Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 67
________________ प्रबन्धचिन्तामणिः । [द्वितीयः ५९) अथ धनपालो ऋषभपश्चाशिकास्तुति निर्माय, सरस्वतीकण्ठाभरणप्रासादे स्वनिर्मितप्र. शस्तिपदिकायां कदाचिन्नृपः९५. अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ 5 काव्यमिदं निर्वर्ण्य पारितोषिके तस्याः पट्टिकायाः काञ्चनकलशं ददौ । तस्मात्प्रासादादपसरंस्तदीयद्वारखत्तके रत्या सह हस्ततालदानपरं स्मरं मूर्तिमन्तमालोक्य नृपेण हासहेतुं पृष्टः पण्डितः प्राह ९६. स एष भुवनत्रयप्रथितसंयमः शङ्करो विभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । ___ अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ 10 (अत्र D पुस्तके 'अन्नदिणे सिवभवणे०'; 'दिग्वासा यदि तत्किमस्य धनुषा०', 'अमेध्यमश्नाति०', 'पयःप्रदान सामर्थ्याद'; 'असत्युत्तमांगेः' इत्यादीनि पद्यानि समुपलभ्यन्ते परमत्राप्रासङ्गिकत्वात्, Pb आदर्शानुसारेणेतःपूर्वमेवोल्लिखितत्वाञ्च पुनर्नोद्धृतानि ।) ९७. पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यसिन्भसावशेषोऽपि ॥ इत्यादिभिः प्रसिद्धसिद्धसारखतोद्दारैर्नृपं रञ्जयन यावदास्ते तावत्कोऽपि सांयात्रिको द्वाःस्थनिवे15 दितः सभां प्रविश्य नृपं नत्वा मदनमयपट्टिकायां प्रशस्तिकाव्यानि दर्शयामास । नृपेण तल्लाभस्थानके पृष्टे स एवमवादीत्-'नीरधावकस्मादेव मम वाहने स्खलिते निर्यामकैः शोध्यमाने समुद्रे तन्मग्नं शिवायतनं' परितः परिस्फुरजलमप्यन्तःसलिलविकलमवलोक्य कस्यामपि भित्तौ वर्णानिर्वर्ण्य च तजिज्ञासया मदनपट्टिकां तत्र प्रस्थाप्य तत्संक्रान्ताक्षरमयी पहिकेयमिति नृपतिर्नि शम्य तदुपरि मृण्मयी पदिकां नियोज्य तत्र पतितान् विपरीतान्" वर्णान् पण्डितैर्वाचयामास । 20 ९८. आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरसत्सङ्कथयैव पार्थिवसुतः सम्प्रत्यसौ लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः॥ ९९. देवे दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे भतुर्द्धर्तुमदान्मदान्धमधुपी नीलीनिचोलं धनुः॥ १००. चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं निःश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् । 25 नासावंशप्रणालीविषमपथपतद्वाष्पपानीयमेतद्" देव त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति ॥ इति सम्पूर्णेषु काव्येषु वाच्यमानेषु, १०१. अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । अस्य काव्यस्योत्तरार्द्ध छित्तंपादिभिः परःशतैरपि पण्डितैः" परिपूर्यमाणमपि विसंवदतीति राज्ञा धनपालपण्डितः पृष्टः हरशिरसि शिरांसि यानि रेजुर्हरिहरि तानि लुठन्ति गृध्रपादैः ॥ 1 A पट्टिकां राज्ञे दर्शयामास नृपः (D तत्र)। 2 P कर। 3 D एव। 4 P नास्ति। 5 PD 'मय' नास्ति । 6 BP ऽम्भोनिधौ; Pa sम्भोधौ। 7 ABD .तनमालोक्य परिः। 8-9 एतद्वाक्यखण्डं Pa आदर्शऽनुपलभ्यम् । 10 D 'विपरीतान्' नास्ति । 11 AD मेता। 12 D छिन्नपा। 13 B 'अपि' नास्ति । 14 Pb 'बाणमयूरछत्तपनाचिराजकपूर. प्रमुखेषु अपरेषु पण्डितेषु, इदं स्वकल्पितमेव उत्तरार्द्ध न मुख्यमिति बदत्सु धनपालः प्राह' एतादृशः पाठो विद्यमानोऽस्ति । 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164