ्यां ' BP 30 BP न सत्यमस्ति । एतच्चिह्नान्तर्गतपाठस्थाने BP आदशैं 'सभ्यैस्तद्वर्षद्वयदानीं नृपति ( ते: B ) पार्श्वात् ग्राहयित्वा अपूर्यमाणकोशद्रव्येण श्रीधर्ममूलः श्रीमूलराज०' एतादृशः पाठः । 31 Dदानीं । 32D राजा 33D माहितः । + इयं पंक्तिः BP नास्ति ।
18 D भूयोऽप्यर्थये ०; B 22 D• प्यभ्यर्थमानोऽपि । 24 B स्वर्लोकमुपजगाम;
For Private Personal Use Only
10
20
www.jainelibrary.org

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164