Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 88
________________ प्रकाशः ] सिद्धराजादिप्रबन्धः । स्तकमारोप्य सितातपवारणे ध्रियमाणे चामरग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्य पूजा पूर्व कोशागारे न्यधीयत । ततो राजाज्ञयान्यानि व्याकरणान्यपहाय तस्मिन्नेव व्याकरणे सर्वत्राधीयमाने केनापि मत्सरिणा 'भवदन्वयवर्णनाविरहितं व्याकरणमेतद्' 'इत्युक्ते श्रीहेमाचार्यः क्रुद्धं राजानं राजमानुषादवगम्य द्वात्रिंशच्छोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रपादेषु तान् सम्बद्धाने लेखयित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे - १३८. हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥ इत्यादीन् चौलुक्यवंशोपश्लोकान्, द्वात्रिंशत् सूत्रपादेषु, द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितमना नरेन्द्रो व्याकरणं विस्तारयामास । तथा" च श्रीसिद्धराजदिग्विजयवर्णने याश्रयनामा ग्रन्थः कृतः । १३९. भ्रातः ! संवृणु पाणिनि " प्रलपितं कातन्त्रकन्या वृथा मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् | 10 कः कण्ठाभरणादिभिर्वठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥ ६.१ ९८) अथ श्रीसिद्धराजेन पत्तने यशोवर्मराज्ञ स्त्रिपुरुषप्रभृतीन् सर्वानपि राजप्रासादान् सहस्रलिङ्गप्रभृतीनि च धर्मस्थानानि दर्शयित्वा प्रतिवर्षं देवदायपदे कोटिद्रव्यव्ययं निवेद्यैतत्सुन्दरमसुन्दरं वेति "पृष्टः स एवमवादीत् - 'अहं ह्यष्टादशलक्षप्रमाणमालवदेशाधिपस्त्वत्तः" पराभवपात्रं कथं भवेयम्, परं महाकालदेवस्य दत्तपूर्वत्वाद्देवद्रव्यं मालवका स्तद्भुञ्जानास्तत्प्रभावादुदि- 15 तास्तमिता वर्त्तामहे । भवदीयान्वय राजानोऽप्येतावद्दे वैद्रव्यव्ययनिर्वाह । क्षमाः, लुप्तसर्वदेवदायपदा विपदां पदं भवन्तो मूलनाशं विनंक्ष्यन्ति ।' ९९) अथ श्रीसिद्धराजः कदापि " सिद्धपुरे रुद्रमहाकालप्रासादं कारयितुकामः कमपि स्थपतिं स्वसंनिधौ स्थापयित्वा प्रासादप्रारम्भलग्ने तदीयां कलासिकां लक्षद्रव्येणोत्तमर्णगृहात् " विमोच्य तां" वंशशलाकामयीं विलोकयन" 'किमेतदि' ति राजा पप्रच्छ" । ततो" 'मया प्रभोरौदार्यपरी - 20 क्षानिमित्तमेतत्कृतमिति स्थपतिरुक्तवान् । 'ततस्तद्रव्यमनिच्छतोऽपि नृपतेः प्रत्यर्पितम् । ततः क्रमेण' त्रयोविंशतिहस्तप्रमाणं परिपूर्ण प्रासादं कारयामास । तत्र प्रासादेऽश्वपतिगजपतिनरपतिप्रभृतीनामुत्तमभूपतीनां मूर्त्तीः कारयित्वा तत्पुरो योजिताञ्जलिं स्वां मूर्त्ति निर्माप्य देशभङ्गेऽपि तान्" प्रासादस्याभङ्गं याचितवान् । तस्य प्रासादस्य ध्वजारोपप्रस्तावे सर्वेषामपि जैनप्रासा - दानां पताकावरोहं कारितवान् । यथा मालवकदेशे महाकालप्रासादे "वैजयन्त्यां सत्यां जैनप्रा- 25 सादेषु न ध्वजारोप इति । 38 1 A 'प्राज्यवर्य' नास्ति । 2 BP सपर्या 1 3 BP नास्ति । 4 BP नृपा० । 5 AD 'एतद्' नास्ति । 6-7 एतदतर्गत पाठस्थाने BP ' इति व्याहरता क्रुद्धे नृपतौ नृपाङ्गमानुषात्तदवबुध्य' एषः पाठः । 8P नवीनान् विधाय । 9 D सूत्रित० । 10 D सम्बन्धं दधानानेवं । एतदग्रे D पुस्तके 'चौलुक्यवंशोपश्लोककेन श्लोकान् वाचयनृपं सन्तोषयामास । यथा-' एषा पंक्तिरुपलभ्यते । तदनन्तरं 'हरिरिव०' पद्यं । + एतदन्तर्गता पंक्ति: D पुस्तके नास्ति । 11 BP 'तथा च' नास्ति। 12 पाणिनि संवृणु BP 13 AD श्रीहेमचन्द्रोक्तयः । 14 BP •प्रभृतिधर्म० । 15 AD यशोवर्मा पृष्ट इत्यवादीत् । 16 BP तव । 17 BP ० भाजनं । 18 A ०वान्मुदिता० । 19 AD ॰वद्द्द्द्रव्य० | 20 BP ० व्ययमनिर्वहन्तः । 21 AD 'भविष्यन्ति' इत्येव । 22 BP कस्मिन्नध्यवसरे । 23 A. 'रुद्र' नास्ति । 24 P • कालदेवप्रा० । 25 P संस्थाप्य । 26 AD तदीय० 1 27 AD गृहीतां मोचयामास । 28P तावद् | 29 AD भालोक्य । 30 BP पृष्टः । 31 BP ' ततो मया' नास्ति । १-१ एतदन्तर्गत पाठस्थाने BP 'तत् द्रव्यप्रत्यर्पणापूर्व' इत्येव पाठः । 32 D नृपतिनाऽर्पितं । 33 A ० प्रमाणः परिपूर्णः प्रासादः कारितस्ततो नृपस्तत्र प्रासादे; D प्रमाणे परिपूर्णे प्रासादे । 34 BP • राज्ञां । 35 AD नास्ति । 37 AD • कालवैजयन्त्यां । 36BP नास्ति । Jain Education International 5 For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164