Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः।
[द्वितीयः पृष्टः-'अस्मिन् जीवलोके राजन् ! लोभ एवैको न भव्यः'।*राज्ञा कथमिति भूयोऽपि पृष्ठः-'यबाह्मणः श्वानं स्कन्धदेशेनास्पृश्यमपि वहति तल्लोभस्यैव विजृम्भितमतो लोभ एव न भव्यः ।
॥ इति 'एको न भव्यः' प्रबन्धः॥ ७२) अथान्यदो मित्रमात्रसहायो नृपतिनिशि परिभ्रमन् पिपासाकुलतया पणरमणीगृहं' 5गत्वा मित्रमुखेन 'जलं याचितवान् । ततोऽतुच्छवात्साच्छम्भल्या दास्यां कालविलम्बेनेक्षुरसपूर्णः "करकः सखेदमुपानीयत । मित्रेण खेदकारणे पृष्टे-'एकस्यामिक्षुलतायां शूलेन" भिद्यमानायां पुरा" रससम्पूर्णः सवाहटिको घट आसीत् ; साम्प्रत तु प्रजासु विरुद्धमानसे" नृपे चिरकालेन केवला "वाहटिकैव भृतेति खेदकारणम्' । नृपस्तत्खेदकारणमाकर्ण्य केनापि वणिजा शिवायतने महति नाटके कार्यमाणे तल्लुण्ठनचित्तमात्मानं विमृश्य तद्वचस्तथ्यमेवेति मेने । 10 ततो व्यावृत्त्य स्वस्थानमासाद्य निद्रां सिषेवे । अपरेछुः प्रजासु सञ्जातकृपो नृपः पण्याङ्गनागृहं गतः। तदा च तयाऽद्य प्रजासु वत्सलोनृपतिः, प्रचुरेक्षुरससङ्केतादिति व्याहरन्त्या राजा तोषितः ।
॥इतीक्षुरसप्रबन्धः॥ ७३) अर्थान्यस्मिन्नवसरे धारानगर्याः शाखापुरे प्रासादस्थिताया गोत्रदेव्या नमश्चिकीर्षया नित्यमागच्छन् किदाचिद्वेलाव्यतिक्रमे सञ्जाते सति प्रत्यक्षीभूतया तया देवतया द्वारप्रदेशमाग15 तया मितपरिच्छदं द्वारप्रदेशमागतमकस्मान्नृपमालोक्य ससम्भ्रमान्निषेदुषी निजासनमतिचक्राम। नृपः प्रणामपूर्वकं तं वृत्तान्तं पृच्छन् , सन्निहितं परबलमागतं विचिन्त्य 'शीघ्रं व्रजेति विसृष्टो देवतया क्षणात् गूर्जरसैन्यैर्वेष्टितं खमपश्यत् । जवाधिकेन वाजिना व्रजन् धारानगरगोपुरे प्रविशन् , आलूया-कोलूयाभिधानाभ्यां गूर्जराश्ववाराभ्यां तत्कण्ठे धनुषी प्रक्षिप्य, एतावता व्यापादितोसीति वदभ्यां त्यक्तः। 20 ११९. "असौ गुणीति मत्वेव भोजः कण्ठमुपेयुषा । धनुषा गुणिना यस्य नश्यन्नश्वान्न पातितः ॥
॥इति अश्ववारप्रबन्धः॥
* एतच्चिह्नान्तर्गतपाठस्थाने BPPa आदर्शेषु-'इत्युच्चरन् कथमिति भूयो अनुयुक्तः श्वानं दधानं विप्रमपगताच (PPa वोरणं दर्शयन् लोभवशविसंस्थुलवृत्तिं ज्ञापयामास ।' एतादृशः पाठो विद्यते । 1 BPPa अथान्यस्मिन्नहनि। 2 Pa .मात्र नास्ति । 3 B धरित्रीपतिः; Pa भूपः। 4 P क्षपायां; BPa क्षणदायां। 5 BP • कुलिततया। 6 P पणनारीगृहाङ्गणं । 7-8 एतदकान्तर्गतशब्दसमूहस्थाने BPPa ‘पयसि याच्यमाने अतुच्छ(ल्य Pa) वात्सल्यतया' एते शब्दा विद्यन्ते। 9 नास्ति । P बिना। 10 P पूर्ण करकं। 11 AD नास्ति । 12 D नास्ति । 13 Pa 'पुरा' नास्ति । 14 Pa रसपरिपूर्णः । 15 P विरुद्ध नृपे; Pa विरुद्ध नृपमानसे। 16 BPPa वाहटिकैव केवला। 17 AD 'खेदकारणं' नास्ति । 18 BPPa नास्ति। 19 BP स्वं । 20 • मेव दध्यौ । एतदन्तर्गतपाठस्थाने BPPa भादशेषु-'पुनः स वसुधाधवः (Pa .धाधिपः) सौधमध्यास्य निद्रावसरे सञ्जातकृपः प्रजासु, परस्मिन्नहनि पणाङ्गनागृहमुपागतः । तत्कालागतया तया अद्य प्रजासु वत्सलो नृपतिरिति प्रचुरेक्षुरससङ्केताद् व्याहरन्ती नृपतिं तोषयामास ।' एतादृशः पाठ उपलभ्यते; Pb आदर्श पुनः अयमेव पाठः किञ्चिद्धेदरूपेणोपलभ्यते। यथा-'अथ परेछुः प्रजासु सञ्जातकृपस्तस्या एव गृहे गतः। तथैव जले मार्गिते क्षणादिक्षुरसे आनीते सहर्षाऽधुना प्रजासु वत्सलो नृप इति वदन्ती जलं पायति स्म । तैः पृष्टं कथं ज्ञायते राजन्वती प्रजा । तया रसवृत्तान्ताद् राजा तोषितः ।' 21 AD 'अथ' इत्येव; BOअन्यदावसरे। 22 AD शाखानगरे। 23-24 BP स्थितगोत्रजानमः। एतदन्तर्गतपाठस्थाने AD एतादृशः पाठः-'कदापि तद्भक्तिरञ्जितया देव्या स नृपः साक्षादभ्यधायि-परबलं सन्निहितमागतं ततः शीघ्रं ब्रजेति विसृष्टः । क्षणाद् गूर्जरसैन्यैः स्वं वेष्टितमालोक्य ।' | एष श्लोकः BPa नोपलभ्यते। 25 AD यश्चापश्यदश्वान्निपातितः एतादृशश्चतुर्थः पादः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164