Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः ]
भोज-भीमप्रबन्धः ।
२९
४६) अथ कस्यामपि निशि हिमसमये वीरचर्यया' नृपतिः परिभ्रमन् कस्यापि देवकुलस्य पुरः कमपि पुरुषं
६४. * शान्तोऽग्निः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम शीतेनोद्धुषितस्य माषफलवच्चिन्तार्णवे मञ्जतः * । निद्रा काय मानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव कमला न क्षीयते शर्वरी ॥ इति पठन्तं श्रुत्वा निशान्तमतिवाह्य तं प्रातराहूय पप्रच्छ- 'कथं भवता निशाशेषेऽत्यन्तशीतो- 5 पद्रवः सोढः ? । 'सत्पात्रप्रतिपादितेव कमले ति सङ्केतपूर्वमादिष्टः - 'खामिन्! मयात्र घनत्रिचेलीबलेन शीतमतिवाह्यते' । स इति विज्ञपयन्, 'का तव त्रिचेली' ति' भूयोऽभिहित' "इदमपाठीत्६५. रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकृशानुभिः ॥ स इत्थं वदन् राज्ञा लक्षत्रयैदानेन परितोषितः । ६६. धारयित्वा त्वयात्मानमहो त्यागधना ऽधुना । मोचिता बलिकर्णाद्याः सच्चे तो गुप्तवेश्मनः ॥ इति ससारसारखतोद्गारपरैः, तत्पारितोषिकदानाक्षमेण राज्ञा " सोपरोधं निवारितः । ( अत्र Pb प्रतौ निम्नगतमधिकं वर्णनमुपलभ्यते - )
10
[४९] शीतत्रा न पटी न चाग्निशकटी भूमौ च घृष्टा कटी निर्वाता न कुटी न तन्दुलपुटी तुष्टिर्न चैका घटी। वृत्तिर्नारभटी प्रिया न गुमटी तन्नाधमे संकटी श्रीमद्भोज तव प्रसादकरटी भक्तां ममापत्तटी | अत्र काव्यकर्त्रे ११ 'टी' कारप्रमितलक्षदानं भोजस्य ज्ञेयम् ।
कदाचित्कस्यापि विद्वत्कुलस्य वासार्थं गृहाणि विलोक्यमानानि सन्ति । तेष्वसत्सु 'तन्तुवायधीवरादीन् कर्षयन्तु'इति राज्ञा प्रोक्ते राजपुरुषास्तान् कर्षयन्ति यावत्तावत्तन्तुवायस्तानवस्थाप्य राजपार्श्वे गतः । 'देव ! कस्मान्मां कर्षयसी'ति तेनोक्ते, राजाह - 'त्वं काव्यं करोषि ?' ततः स
[५० ] काव्यं करोमि न च चारुतरं करोमि, यत्तत्करोमि न च सिद्ध्यति किं करोमि । भूपालमौलिमणिलालितपादपीठ श्रीसाहसाङ्क कवयामि वयामि यामि ॥
धीवरवधूरपि मांसं करे कृत्वा राजान्तिके गताऽऽह
[५१] देव त्वं जय कासि लुब्धकवधूर्हस्ते किमेतत् पलं क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न चरन्ति देव हरिणास्तेनामिषं दुर्बलम् ॥
इत्युक्ति प्रत्युक्तिमयं काव्यद्वयं श्रुत्वा तान् नगरान्तः स्थापयामास ।
[ ५२] अश्वा वहन्ति भवनानि सतोरणानि गावश्चरन्ति कमलानि सकेसराणि । पीतं च यत्र दधि नास्ति तिलेषु तैलं प्रासादवारशिखरेषु मृगाश्चरन्ति ||
अन्यदा कश्चित्कोविदो मदोद्धुरोऽवज्ञया तन्नगरजनान् गेहेनर्द्दिन इव मन्यमानो वादार्थमाजगाम । पुराभ्यर्णे 25 कमपि वस्त्रधावनपरं पुरुषं प्रति प्राह - ' रे रे शाटकमलनिर्धाटक नगरे का का वार्ता ?' स प्राह
ततः कामपि बालिकां प्रत्याह - ' का त्वम् ?' साह
[ ५३ ]
1 Pa एकस्यां । 2 B • चर्यायां; A ० चर्यया निसृतः । * D Pa प्रथमद्वितीयपादौ व्यत्ययेन लिखितौ लभ्येते ।
3 BP • प्यपमा० । 4 P आकर्ण्य | 5 Pb निभृन्निशाशेषमति० । 6 A ऽत्यन्तोपद्रवः; P निशायां शीतोपद्रवः । 7 AD • पूर्व समादिष्टं । 8 Pa वस्त्रत्रयीति । 9 Pb ऽभिहितवान् । 10 तत इदमपाठीत् । 11 P लक्षत्रयेण । त्यागाध्वना । 13 P● द्वारपरपरे: Pa 0 द्वारपरं । 14 Pa राजा लक्षत्रयदानेन ।
12 D
Jain Education International
15
20
मृतका यत्र जीवन्ति उच्छ्रसन्ति गतायुषः । स्वगोत्रे कलहो यत्र तस्याहं कुलबालिका ॥ 30
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164