Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 68
________________ प्रकाशः] . भोज-भीमप्रबन्धः। इदमेवोत्तरार्द्ध संवदतीति नृपेणोक्ते सति स पण्डितः प्रोवाचा-'यदि गुम्फार्थाभ्यां श्रीरामेश्वरप्रासादप्रशस्तिभित्ताविदं न भवति तदाऽतःपरमाजीवितान्तं कवित्वस्य सन्न्यास एवेति । तत्पतिवसमकालमेव यानपात्रे निर्यामकान्निक्षेप्यावगाह्यमाने नीरधौ षभिर्मासैस्तं प्रासादमासाद्य पुनर्मदनपट्टिकायां न्यस्तायामिदमेवोत्तरार्द्धमागतमालोक्य तस्मै तदुचितं पारितोषिकं प्रसादीचकार । इति खण्डप्रशस्तेयथाश्रुतानि बहूनि काव्यानि मन्तव्यानि ।। ६०) कदाचिद्राज्ञा सेवाश्लथतां पृष्टः पण्डितः खं तिलकमञ्जरीगुम्फवैयग्यं जगौ। शिशिरयामिन्याश्चरमे यामे निर्विनोदत्वात्तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमञ्जरीकथांवाचयंस्तद्रसनिपात भीरुः पुस्तकस्याधः कच्चोलकयुतसुवर्णस्थालस्थापनापूर्वं तां समाप्य तचित्रकविताचित्रीयमाणचित्तो नृपः पण्डितं प्राह-मामत्र कथानायकं कुर्वन् , विनीतायाः पदेऽवन्तीमारोपयन् , शक्रावतारतीर्थस्य पदे महाकालमालपन्" यद्याचसे तत्तुभ्यं ददामी'त्यभिदधाने 10 नृपे खद्योत-प्रद्योतनयोः सर्षप-कनकाचलयोः काच-काश्चनयोः धत्तूर-कल्पपादपयोरिव तवं तेषां महदन्तरमित्युचरन् १०२. दोमुह निरक्खर लोहमईय नाराय तु किं भणिमो । गुञ्जाहि समं कणयं तुलन्तु न गओसि पायालं ॥ इत्याक्रोशपरे तस्मिन् जाज्वल्यमानेऽग्नौ तां मूलप्रतिमिन्धनीचकार । अथ स द्विधा निर्वेदभार द्विधाऽवाङ्मुखो निजसोधपश्चाद्भागे जीर्णमश्चाधिरूढो निःश्वसन भृशं सुष्वाप । बालपण्डितया 15 तत्सुतया *सभक्तिकमुत्थाप्य स्नानपानभोजननिर्मापणानन्तरं तिलकमञ्जरीप्रथमादर्शलेखनात्संस्मृत्य ग्रन्थस्याई लेखयांचके । तदुत्तरार्द्ध नूतनीकृत्य ग्रन्थः समर्थितः।। (इतोऽने Pb आदर्श निम्नलिखितमधिकं कथनमुपलभ्यते-) {-ग्रन्थः समर्थितः पण्डितेन । रुष्टो नाणाग्रामे गतः । कदाचिद् धर्मनाम्नि वादिनि समागते भोजसभायां स कोऽपि तादृग् [ विद्वान्नास्ति ] यस्तं प्रतिवादायोत्सहते । ततो भोजेन सबहुमानं धनपाल आकारितः । तमा- 20 गच्छन्तं ज्ञात्वा नष्टो वादी । लोकः 'धर्मस्य त्वरिता गतिः' इति हसितः। राज्ञा सम्मानितः.........पृष्टं च समाधानयोगक्षेमादिस्वरूपं नृपेण । पण्डितः प्राह- . [६८] पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ (अत्रैव D पुस्तके निम्नगता विशेषाः पंक्तयःप्राप्यन्ते-) {अन्यदा भोजसभायां काव्यमिदमुक्तं तेन 25 [६९] धाराधीश धरामहीशगणने कौतूहलीयानयं वेधास्त्वद्गणनां चकार खटिकाखण्डेन रेखां दिवि। . सैवेयं त्रिदशापगा समभवत्वत्तुल्यभूमीधवाभावात्तत्त्यजति स सोऽयमवनीपीठे तुषाराचलः॥ अपरपण्डितैरस्मिन् काव्ये उपहसिते धनपालेनोक्तम्___+ एतद्विदण्डान्तर्गतपाठस्थाने Pa आदर्श 'संबदतीति तुष्टस्तस्मै पारितोषिकं सादीचकार । अपरेषु पण्डितेषु, इदं स्वकल्पितमेव उत्तराद्धं न मुख्यमिति वदत्सु धनपालः प्राह-' एतादृशः पाठो विद्यमानोऽस्ति । 1P विनाऽन्यत्र 'प्रासाद' नास्ति । 2 P विनाऽन्यत्र 'तदतः। 3 Pb तदुचितं सविशेषं । 4 Pb पुनरदात् । 5 Pb आदर्श 'खण्डप्रशस्तेर्बहूनि काव्यानि नालिख्यमानानि सन्ति ग्रन्थान्तर इव भवनात्'। 6 स पण्डि०। 7 BP नास्ति । 8 AD चरमः। 9 Pa .युगहेमस्थाल। 10 D माकलयन् । 11 Pa दास्थामी। 12 Pa काचहेम्नोः। 13 AD 'तव' नास्ति; B तत्र । 14 AD दोमुहय । 15 Pa कित्तियं । 16 P तोलन्तु । 17 Pa पाश्चात्यः । 18 Pa मञ्चकारूढो। * Pb आदर्श 'सभक्तिकं भोजनायोत्थापितः, तवृत्तान्तं ज्ञात्वा सानभोजनानन्तरं तिलकमञ्जरीग्रन्थस्य प्रथमादर्श' एतादृशी पंक्तिः। 19 AD लेखदर्शनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164