Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
५८ प्रबन्धचिन्तामणिः।
[ तृतीयः ताऽस्ति । तस्याः सुकृतं याचनीयं त्वया' इत्थमादिश्य तिरोहिते तस्मिन् राजपुरुषैर्विलोक्य समानीता । तस्मिन्पुण्ये याचितेऽप्यददाना कथमपि 'यात्रायां किं व्ययीकृतमिति पृष्टा सती सा प्राह-'अहं भिक्षावृत्त्या योजनशतं देशान्तरमतिक्रम्य ह्यस्तने दिवसे' कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः अकृतपुण्या पिण्याकमासाद्य, तत्खण्डेन श्रीसोमेश्वरमभ्यर्च्य, 5 तदंशमंतिथये दत्त्वा स्वयं पारणकमकार्षम् । भवती पुण्यवती, यस्याः पितृभ्रातरौ पतिसुतौ
च राजानः, या त्वं बाहुलोडकर "द्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया पूजया" *अगण्यपुण्यमर्जयन्ती मदीयपुण्ये कृशेऽपि कथं लुब्धासि ?*। यदि न कुप्यसि तदा किञ्चिद्वच्मि । तत्त्वतस्तव पुण्यान्मदीयं पुण्यं महीतले महीयः। यतः
१३२. सम्पत्ती नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्ये दानमत्यल्पमपि लाभाय भूयसे । 10 इति युक्तियुक्तेन वाक्येन तस्या गर्व निराचकार ।
९५) सिद्धराजस्तु समुद्रोपकण्ठवर्ती एकेन चारणेन१३३. को जाणइ तुह नाह चीतु तुहाल" चक्कवइ । लहु" लंकह लेवाह मग्गु निहालइ करणउत्तु ॥
*इति स्तूयमाने, द्वितीयेन चारणेनोक्तम् - १३४. धाई धौअइ पाय जेसल जलनिहि ताहिला। तई जीता सवि राय एकु विभिषणु मिल्हि म हु॥ 15 ९६) एवं तत्र यात्रायां व्यापते" राज्ञि, 'छलान्वेषिणा यशोवर्मणा मालवकभूपेन गूर्जरदेशे'
उपद्रूयमाणे सान्तूसचिवेन 'त्वं कथं निवर्त्तसे?' इति प्रोक्तः, स" राजा-'यदि त्वं खखामिनः सोमेश्वरदेवयात्रायाः पुण्यं ददासी'त्युदीरितस्तचरणौ प्रक्षाल्य तत्करतले तत्पुण्यदाननिदानं जलचुलुकं निक्षिप्य तं "राजानं निवर्तयामास। श्रीसिद्धराजः पत्तनमुपेत्य सान्तूमालविकनृप
योस्तं वृत्तान्तमववुध्य क्रुद्धं नृपं मन्त्री एवमवादीत्-'खामिन ! यदि मया दत्तं तव सुकृतं याति, 20 तँदा तस्य सुकृतमन्येषामपि पुण्यवती सुकृतं मया भवते प्रदत्तमेव । अथापरं" येन केनाप्युपायेन
परचक्रं वदेशे प्रविशद्रक्षणीयमेवेति एवं वदता तेन नृपतिरनुनीतः । ततस्तेनैवामर्षेण मालवमण्डलं प्रति प्रतिष्ठासुः सचिवान् शिल्पिनश्च सहस्रलिङ्गधर्मस्थानकर्मस्थाये नियोज्य, त्वरितगत्या तस्मिन्निष्पद्यमाने नृपतिः प्रयाणकमकरोत् । तत्र जयकारपूर्वकं द्वादशवार्षिके विग्रहे सञ्जायमाने सति कथंचित् धारादुर्गभङ्गं कर्तुमप्रभूष्णुः 'अद्य मया धाराभङ्गानन्तरं भोक्तव्यमिति
1 रालोक्य । 2 P याचमाने। 3 BP अनुयुक्ता। 4 BP मया। 5 BP शतानि; D शतान्तरः। 6 AD ह्यस्तन०। 7 P दिने। 8 D नास्ति 'अकृतपुण्या'। 9 A मप्यतिथये। 10 'या वं' नास्ति BPL 11 'बाहुलोडकर' इत्येव A.DI 12 BP सपर्यया। * एतत्पाठस्थाने AD 'श्रीसोमेश्वरं पूजितवती सा कथं मदीयपुण्यलब्धेच्छासि ।' एतादृशः पाठः। 13 AD परं यदि। 14 BP मम। 15 P नास्ति। 16 'युक्ति' नास्ति D17-18 सर्वकषं गर्व विससर्ज BPI 19 D चीत। 20 D तु हालेह। 21 D लड। * अस्याः पंचयाः स्थाने D पुस्तके 'इत्यादि स्तूयमानोऽभवत् ।' इत्येव वाक्यं विद्यते। अनिमा गाथापि तत्र नास्ति। 22 AB 'चैवं' इत्येव । 23 A धाईड। 24 A पाइ। 25 BP लईया। 26 P एक्क; B इकु। 27 AD व्यावृत्ते । १-१ एतदकान्तर्गतपाठस्थाने BP 'मावलकराज्ञा छलान्वेषिणा गूर्जरमण्डले' एष पाठः। 28 BP विज्ञप्तः। 29 BP नास्ति 'स राजा'। 30 AP .चुलकं। 31 'तं राजानं' स्थाने BP 'मालवराजानं यशोवर्माणं'। २-२ एतदन्तर्गतपाठस्थाने A प्रतौ 'ततः श्रीपत्तनगतं श्रीसिद्धराजं तद्वृत्तान्तावगमनेन क्रुद्धं'; D पुस्तके च 'ततः श्रीसिद्धराजस्तद्वृत्तान्तोपगमनेन क्रुद्धस्तं' एतादृशः पाठः प्राप्यते । 32 BP नास्ति । 33 AD यन्। 34 AD ततः । 35 एते शब्दाः BP न सन्ति। 36 P 'एव' नास्ति । 37 AD नास्ति 'अथापरं'। 38 BP निवारणीय० । 39 'एवं' न ADI 40 BP 'ततः' नास्ति। 41 D 'प्रति' नास्ति। 42 P एतत्पदं नास्ति; D स्वजयः। ३-३ एतदकान्तर्गतं वाक्यं न विद्यते ADI
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164