Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
६२ प्रबन्धचिन्तामणिः।
[ तृतीयः १००) अन्यदा सिद्धराजस्य मालवकमण्डलं प्रति यियासतः केनापि व्यवहारिणा *सहस्रलिङ्गसरोवरकर्मस्थाये विभागे 'याच्यमाने तत्सर्वथाऽदत्त्वैव कृतप्रयाणस्य कतिपयदिनानन्तरं कोशाभावात्* कर्मस्थायं विलम्बितमवगम्य, तेन व्यवहारिणा सुतस्य पार्थात्कस्यापि धनाधिपस्य वध्वास्ताडङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं 'दत्तम् , तेन कर्मस्थायः सञ्जातः, इति 5 वाती' शृण्वतो मालवकमण्डले वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतः प्रमोदः सञ्जातः ।
अथ प्रावृषेण्यघनाघनप्रगल्भवृष्ट्या क्षोणीमेकार्णवां विदधाने" व पनिकाहेतोः प्रधानपुरुषैः प्रहितः कोऽपि मरुदेशवासी" नृपतिपुरतः सविस्तरं वर्षाखरूपं विज्ञपयत् । तदात्वागतेन केनापि" गूर्जरधूर्तेण नरेण 'सहस्रलिङ्गसरो भृतमिति स्वामिन् ! वर्धाप्यसे” इति तद्वाक्यानन्तरमेव सिक्ककपतितमार्जारस्येव मरुवृद्धस्य पश्यतः सर्वाङ्गलग्नमाभरणं नृपतिर्जराय ददौ। . 10 १०१) अथ वर्षानन्तरमेव" ततः प्रत्यावृत्तः क्षितिपतिः" श्रीनगरमहास्थाने दत्तावासो मञ्चरचनायां कृतसर्वावसरस्तत्र नगरप्रासादेषु ध्वजव्रजमालोक्य' 'कएते प्रासादाः ?' इति ब्राह्मणान् पप्रच्छ । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदिते सामर्षों राजाँ 'मया गूर्जरमण्डले जैनप्रासादानां पताकासु निषिद्धासु किं भवतामिह नगरें पताकाजिनायतनम् ?' इत्यादिशंस्तैर्विज्ञपयां
चक्रे-'अवधार्यताम् , श्रीमन्महाँदेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापयता श्रीऋषभनाथ15श्रीब्रह्मप्रासादौ 'खयं स्थापितौ प्रदत्तध्वजौ च । तदनयोः प्रासादयोः सुकृतिभिरुद्रियमाणयोश्चत्वारो युगा व्यतीताः। अन्यच्च श्रीशत्रुञ्जयमहागिरेः पुरा नगरमेतदुपत्यकाभूमिः। यतो नगरपुराणेऽप्युक्तम्
१४०. पञ्चाशदादौ किल मूलभूमेर्दशोर्ध्वभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः॥ 20 इति । कृतयुगे आदिदेवः श्रीऋषभस्तत्सूनुर्भरतस्तन्नाम्ना भरतखण्डमिदं प्रतीतम् ।
१४१. नाभेरथो" स वृषभो मरुदेविसूनुर्यो वै चचार समदृग् मुनियोगचर्याम् ।
तस्याहतत्त्वमृषयः" पदमामनन्ति स्वच्छः प्रशान्तकरणः समदृक् सुधीश्च ॥ १४२. अष्टमो मरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वम॑ धीराणां सर्वाश्रमनमस्कृतः ॥
(अत्र P प्रतौ निम्नगता अधिकाः श्लोकाः प्राप्यन्ते-) 25 [११] {प्रियव्रतो नाम सुतो मनोः स्वायम्भुवश्च यः । तस्याग्नीन्द्रस्ततो नाभिः ऋषभस्तत्सुतस्तथा ॥ . * एतचिह्नान्तर्गतपाठस्थाने A आदर्श एतादृशः पाठः-'सहस्रलिङ्गकर्मस्थायविभागं याचितः । राजा तमदत्त्वैव मालवकं प्रति प्र. याणमकरोत् । ततः कोशाभावात्।' 1D 'सरोवर' नास्ति । 2 DP याचमाने विभागे। 3D स्थायस्य । 4 D विलम्बं । 5 BP नास्ति । 6 BP सुतपा । 7 BP ताडकेऽपहारिते। १-१ एतदन्तर्गतशब्दस्थाने BP 'अर्पयता तं कर्मस्थाय परिपूर्ण' एते शब्दाः । 8 AD 'मंडले' नास्ति। 9 BP समजनि । 10 AD प्रावृषेण्ये घने। 11 AD कुर्वति । 12 A प्रहितस्य । 13 AD मरुदेशीयपुरुषस्य । 14 A व्यज्ञपयतः; D व्यज्ञपयत् । । एतद्दण्डान्तर्गतः पाठः AD आदर्श पतितः प्रतिभाति । 15 B नास्ति । 16 De व पयसे। 17 'एव ततः' नास्ति ADI 18 P नृपः। 19-20 एतत्पदद्वयं नास्ति ADI 21 AD ध्वजस्यालोके। 22 B पृच्छन् ; P नास्ति। 23 BP जैन०। 24 P 'सामर्षतया गूर्जर०' इत्येव । 25 B नास्ति । 26 BP किमिति भवतामस्मिन्नगरे। 27 P पताकासहितम् । 28 P श्रीमहा। 29 B स्थापयित्वा । 1 एतद्दण्डान्तर्गतानि पदानि D पुस्तके पतितानि । 30 नास्ति BPI 31 AD गिरेनगरमिदमु०। 32 AD 'अपि' नास्ति । 33 Pच। 34 BP बदन्तीति। 35 BP पुत्रः। 36 D नाभेः सुतः। 37 Po तस्याहंन्त्यमृषयः। 38 B स्वसाश्च; Dd सुची सः। 39 B अष्टमे। 40P वीराणां। 41 D कृतम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164