Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 51
________________ प्रबन्धचिन्तामणिः। [प्रथमः ४०. *भोली मुन्धि म गव्वु करि पिक्खिवि पडरूयाई । चउदह' सइं छहुत्तरई मुञ्जह गयह गयाई ॥ {सा इत्थमुत्तरं ददौ[३५] च्यारि बइल्ला धेनु दुइ मिट्ठा बुल्ली नारि । काहुं मुंज कुडंबियाह गयवर बज्झई बारि ॥ पुनर्भ्राम्यमाणेन मुंजेन वाप्यामुपविष्टेन राज्ञा वितर्कितेन सता प्रोक्तम्5 [३६] "आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । त्वं किं न पश्यसि घटीर्जलयत्रचक्रे रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ।। तथा पृष्ठे लग्नैः पुरुषैविडम्ब्यमान इत्यूचे[३७] 'जे थक्का गोला नई हूं बलि की ताह । मुंज न दिवउ विहलिउ रिद्धि न दिट्ठ खलाहं ॥ "पुनः खं मन्दबुद्धित्वं सरन् इत्युक्तवान्- . 10 [३८] 'दासिहि नेह न होइ नाना निरहि जाणीयइ । राउ मुंजेसरु जोइ घरि घरि भिक्खु भमाडीइ ॥ अपि च[३९] वेसा छंडि वडायती जे दासिहि रच्चंति । ते नर मुंजनरिन्द जिम परिभव घणा सहति ॥ [४०] मा मङ्कड कुरूद्वेगं यदहं खण्डितोऽनया । रामरावणमुञ्जाद्याः स्त्रीमिः के के न खण्डिताः ॥ [४१] रे रे यत्रक मा रोदीर्यदहं भ्रामितोऽनया । कटाक्षाक्षेपमात्रेण कराकृष्टौ च का कथा ॥ 15 [४२] जा मति पच्छइ सम्पजइ सा मति पहिली होइ । मुञ्ज भणइ मुणालवइ विधन न वेढइ कोइ || [४३] सुहृद्देवेन्द्रस्य ऋतुपुरुषतेजोशजनकः प्रमीतः शय्यायां सुतविरहदुःखाद्दशरथः।। ___ ज्वलत्तैलद्रोण्यां निहितवपुषस्तस्य नृपतेश्चिरात्संस्कारोऽभूदहह विषमाः कर्मगतयः ॥ [४४] अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वके मूर्ध्नि स्थितवति वयं के पुनरमी ॥ } 20 इत्थं सुचिरं भिक्षां भ्रामयित्वा वध्यभूमौ नृपादेशादधविधौ नीतः {सन् परिधानवस्त्रं गृहीतः । तदोचे[४५] इयं कटी मत्तगजेन्द्रगामिनी विचित्रसिंहासनसंस्थिता सदा । __ अनेकरामाजघनेषु लालिता विधेर्वशानिर्वसनीकृताऽधुना ॥ तदनु मुजेन पृष्टं कया मारणविडम्बनया मां मारयिष्यथ । वृक्षशाखावलम्बनात् । तदोवाच25 [४६] क तरुरेष महावनमध्यगः क च वयं जगतीपतिसूनवः । __ अघटमानविधानपटीयसो दुरवबोधमहो चरितं विधेः॥} * P धणवन्ती मा गच्च वहिसि; Pa मा गोलिणि गवु वहिसि। 1 AD चउदसई। 2A छहत्तरइं; P बहुत्तरह । It एतत् कोष्ठकान्तर्गतः एषः सर्वोपि पाठः AB प्रतौ न विद्यते । D, P, Pa, Pb आदर्शेषु भिन्नभिन्नक्रमेण न्यूनाधिकरूपेण च एतत्पाठगतानि पद्यानि समुपलभ्यन्ते। 3 Pa अथ तया प्रोक्तम् । +D पुस्तके नास्तीदं पद्यम् । 4 Pa मीठा बोली। 5 Pa काहउं । 6 Pa कुणंबिया। 7 Pa बजइ। ! एतचिह्नाङ्कितानि एतानि पद्यानि वाक्यानि च Pa आदर्श एवोपलभ्यन्ते । $ इमो द्वौ श्लोको D पुस्तके लभ्येते; Pb प्रतौ अनयोः स्थाने एतादृश एक एव श्लोकः रे रे मण्डक मा रोदीर्यदहं खण्डितोऽनया । रामरावणभीमाद्या योषिद्भिः के न खण्डिताः ॥ एतचिह्नांकितानि पद्यानि Pa प्रतौ नोपलभ्यन्ते। ||D पुस्तके एतत्पद्याने 'यशापुञ्जो मुओ.' एतत्पद्यं लिखितं लभ्यते, तच P आदर्शानुसारेण प्रकरणान्ते स्थितं, तत्रैव सम्बद्धं प्रतिभाति । + इतोऽग्रे D पुस्तके 'आपद्गतं हससि किं.' एतत्पद्यं प्राप्यते, तष Pa आदर्शानुसारेणेतः पूर्वमेवागतमस्ति । - इतोऽग्रे D पुस्तके 'सायरखाइ लंकगढ०' इदं पद्यं विद्यते, तञ्च Pa आदर्शानुसारेणोपर्यागतम्। {x एष पाठः केवलं Pa प्रतौ प्राप्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164