________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः ।
स्तकमारोप्य सितातपवारणे ध्रियमाणे चामरग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्य पूजा पूर्व कोशागारे न्यधीयत । ततो राजाज्ञयान्यानि व्याकरणान्यपहाय तस्मिन्नेव व्याकरणे सर्वत्राधीयमाने केनापि मत्सरिणा 'भवदन्वयवर्णनाविरहितं व्याकरणमेतद्' 'इत्युक्ते श्रीहेमाचार्यः क्रुद्धं राजानं राजमानुषादवगम्य द्वात्रिंशच्छोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रपादेषु तान् सम्बद्धाने लेखयित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे -
१३८. हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥ इत्यादीन् चौलुक्यवंशोपश्लोकान्, द्वात्रिंशत् सूत्रपादेषु, द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितमना नरेन्द्रो व्याकरणं विस्तारयामास । तथा" च श्रीसिद्धराजदिग्विजयवर्णने याश्रयनामा ग्रन्थः कृतः ।
१३९. भ्रातः ! संवृणु पाणिनि " प्रलपितं कातन्त्रकन्या वृथा मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् | 10 कः कण्ठाभरणादिभिर्वठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥
६.१
९८) अथ श्रीसिद्धराजेन पत्तने यशोवर्मराज्ञ स्त्रिपुरुषप्रभृतीन् सर्वानपि राजप्रासादान् सहस्रलिङ्गप्रभृतीनि च धर्मस्थानानि दर्शयित्वा प्रतिवर्षं देवदायपदे कोटिद्रव्यव्ययं निवेद्यैतत्सुन्दरमसुन्दरं वेति "पृष्टः स एवमवादीत् - 'अहं ह्यष्टादशलक्षप्रमाणमालवदेशाधिपस्त्वत्तः" पराभवपात्रं कथं भवेयम्, परं महाकालदेवस्य दत्तपूर्वत्वाद्देवद्रव्यं मालवका स्तद्भुञ्जानास्तत्प्रभावादुदि- 15 तास्तमिता वर्त्तामहे । भवदीयान्वय राजानोऽप्येतावद्दे वैद्रव्यव्ययनिर्वाह । क्षमाः, लुप्तसर्वदेवदायपदा विपदां पदं भवन्तो मूलनाशं विनंक्ष्यन्ति ।'
९९) अथ श्रीसिद्धराजः कदापि " सिद्धपुरे रुद्रमहाकालप्रासादं कारयितुकामः कमपि स्थपतिं स्वसंनिधौ स्थापयित्वा प्रासादप्रारम्भलग्ने तदीयां कलासिकां लक्षद्रव्येणोत्तमर्णगृहात् " विमोच्य तां" वंशशलाकामयीं विलोकयन" 'किमेतदि' ति राजा पप्रच्छ" । ततो" 'मया प्रभोरौदार्यपरी - 20 क्षानिमित्तमेतत्कृतमिति स्थपतिरुक्तवान् । 'ततस्तद्रव्यमनिच्छतोऽपि नृपतेः प्रत्यर्पितम् । ततः क्रमेण' त्रयोविंशतिहस्तप्रमाणं परिपूर्ण प्रासादं कारयामास । तत्र प्रासादेऽश्वपतिगजपतिनरपतिप्रभृतीनामुत्तमभूपतीनां मूर्त्तीः कारयित्वा तत्पुरो योजिताञ्जलिं स्वां मूर्त्ति निर्माप्य देशभङ्गेऽपि तान्" प्रासादस्याभङ्गं याचितवान् । तस्य प्रासादस्य ध्वजारोपप्रस्तावे सर्वेषामपि जैनप्रासा - दानां पताकावरोहं कारितवान् । यथा मालवकदेशे महाकालप्रासादे "वैजयन्त्यां सत्यां जैनप्रा- 25 सादेषु न ध्वजारोप इति ।
38
1 A 'प्राज्यवर्य' नास्ति । 2 BP सपर्या 1 3 BP नास्ति । 4 BP नृपा० । 5 AD 'एतद्' नास्ति । 6-7 एतदतर्गत पाठस्थाने BP ' इति व्याहरता क्रुद्धे नृपतौ नृपाङ्गमानुषात्तदवबुध्य' एषः पाठः । 8P नवीनान् विधाय । 9 D सूत्रित० । 10 D सम्बन्धं दधानानेवं । एतदग्रे D पुस्तके 'चौलुक्यवंशोपश्लोककेन श्लोकान् वाचयनृपं सन्तोषयामास । यथा-' एषा पंक्तिरुपलभ्यते । तदनन्तरं 'हरिरिव०' पद्यं । + एतदन्तर्गता पंक्ति: D पुस्तके नास्ति । 11 BP 'तथा च' नास्ति। 12 पाणिनि संवृणु BP 13 AD श्रीहेमचन्द्रोक्तयः । 14 BP •प्रभृतिधर्म० । 15 AD यशोवर्मा पृष्ट इत्यवादीत् । 16 BP तव । 17 BP ० भाजनं । 18 A ०वान्मुदिता० । 19 AD ॰वद्द्द्द्रव्य० | 20 BP ० व्ययमनिर्वहन्तः । 21 AD 'भविष्यन्ति' इत्येव । 22 BP कस्मिन्नध्यवसरे । 23 A. 'रुद्र' नास्ति । 24 P • कालदेवप्रा० । 25 P संस्थाप्य । 26 AD तदीय० 1 27 AD गृहीतां मोचयामास । 28P तावद् | 29 AD भालोक्य । 30 BP पृष्टः । 31 BP ' ततो मया' नास्ति । १-१ एतदन्तर्गत पाठस्थाने BP 'तत् द्रव्यप्रत्यर्पणापूर्व' इत्येव पाठः । 32 D नृपतिनाऽर्पितं । 33 A ० प्रमाणः परिपूर्णः प्रासादः कारितस्ततो नृपस्तत्र प्रासादे; D प्रमाणे परिपूर्णे प्रासादे । 34 BP • राज्ञां । 35 AD नास्ति । 37 AD • कालवैजयन्त्यां ।
36BP नास्ति ।
Jain Education International
5
For Private Personal Use Only
www.jainelibrary.org