Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 53
________________ २६ 10 प्रबन्धचिन्तामणिः। [ द्वितीयः ४४. इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ॥ ४५. निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि॥ ४६. अयमवसरः सरस्ते सलिलैरुपकर्त्तमर्थिनामनिशम् । इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ४७. कतिपयदिवसस्थायी पूरो दूरोन्नतश्च भविता ते । तटिनीतटदुपातिनि पातकमेकं चिरस्थायि ॥ 5 ४८. किं च- यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥ इतिखकृतं कण्ठाभरणीभूतं श्लोकमिष्टं मन्त्रमिव जपन्',मनिन्' प्रेतप्रायेण भवता कथं विप्रलभ्ये। ४१) अथान्यस्मिन्नवसरे राजा राजपाटिकायां सञ्चरन् सरित्तीरमुपागतः । तन्नीरमुल्लङ्घयागच्छन्तं दारिद्योपद्रुतं काष्ठभारवाहकं कमपि विप्रं प्राह ४९. 'कियन्मानं जलं ? विप्र' 'जानुदप्नं नराधिप!' । इति तेनोक्ते ___'कथं सेयमवस्था ते?' इति नृपेण 'पुनरुक्ते 'न सर्वत्र भवादृशाः॥" इति तद्वाक्यान्ते यत् पारितोषिकं नृपतिरस्मै अदापयत् तन्मन्त्री धर्मवहिकायां श्लोकबद्धं लिलेख । तद्यर्थी ५०. लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः । दत्तं भोजेन" तुष्टेन जानुदनप्रभाषिणे" ॥ ४२) अथान्यस्यां निशि निशीथसमयेऽकस्माद्विगतनिद्रो राजा राजानं गगनमण्डले नवोदित15 मालोक्य स्खसारस्वताम्भोधिप्रोन्मीलद्धेलानिभमिदं काव्या माह. ५१. यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते" तदाचष्टे लोकः शशक इति नो मां प्रति तथा । इति राज्ञा भूयोभूयो निगद्यमाने कश्चिचौरो नृपसौधे खात्रपातपूर्व कोशभुवने प्रविश्य" प्रतिभा भरं निषेद्धुमक्षमः अहं विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुम् ॥ 20 इति तत्पठनानन्तरं चौरमगरक्षैः कारागारे निवेशयामास । ततोऽहर्मुखे सभामुपनीताय तस्मै चौराय यत्पारितोषिकं राज्ञा प्रसादीकृतं तद्धर्मवहिकानियुक्तो नियोग्येवं काव्यमलिखत्५२. अमुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते । सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥ ['पुनरन्यदा गवाक्षजालिकाप्रविष्टं चन्द्रं दृष्ट्वा प्राह . 1 AD .तोदितायां । 2 AD किमपि । 3 Pदूरोन्नतोपि; AD दुरोन्नतोपि चण्डरयः। 4A ' किंच' नास्ति । 5 AD Pb भरणीकृतं । 6 AD मिष्टमन्त्रवजपन् । 7P Pa नास्ति । 8A लभ्यः; D लम्भ्यः। 9D नृपेणोके विप्रः। द्विदण्डान्तर्गतपाठस्थाने Pb प्रतौ 'तद्वाक्यं चिन्तयन् पारितोषिके लक्षस्वर्णमदापयत् । तद् भाण्डागारिको नार्पयति । फेरकमेव कारयति । तदाज्ञा ज्ञाते प्रतिफेरकं लक्षं वर्द्धयति नृपः । वारद्वयफेरके लक्षत्रयं दश गजानदापयत् विप्राय तस्मै ।' एतादृशो विस्तृतः पाठः। 10 Pa यथा तत्; P नास्ति । 11 P Pb विनाऽन्यत्र 'देवेन'। 12 D प्रभाषणात्। 13 D अथान्यदा; B अथ निशायां। 14 AD वेल। 15 BP •मूचे। 16 Pa वितनुते। 17 Pb प्रविष्टः। 18 BP तत्पठितानन्तरं । 19 BD रक्षकैः। 20 Pb oमुपनीय। 21D तोषक। 22P काम्येनालिखत् ; Pb काव्यबद्धमः। 23 Pa भये। कोष्ठकान्तर्गतं वर्णनं Pb विनाऽन्यत्र नोपलभ्यते । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164