Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्ध चिन्तामणिः 1.
[ तृतीयः
१०३) अथ श्रीपालक विना सहस्रलिङ्गसरोवरस्य रचितायां प्रशस्तौ पट्टिकायामुत्कीर्णायां * तच्छोधना' सर्वदर्शनेष्वाहूयमानेषु श्रीहेमचन्द्राचार्यैः 'सर्व विद्वज्जनानुमते प्रशस्तिकाव्ये भवता किमपि वैदग्ध्यं न प्रकाश्यमित्युक्त्वा पण्डितरामचन्द्रमनुशिष्यं तत्र प्रहितः । ततः सर्वैर्विद्वद्भिः शोध्यमानायां प्रशस्तौ नृपोपरोधाच्छ्रीपालक वेर्दक्षदाक्षिण्याच्च सर्वेषु काव्येषु मन्यमानेषु - 5 १४५. कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि । raiser करोति कोशरहितो निष्कण्टकं भूतलं मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥ 'तैः सर्वैरपि अस्य काव्यस्य विशेषप्रशंसां कुर्वाणैः श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रश्चिन्त्यमेतदित्यवादीत्। अथ तैरेव सर्वैरनुयुक्तः - ' एतस्मिन्काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्यक्लीत्वं च' इति दूषणद्वयं चिन्त्यम्' । ततः तान् सर्वानपि पण्डितानुपरुद्ध्य दलशब्दो राज्ञा' 10 सैन्यार्थे प्रमाणीकारितः, कमलशब्दस्य तु लिङ्गानुशासन सिद्धं नित्यक्लीबत्वं केनाप्रमाणीयत' इति 'पुंस्त्वं च धत्ते न वे' त्यक्षरभेदः कारितः । तदा श्री सिद्धराजस्य सञ्जातदृष्टिदोषेण पं० रामचन्द्रस्य वसतौ प्रविशत एव लोचनमेकं स्फुटितम् ।
१०४) अथ कदाचित् डाहलदेशीयनरपते:'
१४६. आयुक्तः प्राणदो लोके वियुक्तो मुनिवल्लभः । संयुक्तः सर्वथाऽनिष्टः केवलः स्त्रीषु वल्लभः ॥ 15 इति सान्धिविग्रहिकै रानीतयमलपत्रेषु श्लोकमेनं लिखितं निशम्य किमेतदिति पृष्टास्ते प्राहु:'भवजनपदे एकैकप्रधाना भूयांसो विद्वांसस्तत्पार्श्वादुर्योधोऽयं श्लोको व्याख्येयः' इति तद्वाचमाकर्ण्य सर्वैरपि विद्वद्भिरज्ञाततदथैर्विमृशद्भिर्नृपेण पृष्टा हेमाचार्या इत्थं व्याचख्युः - ' अत्र अध्याहारी हारशब्दः । तस्य आ इत्युपसर्गे कृते आहार इति सर्वजीवप्राणप्रदः । वियुक्तो बिहारः सन् उभयथा यतीनां प्रियः । संपूर्वः संहारः सन् सर्वथाऽनिष्टः । निरुपसर्गः स्त्रीणामेव 20 वल्लभः हार इति' ।
१०५) * अन्यदा सपादलक्षक्षितिपतिना
१४७.
६४
25
इति उत्तरार्द्धन" श्रीहेमचन्द्रो "मुनीन्द्रस्तां पूरयामास । १०६) अथ" श्रीसिद्धराजो नवघणाभिधानमा भीरराणकं निगृहीतुकामः पुरैकादशधा "निज सैन्ये पराजिते सति श्रीवर्द्धमानादिषु पुरेषु प्राकारप्रकरं " निर्माप्य स्वयमेव प्रयाणकमकरोत्" । तद्भा1 P इति । * D पुस्तके इतोऽग्रे 'तत्स्थकाव्यमिदम्' एतदुल्लेखपूर्वकं "न मानसे." इति पद्यमत्रावतारितं प्राप्यते । 1 D तव्प्रशस्तिशोधनाय । 2 D रामचन्द्रोऽनुशिष्यः । + एतदन्तर्गतपाठस्थाने AD 'विशेषेणास्मिन्काव्ये प्रशस्यमाने' एतादृशः पाठः । 3 AD 'च' नास्ति । 4 BP 'ततः ' नास्ति; AD 'तान्' नास्ति । 5 D राजसै ० । 6 AP ० कृतः । 7 P विहाय सर्वत्र 'केन निर्णीयते' | 8 BP चक्षुर्दोषेण । 9 B प्रतावेवेदं पदमत्र प्राप्यते । डाहलदेशीयनरपतियमलपत्रान्ते लिखित श्लोकव्याख्यानावसरे तूष्णीं स्थितेषु सर्वेषु पण्डितेषु व्याख्यातः ।' एतादृशः संक्षिप्तात्मकः पाठः । * BP अथान्यस्मिन्नवसरे ( B समये) 11 AD • दोधका प्रहिते । 12 D किमु उम्मीयह; B किम मन्नीयइ । 15 AD हेमचन्द्रनामा मुनिः । 16 AD अन्यदा । 17 AD एकादशवारं ।
ऑली" ताव न अणुहरइ गोरीमुहकमलस्स ।
इति समस्यादोधकार्द्धमत्र प्रहितम् । तैस्तैः कविभिरपूर्यमाणे अद्दिट्ठी किम "ऑमियइ पडिपेयली चन्दस्स ||
Jain Education International
For Private Personal Use Only
एतच्चिह्नान्तर्गतपाठस्थाने AD आदर्शे 'इति श्रीहेमचन्द्राचार्यै राज्ञा पृष्टैर्हारशब्दमध्याहार्य सपादलक्षक्षोणीभुजा । 10 D पइली । 13 BP तडि० । 14 AD नास्तीदं पदम् । 18 AD 'प्रकरं' नास्ति । 19 BP कृतप्रयाणः ।
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164