Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
15
प्रकाशः]
भोज-भीमप्रबन्धः। [६२] अथ-- अन्नदिणे सिवभवणे दुवारदेसे निएवि भिंगिगणं ।
किं एस दुब्बलो इय निवपुट्ठो भणइ धणवालो ॥ यथा[६३] दिग्वासा यदि तत्किमस्य धनुषा तच्चेत् कृतं भस्सना भसाथास्य किमङ्गना यदि च सा कामं प्रति द्वेष्टि किम् ।।
इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपुरुषं धत्तेऽस्थिशेषं वपुः ॥} 5 ५८) अथ कस्मिन्नप्यवसरे नरेश्वरः सरस्वतीकण्ठाभरणप्रासादे व्रजन सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत्-'सर्वज्ञस्तावत्कदाचिदासीत् । तत्रं साम्प्रतं कश्चिज्ज्ञानातिशयोस्ती'त्यभिहिते, 'अर्हत्कृते अर्हन्तश्रीनामनि चूडामणिग्रन्थे विश्वत्रयस्य त्रिकालवस्तुविषयखरूपपरिज्ञानमद्यापि विद्यते' इति तेनाभिहिते-'त्रिद्वारमण्डपे स्थितः कस्मिन्द्वारेऽस्माकं निर्गमः' इति शास्त्रकलङ्कारोपणोद्यते नृपे, बुद्धिमात्रा त्रयोदशीति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णय-10 मालिख्य मृण्मयगोलके निधाय च स्थगिकाधरस्य तं समl-देव! पादावधार्यतामिति नृपं प्राह । नृपस्तद्बुद्धिसङ्कटे निपतितं खं मन्यमान एतद्द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यतीति विमृश्य सूत्रभृद्भिर्मण्डपपद्मशिलामपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा, तेष्वक्षरेषु तमेव निर्गमनिर्णयं वाचयंस्तत्कौतुकोत्तालचित्तः श्रीजिनशासनमेव प्रशशंस ।
(अत्र D पुस्तके निम्नलिखितं पद्यं प्राप्यते-) {तथाहि[१४] द्वाभ्यां यन्न हरिखिमिर्न च हरः स्रष्टा न चैवाष्टभिर्यन्न द्वादशभिर्नुहो न दशकद्वन्द्वेन लङ्कापतिः । यनेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥
(Pb आदर्शे पुनरत्र निम्नलिखितमधिकं कथनमुपलभ्यते-) {अन्यदा जलाश्रयपृच्छा[६५] सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं व्युच्छिन्ना शेषतृष्णा प्रमुदितमनसः प्राणिसार्थी भवन्ति।
शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनोदासीनभावं भजति मुनिगणः कूपवत्रादिकार्ये ॥ कदाचित् स्वकारितप्रौढतरनवसरसि गतो नृपः 'कीगिदं धर्मस्थानमिति पृच्छति । धनपालः प्राह[६६] एषा तटाकमिषतावकदानशाला मत्स्यादयो रसवती प्रगुणा सदैव । पात्राणि यत्र बकसारसचक्रवाकाः पुण्यं कियद् भवति तत्तु वयं न विद्मः ॥
25 तथातथुकोप । पुरमागच्छन् मार्गे बालिकासहितां वृद्धां जरया शिरो धूनयन्तीं दृष्ट्वा नृपः पृच्छति-'किं शिरो धूनयति ? ततो धनपाल:[१७] किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता
किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुबेरः । नायं नायं न चायं न खलु नहि न वा नापि नासौ न चासौ
30 क्रीडां कर्तु प्रवृत्तः स्वयमपि च हले भूपतिर्भोजदेवः ॥
अनेन नृपं रुष्टं तोषयामास ।} 1P प्रभावना। 2 P अत्र; AD तद्दर्शने। P अर्हन्तश्रीनामचू०; A अर्हन्तश्रीचू०; D अर्हच्छ्रीचू । 4 AD तेनोक्त। 5 B समर्पयन Pa समर्पयामास। 6D शिलातल । 7 B जैन ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164