Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः |
[९२] तमाहुर्वासुदेवांशं मोक्षधर्मविधित्सया । अवतीर्ण सुतशतं तस्यासीत् ब्रह्मपारगम् ॥ [९३] तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यन्नाम्ना भरतमद्भुतम् ॥ [९४] अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा परश्चैव शब्दा एकार्थवाचकाः ॥ [९५] जैनं बौद्धं तथा ब्राह्मं शैवं च कापिलं तथा । नास्तिकं दर्शनान्याहुः षडेव हि मनीषिणः ॥ [९६] तत्र - कुलादिबीजं सर्वेषां प्रथमो विमलवाहनः । मरुदेवश्च नामिश्र भरते कुलसत्तमाः || }
इत्यादिपुराणोक्तान्युदीर्य विशेषप्रत्ययाय श्रीवृषभदेवप्रासाद कोशाच्छ्री भरत भूपनामाङ्कितं पञ्चजनवाह्यं कांस्यतालमानीय नृपाय दर्शयन्तो द्विजा' जिनधर्मस्याद्यधर्मत्वं स्थापयामासुः । ततः प्रभृति' खेदमेदुरमानसेन' अवनीशेन हायनान्ते जैनप्रासादेषु ध्वजाधिरोपः कारितः ।
१०२) अथ श्रीपत्तने प्राप्तो नृपः प्रस्तावे ' सरोवरकर्मस्थायव्ययपदेषु' वाच्यमानेषु सापराधव्यवहारिसुतदण्डपदाल्लक्षत्रयं कर्मस्थाये व्यवकलितमिति श्रुत्वा, 'तल्लक्षत्रयं तस्य गृहे प्रस्थापया - 10 मास । ततः स व्यवहारी, 'उपायनपाणिर्नृपोपान्तमुपेत्य किमेतदिति विज्ञपयन् कर्मस्थायव्यवहारिणे" नृपः " प्राह- 'यः कोटिध्वजो व्यवहारी स कथं ताडङ्कचौरः ? त्वयाऽस्य धर्मस्थानस्य धर्मविभागः प्रार्थितोsपि यन्न लब्धस्ततः प्रपञ्चचतुरेण मृगमुखच्याघेणेवान्तः शठेन प्रत्यक्षसरलेन इदं कर्म भवता " निर्ममे ।' [ इत्यादिवाक्यैर्भृशं खण्डितः * । ]
१४३. यस्यान्तर्गिरिशागारदीपिकाः प्रतिबिम्बिताः । शोभन्ते निशि पातालव्यालमौलिमणिश्रियः ॥
१४४. न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदमच्छोदकमप्यसारं सरोवरे राजति सिद्धभर्तुः । ॥
{ एकदा श्रीसिद्धेन रामचन्द्रः पृष्टः - ' ग्रीष्मे दिवसाः कथं गुरुतराः १" । रामचन्द्रः प्राह[९७] देव श्रीगिरिदुर्गमल्ल भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गवल्गनखुरक्षुण्णक्षमा मण्डली । वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थलीदूर्वा चुम्बनचचुरा रविहयास्तेनैव वृद्धं दिनम् ॥ [९८] लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥ अथ कदाचिद्राज्ञा ग्रथिलाचार्या जयमङ्गलसूरयः पुरवर्णनं पृष्टा ऊचु:
६३
Jain Education International
1 एतत्पदस्थाने BP 'यथावस्थिततदाद्यत्वस्थापनाय ' एतत्पदम् । 2 BP नृपतिपुरतः । 3 AD नास्ति । 4P चक्रुः; B चक्रे । 5 नास्ति AD। 6 AD • मनसा राज्ञा । 7 BP नास्ति । 8 D ' सरोवरपदेषु' इत्येव; A सरोवरव्ययपदे । 9 AD 'तत्' नास्ति । १-१ एतदङ्कान्तर्गतपाठस्थाने BP ' ० त्रये तद्गृहे स्थापिते स उपा०' एष पाठः । 10 P प्रतावेव एतत्पदं प्राप्यते । 11 'नृपः प्राह' स्थाने AD 'राज्ञादिष्टः । 12 AD व्याघ्रेणान्तः । 13 AD त्वयेदं कर्म निर्मितम् । * केवलं D पुस्तक एवेदं वाक्यं दृश्यते । + B आदर्श नोपलब्धमिदं पद्यद्वयम् । D पुस्तके पुनः अस्य पद्यस्य पूर्वे निम्नगतं पद्यद्वयमधिकं लिखितं लभ्यते । परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्त्तरीभूतमेतद्धूर्त्तस्य लक्षणम् ॥
+ P प्रतौ इदं पद्यमत्र प्राप्यते ।
एतत्कोष्ठकान्तर्गतं वर्णनं D पुस्तक एवात्रोपलभ्यते । एतच्च प्रक्षिप्तप्रायमसम्बद्धत्वात् ।
5
For Private Personal Use Only
[९९] एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सृज्य बाहोर्बलात्तत्रीकां गुरुसिद्धभूपतिसरस्तुम्बां निजां कच्छपीम् ||} 25
15
20
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164