Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
६०
प्रबन्धचिन्तामणिः ।
Sपुरा श्रीजिनेन श्रीमन्महावीरेणेन्द्रस्य पुरतः शैशवे यदूव्याख्यातं तज्जैनेन्द्रव्याकरणमधीयामहे वयमिति वाक्यानन्तरम्, 'इमां पुराणवार्त्तामपहायास्माकमेव सन्निहितं' कमपि व्याकरणकर्त्तारं ब्रूत' इति तत्पिशुनवाक्यादनु नृपं प्राहु:'- 'यदि श्री सिद्धराजः सहायीभवति तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं रचयामः ।' अथ नृपेण 'प्रतिपन्नमिदं निर्वहणीयमित्य5 भिधाय तद्विसृष्टाः सूरयः स्वं स्थानं ययुः । नृपेण' तु 'यशोवर्मराज्ञः करे निःप्रतीकारां क्षुरीं समर्प्य तदग्रासने वयं गजाधिरूढाः पुरमध्ये' प्रवेशं करिष्यामः ।' इति राज्ञः प्रतिश्रवमाकर्ण्य मुञ्जालनाम्ना" मन्त्रिणा प्रधानवृत्तिं मुञ्चता किमिति राज्ञा निर्बन्धपृष्टेन -
१३७. मा स्म सन्धि विजानन्तु मा स्म जानन्तु विग्रहम् । आख्यातं " यदि शृण्वन्ति भूपास्तेनैव पण्डिताः ॥
इति नीतिशास्त्रोपदेशात्खबुद्ध्यैव खामिना प्रतिज्ञातोऽयमर्थः । सर्वथाऽऽयतौ न हित' इत्युक्तम् । 10 नृपस्तु प्रतिज्ञाभङ्गभीरुः" "वरमसून परिहरामि न तु विश्वविदितं प्रतिश्रुतमिति नृपेणोक्ते" मन्त्री दारुमयीं क्षुरिकां विधायें पाण्डुवर्णसर्जरसेन तां" पिहितां पृष्ठासनस्थस्य यशोवर्मणः करे समर्प्य तदग्रासनस्थो नृपतिः श्री सिद्धराजः परमोत्सवेन श्रीमदणहिल्लपुरं प्रविवेश । प्रावेशिकमङ्गलव्याकुलतानन्तरं नृपेण स्मारिते व्याकरणकरणवृत्तान्ते, बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः समं सर्वाणि व्याकरणानि पैंत्तने समानीय श्रीहेमचन्द्राचार्यैः श्री सिद्ध हेमाभिधानं अभिनवं 15 पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्थैप्रमाणं संवत्सरेण रचयांचक्रे । राजवाह्यकुम्भिकुम्भे तत्पु
।
$ अन्त्र Dd आदर्शे निम्नलिखितः समधिकः पाठ उपलभ्यते - 'कैश्चिदसहिष्णुभिर्न मेने । हेमचन्द्रनामा शिष्यः कदाचिन्नवलुञ्चितशिरा जलविहरणाय व्रजन् गजभयात्सौधभिन्तिस्थितो गवाक्षस्थेनालिगपुरोहितेन सारिणा पराभूतः । गुरवो विज्ञप्ताः । तैरुक्तो 'मिथ्या दुःकृतं देहि' । तद्दुःखेन निःसृतोऽन्यगच्छीय देवचन्द्र पद्माकराभ्यां सह श्रीकाश्मीरं प्रति । मार्गे नाडोलग्रामे सप्तमोपवासे श्रीसरस्वती प्रसन्ना जाता । निजमूर्तिर्दर्शिता । मित्रयोर्निवेदिते लोकसप्तशत्या ग्रामो वर्णितः । मित्रद्वयस्य कार्यसिद्धिहेतोः स्तम्भतीर्थे प्रविशतः केनापि देशान्तरिणाकार्य विद्या समर्पिता । इत्युक्तं च- 'मम मरणसमये मम शबोपरि त्रिभिनभिमण्डले मन्त्रः स्मरणीयः । शबो वरं दास्यति' । एवं कृते श्मशाने मध्यरात्रौ शबेनोत्थाय वरो दत्तः । श्रीहेमचन्द्रेण राजप्रबोधो याचितः । देवचन्द्रेण हस्तसिद्धेशकृष्टिविद्या । पद्माकरेण पाण्डित्यं । अन्नान्तरे कृतकृत्यो हेमचन्द्रो वलितः । कालभैरवीयमध्ये चण्डिकाप्रासादे विश्रान्तस्तत्र लघुभैरवानन्दः शिष्यपञ्चशतीवृतः समेत्य, 'रे रे चण्डे प्रचण्डे मह्यं मोदकान् देही' ति भणिवा सुवर्णमयकर्परमग्रे मुक्तं । देव्या मोदकैर्भूतं । तेन सर्वेषां तेऽर्पिताः । हेमचन्द्र स्यापि 'हे शिष्य त्वमपि गृहाणे'त्युक्ते तेन तस्यापि करौ स्तम्भयित्वोक्तं 'यद्यस्ति सखं तदा त्वं भक्षयेथाः' एवमुक्ते चरणयोः पतितः । ततः पतने आयातं श्रीजयसिंहदेवः सम्मुखमेत्य समानीय हेमचन्द्रं गजाधिरूढं प्रवेश्य च पुरोहित तिरस्कृतं सूरिं, राज्ञा गुरव उपरोध्य हेमचन्द्रस्य पदस्थापना कारिता । श्रीहेमचन्द्रसूरयोऽष्टम्यां चतुर्दश्यां च श्रीजयदेवभवनं प्रयान्ति । पौषधागारे श्रीस्थूलिभद्रचरितं वाचयन्तः पुरोहितेन राज्ञोऽग्रे उपहसिताः - 'महाराज ! कोयमसत्प्रलापः ? सर्वरसभोजने पूर्वपरिचित वेश्यागृहे कामनिग्रहः । परं किं क्रियते भवद्वल्लभाः ।' राज्ञोक्तं- 'आचार्या अत्र समेष्यन्ति तदा वक्तव्यं परोक्षे न ।' सूरिध्वागतेषु राज्ञोकं - 'किं किं वाचयन्तो वर्तध्वे यूयं ?" सूरिभिः समग्रमपि संक्षेपतः स्थूलिभद्रचरितं कथितं । आलिगेनोक्तं- 'महाराज !
[ तृतीयः
विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥
Jain Education International
गुरुभिरुक्तं- 'सिंहो बलीयो द्विरद' इत्यादि । आलिगेनोक्तं- 'अस्माकमेव शास्त्राणि पठित्वास्माकमेव पतयः संजाताः ।' गुरुभिरुक्तं'जैनेन्द्रव्याकरणं किं भवदीयं यत्पुरा श्रीजिनेन...'
1 AD οजैनव्या० । 2 AD तद्वाक्या । 3D सन्निहितं नृपं । 4D ते प्राहुः । 5P पदं प्रापुः । 6 AD ततो यशो० । 7 BP नास्ति । 8 BP नास्ति । 9A प्रस्ताव० । 10 'नाम्ना' नास्ति AD 12 BP • देशेन स्वामिना । 13 BP नास्तीदं पदं । 14-15 एतत्पदद्वयस्थाने AD 'ततो' इत्येव । 17 BP नृपवचनात् । 18 B निर्माय; AD नास्ति । 19 P सर्वर०; B गुर्जर० । 20 AD नास्ति । 22 'व्याकुलता' नास्ति AD 23D 'करण' नास्ति । 24 AD तद्वेदि० । 25 AD सह । 26 AD नास्ति । 27 AD हेमाचा० । 28 AD नास्ति । 29 B निर्बन्ध०; P नास्ति ।
11A अख्यातं । 16 D प्रतिश्रव । 21 BP • पत्तनं ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164