Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 58
________________ प्रकाशः] भोज-भीमप्रबन्धः। ७१. यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज! त्वादृक्षा बहवोऽपि मालवपते ते सन्ति तंत्र विधा। प्रेष्यन्तेऽधममध्यमोत्तमगुणप्रेष्यानुरूपाः क्रमात्तेनान्तःसितमुत्तरं विदधता धाराधिपो रञ्जितः॥ इति तद्वचनचाँतुरीचमत्कृतोराजा गूर्जरदेशं प्रति प्रयाणपटह [*दापनं चक्रे । प्रयाणावसरे चन्दिनोक्तम्७२. चौः क्रोडं पयोधेर्विशति निवसते रन्ध्रमन्ध्रो गिरीन्द्रे" कर्णाटः पट्टबन्धं न भजति भजते गूर्जरो निर्झराणि । . चेदिलेलीयतेऽस्त्रैः क्षितिपतिसुभटः कन्यकुब्जोऽत्र कुब्जो भोज! त्वत्तत्रमात्रप्रसरभयभरव्याकुलो राजलोकः।। 5 ७३. कोणे कौङ्कणकः कपाटनिकटे लाटः कलिङ्गोऽङ्गणे त्वं रे कोशलनूतनो मम पिताप्यत्रोषितः स्थण्डिले । इत्थं यस्य विवर्द्धितो निशि मिथः प्रत्यर्थिनां संस्तरस्थानन्यासभवो' विरोधकलहः कारानिकेतक्षितौ ॥ प्रयाणकपटह*] दापनादनु समस्तराजविडम्बननाटकेभिनीयमाने सकोपः कोऽपि भूपः कारागारान्तरा पुरःस्थितं सुस्थितं तैलिपं" भूपमुत्थापयंस्तेनोचे-'अहमिहान्वयवासी कथमागन्तुकभवद्वचसा निजं पदमुज्झामी ति विहस्य" नृपों" दामरं प्रति नाटकरसावतारं प्रशंसंस्तेनाभिदधे- 10 'देव ! अतिशायिन्यपि रसावतारे धिर नटैस्य कथानायकवृत्तान्तानभिज्ञताम् । यतः श्रिीतैलिपदेवराजा शूलिकाप्रोतमुञ्जराजशिरसा प्रतीयत इति । तेन सभासमक्ष इति प्रोक्ते तन्निर्भर्सनसम्पन्नमन्युरनन्यसामान्यसामग्र्या तदैव तिलैंगदेशं प्रति प्रयाणमकरोत् ।। ४९) अथ तैलिपदेवस्यातिबलमायान्तमाकर्ण्य व्याकुलं श्रीभोज स"दामरः समायातकल्पिंतराजादेशदर्शनपूर्व भोगपुरे श्रीभीमं समायातं विज्ञपयामास । तया तद्वार्तया क्षते क्षारनिक्षेप-15 सहक्षया विलक्षीक्रियमाणः श्रीभोजराजा दामरमभ्यधात्-'अस्मिन्वर्षे त्वया खखामी कथञ्चनापीहागच्छन्निवार्यः' इति भूयो भूयः सदैन्यं भाषमाणे नृपे प्रस्तावविन्नृपाद्धस्तिनीसहितं हस्तिनमुपायने उपादाय पत्तने श्रीभीमं परितोषयामास । ५०) कस्मिंश्चिद्धर्मशास्त्राकर्णनक्षणेऽर्जुनस्य राधावेधमाकर्ण्य, किमभ्यासस्य दुष्करमिति 1AD वद। 2 AD माहक्षा। 3 P किन्तु। 4 रूपक्रमात् । 5 Pb तेनान्तर्गतमुत्तरं। 6 AD चातुर्य । 7.Pb भोजो गूर्जरधरित्रीं। * एतरकोष्टकान्तर्गताः पङ्गयो B Pa आदर्श अनुपलभ्याः। 8 AD दानं। 9 P बन्दी... भवादीत् । 10 D चौलः। 11 P गिरीन्द्र। 12 Pb कुंकुणकः। 13 P भुवो। 14 AD विडम्बनाट। 15 AD धीयमाने। 16 AD 'पुरः' नास्ति; D पुरा। 17 P तैलपं; Pa तैलिपदेव। 18 Pb मुजिहामी। 19 AD विहसन् । 20 Pb भोजनृपो। 21 DOभटस्य। 22 AD सभासमक्षं तेनोक्ते। 23 AD 'सामान्य' नास्ति। 24 B तैलङ्ग; P कर्णाट। + एतद्विदण्डान्तर्गतपतिस्थाने P प्रतौ निम्नगतः श्लोको लभ्यते (४५) भोजराज मम स्वामी यदि कर्णाटभूपतिः। केशाकृष्टं न पश्यामि तम्कि मुजशिरः करे ॥ + एतत्प्रकरणस्थाने Dd प्रती निम्नलिखितरूपात्मकं कथनमुपलभ्यते श्रीभोजराजा गूर्जरोपरि कृतप्रस्थानो बायावासे कृतस्त्रानो भेटितः सन् राज्ञोचे डामराख्यः-भीमडीयाको नापितोऽध कल्ये कि करोति ? । तेनोक्तम्-अन्येषां राज्ञां शिरोमुण्डितम् । एकस्य शिरो जलमिन्नमास्ते पश्चान्मुण्डयिष्यतीति भणिते राज्ञा चमत्कृतेन राजभुवने राजविडम्बननाटके चित्रे डामरस्वामी कर्णाटराज्ञश्चाटूनि कुर्वन् दर्शितः । दूतेनोक्तम्- .. भोजराज मम स्वामी यदि कर्णाटभूपतेः। कराकृष्टो न पश्यामि कथं मुअशिरः करे॥ इति वाक्येन स्मृतपूर्ववैरः गूर्जरदेशं परित्यज्य कर्णाटोपरि प्रयाणं कृतवान् । नृपाने डामरस्योक्तिः (४६) सत्यं स्वं भोजमार्तण्ड पूर्वस्यां दिशि राजसे । सूरोऽपि लघुतामेति पश्चिमाशावलम्बने । 25 BP Pa 'स डामरः' नास्ति । 26 Pa-b 'कल्पित' नास्ति । 27 B Pa सांप्रतवर्षे। 28 A कथंचन इहा; P कथ:: मपि इहा। 29P पुनः पुनः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164