Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः]
भोज-भीमप्रबन्धः।
(इतोऽने Pb प्रतौ निम्नगतः प्रबन्ध उपलभ्यते-) { अथान्यदा रात्री जागृतो भोजः खऋद्धिविस्तारं हृदये चिन्तयन् हृष्टः सन् इदं काव्यपादत्रयमाह[८०] चेतोहरा युवतयः खजनोऽनुकूलः सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः ।
गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः.... इति पुनः पुनः कथयति सति नृपे चतुर्थपादार्थमक्षरावली विलोकयति सति च तावत्कश्चिद्विद्वान् वैश्याव्यसनी 5 तद्वचनाद्राज्ञीकुण्डलयुग्मकृते तद्वेश्म चौर्याय प्रविष्टः, तत्पादत्रयमशृणोत् । ततस्तेनाचिन्ति यद्भाव्यं तद्भवतु, परमुत्पन्नं चतुर्थ पादं कथं स्थापयितुं शक्तः । ततः प्राह
सम्मीलने नयनयोर्नहि किश्चिदस्ति । राजा तुष्टः कुण्डलसहितं तद्वाञ्छितं ददौ ।} ___७४) अथान्यदा स एव राजो राजपाटिकायाः प्रत्यावृत्तः पुरगोपुरे मुखमुक्तेन तुरगेण प्रवि-10 शन् व्याकुलीभूतेषु इतस्ततः पलायमानेषु जनेषु कामपि तक्रविक्रयकारिणी जनसंमर्दैन मौलि. कम्पाद्भूतलपतितंभग्नभाण्डामपि गोरसे सरित्प्रवाह इव प्रसरति विकसितमुखाम्भोजां श्रीभोजः प्राह-'तव विषादेऽपि किं हर्षकारणं?' इति नृपेण पृष्टे सा प्राह१२०. हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशागणिकाऽस्मि जाता । पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥
15 [*एवमवादीत् । तस्मात्प्रदेशान् 'मही ति महीयसी नदी प्रादुरास"।]
॥ इति गोपगृहिणीप्रबन्धः॥ ७२) अन्यदा प्रातः श्रीभोज उपशिलामेकां लक्षीकृत्य धनुर्वेदमनिर्वेदमभ्यसंस्तत्कालदर्शनार्थमागतेन सिताम्बरवेषधारिणा श्रीचन्दनाचार्येण प्रत्युत्पन्नप्रतिभाभिरामतयौचित्यमभिदधे१२१. विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन राजन्! पाषाणवेधव्यसनरसिकतां मुश्च देव प्रसीद । 20
क्रीडेयं चेत्प्रवृद्धा कुलशिखरिकुलं कैलिलक्षं करोषि ध्वस्ताधारा धरित्री नृपतिलक तदा याति पातालमूलम् ।। इति तत्कवितातिशयचमत्कृतोऽपि किश्चिद्विचिन्त्य नृपतिरित्युवाच-भवता* सर्वशास्त्रपारंगतेनापि ध्वस्ताधारेति यत्पदमपाठि" ततः कमप्युत्पातं सूचयति'। __७६) इतश्च"-डाहलदेशीयराज्ञो राज्ञी देमतिनानी महायोगिनी । साँ कदाचिदासन्नप्रसवा सदैव दैवज्ञानिति पप्रच्छ-'कस्मिन्सुलग्ने जातः सुतः सार्वभौमो भवतीति । अथ तैः सम्यग-25 वगम्योचराशिषु केन्द्रस्थेषु सौम्यग्रहेषु त्रिषडायगेषु क्रूरेषु चामुकलग्ने जातः सुतः सार्वभौमो भवतीत्युक्तम् । तनिशम्य निश्चितप्रसव दिनादूर्ध्व षोडशप्रहरान् यावद्योगयुक्त्या गर्भस्तम्भं कृत्वा नैमित्तिकनिर्णीते लग्ने कर्णनामानं सुतमसूत । तद्गर्भधारणदोषादष्टमे यामे सा* विपन्ना।
1B भूपतिः। 2 BP जातभयेषु; Po कृतभयेषु। 3 BP लोकेषु इतः। 4 AD विक्रयिणीं। 5 B मौलिकम्पेन भूपतनात् ; P कम्पेन भन्नभाण्डा। 6 AD मुखां तां प्राह । 7 D विषादे किं कारणं। 8 BP नृपेणाभिहिता । * एषा पंक्तिः A नोपलभ्यते प्रक्षिप्तप्राया चेयम् । 9 D नास्ति । 10 D 'प्रदेशात् महीनदी' इत्येव । 11 Pa प्रादुरासीत् एवमवादीच; Pb प्रादुरासीदिति कथा लोकप्रसिद्धा। एष प्रबन्धः BPPa आदर्शेषु नोपलभ्यतेऽत्र। 12 D प्रीतः; Pb प्रातःसमये। 13 Pb सिताम्बरेण। 14 A भवतः। 15A पारंगतस्य । 16 A पपात । 17 BPPa नास्तीदं पदं । 18 BP अथ डाहलदेशे देमतनानी राज्ञी; Pa डाहलीदेशेऽथ देमतराज्ञी नाम्नी। 19 AD नास्ति । 20 BPa केन्द्रभाजिषु । 21 BP 'इत्युक्तं' नास्ति । 22 BP कुर्वत्या। 23 D प्रासूत। 24 BPPa सापि संयमिनी पुरी जगाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164