Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 44
________________ प्रकाशः] मूलराजप्रबन्धः। वर्षाकालमतिक्रामन्नवरात्रेषु समागतेषु तस्यामेव कटकभूमौ शाकम्भरीनगरं निवेश्य तत्र गोत्रजामानीय तत्रैव नवरात्राणि पारेभे । श्रीमूलराजस्तत्स्वरूपमवगम्य निरुपायान् मन्त्रिणो मत्वा तत्कालोत्पन्नमतिवैभवो राजलाहणिकां प्रारभ्य राजादेशेन समस्तान् समन्ततः सामन्तानाहूय कूटलेखनव्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान् पदातींश्चान्वयावदाताभ्यामुपलक्ष्य यथोचितदानादिभिरावयं च समयसङ्केतज्ञापनपूर्वकं तान् सर्वान् सपादलक्षीयनृपतिशिबिरस- 5 निहितान् विधाय, खयं निर्णीते वासरे प्रधानकरभीमारुह्य तत्प्रतिपालकेन समं भूयसीमपि भुवमाक्रम्य,प्रत्यूषकालेऽप्रतर्कित एव सपादलक्षीयनृपतेः कटकं प्रविश्य करभ्या अवरुह्य कृपाणपाणिरेकाक्येव श्रीमूलराजस्तद्दौवारिकमभिहितवान्-'साम्प्रतं नृपतेः कः समयः? श्रीमूलराजो राजद्वारे प्रविशतीति खखामिने विज्ञपय'-इति वदंस्तं दोर्दण्डप्रहारेण द्वारदेशादपसार्य, 'अयं श्रीमूलराज एव द्वारे प्रविशती'ति तस्मिन्नभिदधाने गुरूदरान्तःप्रविश्य तस्य राज्ञः पल्यङ्के स्वयं निषसाद । 10 भयभ्रान्तःस राजा क्षणमेकं मौनमवलम्ब्येषत्साध्वसं विधूय, भवानेव श्रीमूलराजः? इत्यभिहिते, श्रीमूलराजस्य ओमिति गिरमाकर्ण्य यावत्समयोचितं किञ्चिद्वक्ति तावत्पूर्वसङ्केतितेस्तैश्चतुःसहस्रप्रमितैः पत्तिभिः स गुरूदरः परितः परिवेष्टयांचक्रे । अथ श्रीमूलराजेन स नृप इत्यभिदधे'अस्मिन्भूवलये नृपतिः समरवीरः समरे यो मम सम्मुखस्तिष्ठति स कोऽपि नास्त्यस्ति वेति मम विमृशतस्त्वमुपयाचितशतैरुपस्थितोऽसि । परमशनावसरे मक्षिकासन्निपात इव तिलङ्गदेशीय-15 तैलिपाभिधानराज्ञः सेनापति मन्जयाय समागतं यावच्छिक्षयामि तावत्त्वया पार्णिघातादिव्यापाररहितेन स्थातव्यमिति त्वामुपरोद्भुमहमागतोऽस्मि । श्रीमूलराजेनेत्यभिहिते से भूपतिरेवमवादीत्-'यस्त्वं नृपतिरपि सामान्यपत्तिरिव जीवितनिरपेक्षतयेत्थं वैरिगृह एक एव प्रविशसि तेन त्वया सार्द्धमाजीवितान्तं मे सन्धिः । तेन राज्ञेत्युदिते'मा मैवं वदेति तं निवारयंस्तेन भोजनाय निमनितोऽवज्ञया तं निषिद्ध्य, करे तरवारिमादायोत्थितस्तां करभीमारुह्य तेन स्कन्धावारेण परि-20 वेष्टितो बारपसेनापतेः कटके पतितः। तं निहत्य दशसहस्रसंख्यास्तद्वाजिनोऽष्टादशगजरूपाणि चादाय यावदावासान दत्ते तावत्प्रणिधिभिरस्मिन्वृत्तान्ते ज्ञापिते सपादलक्षनृपतिः पलायांचके। २६) तेन राज्ञा श्रीपत्तने श्रीमूलराजवसहिका"कारिता, श्रीमुञ्जालदेवखामिनः प्रासादश्च । तथा नित्यं नित्यं सोमवासरे श्रीसोमेश्वरपत्तने यात्रायां शिवभक्तितया व्रजस्तद्भक्तिपरितुष्टः सोमनाथ उपदेशदानपूर्व मण्डलीनगरमागतः। तेन राज्ञा तत्र मूलेश्वर इति प्रासादः कारितः ।25 तत्र नमश्चिकीर्षाहर्षेण प्रतिदिनमागच्छतस्तस्य नृपतेस्तद्भक्तिपरितुष्टः श्रीसोमेश्वरः 'अहं" ससागर एव भवन्नगरे समेष्यामी'त्यभिधाय श्रीमदणहिल्लंपुरेऽवतारमकरोत् । समागतसागरसङ्केतेन सर्वेष्वपि जलाशयेषु सर्वाण्यपि वारीणि क्षाराण्यभवन् । तेन राज्ञा तत्र त्रिपुरुषप्रासादः कारितः। 1 AD ज्ञात्वा । 2 D राजा लिहणिकां; A लिहिणिकीं। 3 BP क्षुगलेखक। 4 DP ज्ञापना। 5 A.D 'स्वयं' नास्ति। 6 D ऽतर्कित। 7 B गुरुदरा०; P गुह्वदरा। 8 B इत्यविहिते; P इति तेनाभिहिते। 9 B मूलराजः स्पष्टं जगौ ओमिः। 10 AD नास्ति । 11 B कोहपतिः; P नास्ति। 12 D विहाय 'मम' नास्ति । 13 BP मन्मुखे अवतिष्ठते । 14. BP नास्त्यस्तिवेति । 15 AD याचितैरुपः। 16 AD तैलप०। 17 AD 'स' नास्ति । 18 D यत्वं । 19 B जीवितान्तमेव सन्धिः, P.जीवितमेव सन्धिः। 20 D'नृपतिः' नास्ति । 21 BP मूलवसहिका। 22 BP मुजालस्वामिदेवप्रासा। 23 AD श्रीपत्तने। 24 शिवभक्त्या। 25 BP मण्डलीमुपागतः। 26 AD 'नृपतेः' नास्ति । 27 AD 'अहं' नास्ति। 28 POहिल्लपत्तने । 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164