Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 64
________________ प्रकाशः] भोज-भीमप्रबन्धः । निर्णीय ताभ्यां 'पूतराः सन्तीत्यत्र' इत्यभिहिते स्नानासनात्तद्दर्शनार्थमुत्थाय तत्रागतः सन्, स्थालेऽधिरोपितदधिसन्निधौ यावद्यावकपुंओऽधिरूढस्तैर्जन्तुभिर्दधिपिण्ड इव पाण्डुरतामवलोक्य; जिनधर्मे जीवरक्षाप्राधान्यम् , तत्रापि जीवोत्पत्तिज्ञानवैदग्यम् , यथा ८७. *मुग्गमासाइपाई विदिल-कच्चम्मि गोरसे पडइ । ता तसजीवुप्पत्ती भणन्ति दहिए तिदिणुवरि ॥ तजिनशासने एवेति निश्चित्य शोभनमुनेः शोभनवोधात्सम्यक्प्रतिपत्तिपुरःसरं सम्यक्त्वं 5 भेजे। [इयदिनानि खं मिथ्यात्वमयं विदन् , मम बन्धुः कापि दृष्टः इति तस्यैव पुरः पृच्छन् वयआख्यागुणादिभिः तदुपमाने शोभनेन खं कथयता अनुमानात् मम भ्रातैवायमिति निश्चित्य आनन्दाश्रुपूर्व तमालिंग्य खशिशोर्द्वारा तद्गुरून् आकारयामास च । ] कर्मप्रकृत्यादिषु जैन विचारग्रन्थेषु प्रकृत्या प्राज्ञः परं प्रावीण्यनुद्वहन , प्रति प्रातर्जिना_वसरप्रान्ते ८८. कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मतिवितरता मोहेनाहो मयानुसृतः पुरा । । त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना खपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः॥ ८९. सव्वत्थ अत्थि धम्मो जा मुणियं जिण न सासणं तुह्म । कणगाउराण कणगं" व ससियपयं अलम्भमाणाणं ॥ [१५] {'किं ताए पढियाए पयकोडीए पलालभूयाए । जत्थित्ति न नायं परस्स पीडा न कायव्या ॥ [१६] देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति । 15 क्षेत्राधीशः शिम्बिकाः सम्प्रदत्ते सार्वस्तुष्टः सम्पदं स्वां ददाति ॥} इत्यादीनि वाक्यानि पठन्" स धनपालः कदाचिन्नृपेण मृगयां सह नीतः । बाणेन मृगे विद्ध सति तद्वर्णनाय विलोकितमुखो धनपालः प्राह-९०. रसातलं यातु यदैत्र पौरुषं कुनीतिरेषा शैरणो ह्यदोषवान् । विहन्यते यद्धलिनापि दुर्बलो ह हा महाकष्टमराजकं जगत् ॥+ इति तन्निर्भर्त्सनात्क्रुद्धो नृपः किमेतदित्यभिधाने ९१. वैरिणापि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ॥ इत्यद्भुतसञ्जातकृपेण नृपेण धनुर्बाणभङ्गमङ्गीकृत्याजीवितान्तं संन्यस्तमृगयाव्यसनेन पुरं प्रति" 20 1 D निर्णीय प्रोक्तं । 2 AD रोपिते दनि सः। 3D पुम्भे। 4D 'तैः' स्थाने 'तद्वर्ण'। 5AD दया । * P प्रत्यन्तरे इयं गाथा नास्ति; B आदर्शऽपि मूले पृष्ठपार्श्वभागे पश्चात्केनापि लिखिता लभ्यते। 6 Pa पभिई। 7 Paबिदलं । 8 Pa विदिणुः । * कोष्टकान्तर्गतः पाठः मात्रं B प्रतौ प्राप्यः। 9 AD प्रातः प्रातः। 10 Pb जा न पत्तं जिण सा०। 11 D कणगु ब्व । केवलं Pb प्रती इयं गाथा लभ्यते । " D पुस्तके इदं पद्यमुपलभ्यते, A आदर्श पृष्ठस्याधोभागे पश्चात्केनापि टिप्पितमस्ति । 12 Pb वाक्यानि स पठति । 13 BP नृपतिना। 14 D कदाचिन्नृपेण सह मृगयां नीतो धनपालोऽभिहितः। 15 B Pa तवा। 16 P हरिणो। 17 P प्रह; B निह। + इतोऽग्रे Pa प्रतौ, किञ्चिद्विपर्ययेण च D पुस्तके निम्नलिखितं वर्णनं प्रक्षिप्तं प्राप्यते [ततो भोजराजः प्राह-किं कारणं नु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः?। . धनपालः प्राह-देव! वदस्वचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥] 18 D इत्यूचे अतोऽद्भूतः। 19 D'प्रति' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164