Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
10
प्रकाशः]
सिद्धराजादिप्रबन्धः । *कृतप्रतिज्ञो दिनान्तेऽपि तत्कर्तुमक्षमतया सचिवैः काणिक्यां धारायां भज्यमानायां पत्तिभिः परमारराजपुत्रे विपद्यमाने-इत्थं प्रपश्चात् नृपः प्रतिज्ञामापूर्य अकृतकृत्यतया पश्चाद्व्याधुटितुमिच्छुर्मुञ्जालसचिवं ज्ञापयामास । तेनापि त्रिकचतुष्कचत्वरप्रासादेषु निजपुरुषान्नियोज्य धारादुर्गभङ्गवार्तायां क्रियमाणायां तद्वासिना केनापि पुरुषेण 'दक्षिणेप्रतोल्यां यदि परबलं ढोकते तदैव दुर्गभङ्गो नान्यथेति' तद्वाचमाकर्ण्य स विज्ञप्तः सचिवस्तं व्यतिकरं राज्ञे गुप्तविज्ञप्तिकया 5 निवेदयामास । राज्ञापि तद्वृत्तान्तवेदिना तत्रैव ढौकिते सैन्ये दुर्गमं 'दुर्ग विमृश्य यशःपटहनाग्नि बलवति दन्तावले समधिरूढः, सामलनाना आरोहकेण पश्चाद्भागेन, त्रिपोलिकपाटद्वये आहन्यमाने लोहमय्यामर्गलायां भज्यमानायां बलाधिकतयान्तस्युटितात्तस्माद्गजात्कर्णाङ्गजमुत्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्यां पपात । स 'गजः सुभटतया तदा विपद्य वडसरग्रामे खयशोधवल एव यशोधवलनामा विनायकरूपेणावततार ।
१३५. सिद्धिस्तनशैलतटीपरिणतिदलितद्वितीयदन्त इव । विभ्राणो रदमेकं गजवदनः सृजतु वः श्रेयः॥ इति तदीया स्तुतिः । इत्थं दुर्गभङ्गे सूत्रिते सति समराधिरूढं यशोवर्माणं पद्भिर्गुणैराबध्य" तत्र निजामाज्ञां जगन्मान्यां दापयित्वा यशोवर्मरूपया प्रत्यक्षयशःपताकया रोचिष्णुः श्रीपत्तनं प्राप। [८९] *क्षुण्णाः क्षोणिभृतामनेन कटका भग्नास्यधारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः । 15
आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायमेधिष्यते ॥ [२०] *क्षितिधव भवदीयैः क्षीरधारावल: रिपुविजययशोभिः श्वेत एवासिदण्डः ।
किमुत कवलितैस्तैः कजलैर्मालवीनां परिणतमहिमानं कालिमानं तनोति ॥ ९७) "प्रतिदिनं सर्वदर्शनेष्वाशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः" श्रीसिद्धराजमासाद्य नृपेण दुकूलदानादिभिरावर्जितास्तैः सर्वैरप्यप्रतिमप्रति-20 भाभिरामैर्द्विधापि पुरस्कृतो नृपतये श्रीहेमचन्द्रसूरिरित्थमाशिष" पपाठ१३६. भूमि कामगवि ! खगोमयरसैरासिञ्च रत्नाकराः ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भी भव ।
धृत्वा कल्पतरोदलानि सरलैर्दिग्वारणाः! तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥ अस्मिन्काव्ये निःप्रपञ्चे प्रपञ्चयमाने तद्वचनचातुरीचमत्कृतचेता नृपस्तं प्रशंसन् , कैश्चिदसहिष्णुभिः-'अस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्ता' इत्यभिहिते राज्ञा पृष्टाः श्रीहेमचन्द्राचार्या:-25
* एतच्चिद्वान्तर्गतपाठस्थाने D पुस्तके एतादृशः पाठो विद्यते- 'सचिवैः पत्तिभिः परमारराजपुत्रैः पञ्चशतीभिर्विपद्यमानैः राज्ञः प्रतिज्ञा "दिनान्तेऽपि "पूरयितुमक्षमैः कथंचित्तस्यां कणिकामयधाराभङ्गेन पूरितायां राजा-' 13 एतान् शब्दान् विहाय A आदर्शेऽपि एष एव पाठः । 1 AD 'दक्षिण' नास्ति । 2 ABD तत्र । 3 A. दुर्गमन्तर्दुर्गतं; B दुर्गमदुर्गमं; D दुर्गमन्तर्दुर्गम । 4 AD मयार्गलायां। 5 AD 'तस्मात्' नास्ति । 6 P नास्ति। 7 D 'स गजः' नास्ति । 8 P विहाय 'तदा' नास्ति । 9 AD सिद्धेः। 10 AB परिणिति; P परिणत। 11 P रदन। 12 P नास्ति वाक्यमिदं। 13 BP निबध्य । * एतस्पघद्वयं केवलं P प्रतौ लभ्यते। 14 P इति प्रतिः। 15 D आहूतेषु। 16 B .चन्द्रसूरिमुख्याः । 17 AD नृपायेत्याशिर्ष श्रीहेमचन्द्रः।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164