Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 43
________________ १६ 15 प्रबन्धचिन्तामणिः। [प्रथमः मरणे सञ्जाते सति, सचिवैरपत्यमरणं पर्यालोच्य तदुदरविदारणपूर्वमपत्यमुद्धृतम् । मूलनक्षत्रजातत्वात्स 'श्रीमूलराजाभिधया समजनि । बालार्क इव आजन्म तेजोमयत्वात्सर्ववल्लभतया पराक्रमेण मातुलमहीपालं प्रवर्द्धमानसाम्राज्यं कुर्वन् मदमत्तेन श्रीसामन्तसिंहेन स साम्राज्येऽभिषिच्यते अनुन्मत्तेनोत्थाप्यते च । तदादिचापोत्कटानां दानमुपहासतया प्रसिद्धम् । स 5 इत्थमनुदिनं विडम्ब्यमानो निजपरिकरं सजीकृत्य विकलेन मातुलेन स्थापितों राज्ये तं निहत्य सत्य' एव भूपतिर्वभूव । २५) सं० ९९३ वर्षे आषाढसुदि १५ गुरौ, अश्विनीनक्षत्रे सिंहलग्ने रात्रिप्रहरद्वयसमये जन्मत एकविंशतितमे वर्षे श्रीमूलराजस्य राज्याभिषेकः समजनि। (BP आदर्शे-'सं० ९९८ वर्षे श्रीमूलराजस्य राज्याभिषेको निष्पन्नः। एतावानेव पाठः) २४. *मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारकः । अधुना मूलराजेन योगश्चित्रं प्रशस्यते ॥ [१२] स्विमे एत्य वनं जगाद स विभुश्चापोत्कटानां विभोर्वशे हैहयभूपतेगुणवती कन्यास्ति वं...... । चासौ मुदितेन विगताशकं विवाह्या त्वया गर्भ धास्यति सार्वभौममुदरे सेयं मृगाक्षी यतः ॥ [१३] तत्कुशावजनिष्ट विष्टपमणिः श्रीराजिराजाङ्गजः श्रीमद्गुर्जरमण्डलेऽथ नृपतिः श्रीमूलराजाह्वयः । यमिन् दिग्विजयोद्यमव्यतिकरे प्रौढप्रभावाद्भुते कम्पन्ते स मनांसि नाम न परं भूम्योऽपि भूमीभुजाम् ॥ श्रीसौराष्ट्रमंडले युद्धं सा...सीहेन इति प्रबन्धः । [१४] आवर्जिता जितारातेर्गुणैर्वाणरिपोरिव । गूर्जरेश्वरराज्यश्रीर्यस्य जज्ञे स्वयंवरा ॥ [१५] सिपत्राकृतशत्रूणां संपराये स्वपत्रिणाम् । महेच्छः कच्छभूपालं लक्षं लक्षीचकार यः ॥ [१६] लाटेश्वरस्य सेनान्यमसामान्यपराक्रमः । दुर्वारं बाणपं हित्वा हास्तिकं यः समग्रहीत् ॥ [१७] दानोपहतदारियं शौर्यनिर्जितदुर्जनम् । कीर्तिस्थगितकाकुत्स्थं यो राज्यमकरोचिरम् ॥ 20 [इत्यादिभिः स्तुतिभिः वुधैः स्तूयमानः साम्राज्यं कुर्वन्-] कस्मिन्नप्यवसरे सपादलक्षीयः क्षितिपतिः श्रीमूलराजमभिषणयितुं गूर्जरदेशसन्धौ समाजगाम । तद्योगपद्येन नैरपतेस्तिलङ्गदेशीयराज्ञो बारपनामा सेनापतिरुपाययौ । श्रीमूलराजेन तयोरेकस्मिन्विगृह्यमाणेऽपरः पाणिघातं कुरुत इति सचिवैः सह विमृशंस्तैरूचे-'श्रीकन्यादुर्गे प्रविश्य कियन्त्यपि दिनान्यतिवाह्यन्ताम्"। नवरात्रिकेषु समागतेषु सपादलक्षक्षितिपतिः स्वराजधान्यां शाकम्भर्यामेव खगोत्रजामाराध25 यिष्यति। तस्मिन्नवसरे श्रीबारपनामा सेनानीर्जीयते । तदनुक्रमागतः सपादलक्षक्षोणीपतिरपि।' इत्थं तदीये मन्त्रे श्रुते सति नृपःप्राह-'ममलोके पलायनापवादः किं न भविष्यती'त्यादिष्टे,ते ऊचुः २५. यदपसरति मेषः कारणं तत्प्रहर्तुं मृगपतिरपि कोपात्सङ्घचत्युत्पतिष्णुः। हृदयनिहितवैरा गूढयत्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ इति तद्वचसा श्रीमूलराजः श्रीकन्यादुर्गे' प्रविवेश । श्रीसपादलक्षीयभूपतिः श्रीगूर्जरदेश एवं . 1 AD 'सति' नास्ति। 2 P 'मूलनक्षत्रजातत्वात् मूलराज इति' इत्येव पाठः। 3 AD श्रीभूयडदेवेन। 4 AB अननुम०; D तेन तु मत्ते। 5 AD हासप्रसिद्धं। 6 BP राज्ये स्थापितो। 7 BP स सत्य । ___* B आदर्श एतादृश एषः श्लोकः-मूलार्कः श्रूयते लोके सर्वकार्यस्य कारकः । अधुना मूलराजस्तु चित्रं लोकेषु गीयते ॥ + एतचिह्नांकितानि पद्यानि P आदर्श विना नान्यत्रोपलभ्यन्ते । ' एषा खण्डिता पक्लिरपि P प्रतावेव लभ्यते । 8 BP आदर्श एवैषः कोष्ठकगतः पाठः प्राप्यते। 9 Da-b पराजेतुं। 10 B नरपतितिलंगदेशराज्ञो। 11 AD वाह्यन्ते । 12 BP 'ते ऊचुः' नास्ति । 13 P .दुर्ग। 14 AD 'एव' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164