Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 45
________________ प्रबन्धचिन्तामणिः। [प्रथम: २७) अथ तस्य प्रासादस्य' चिन्तायकमुचितं तपखिनं कश्चिदालोकमानः सरस्वतीसरित्तीरे एकान्तरोपवासपारणकेऽनिर्दिष्टपञ्चग्रासभिक्षाहारं कान्थडिनामानं स तपखिनमश्रौषीत् । यावत्तन्नमस्याहेतवे नृपतिस्तत्र प्रयाति तावत्तेन तृतीयज्वरिणा स ज्वरः कन्थायां नियोजित इति नृपतिरालोक्य, तेन राज्ञा 'कथं कन्था कम्पते?' इति पृष्टः। 'नृपेण सह वार्ता कर्तुमक्षमतयेह 5 ज्वर आरोपित' इत्यभिहिते पार्थिवः प्राह-'यद्येतावती शक्तिर्भवतस्तदा ज्वरः किं न सर्वथा प्रहीयते इति राजादेशे २६. 'उपतिष्ठन्तु मे रोगा ये केचित्पूर्वसश्चिताः । आनृण्ये गन्तुमिच्छामि तच्छम्भोः परमं पदम् ॥ इति शिवपुराणोक्तान्यधीयन् , नाभुक्तं कर्म न क्षीयते इति जानन् कथममुं विसृजामी'ति तेनाभिहिते त्रिपुरुषधर्मस्थानस्य चिन्तायकत्वाय नृपतिरभ्यर्थयामास । 10 २७. 'अधिकारात्रिभिर्मासैमाठापत्यात्रिमिर्दिनैः । शीघ्रं नरकवाञ्छा चेदिनमेकं पुरोहितः ॥ इति स्मृतिवाक्यतत्त्वं" जास्तप उडुपेन संसारसागरमुत्तीर्य कथं गोष्पदे निमज्जामी ति वचसा निषिद्धो नृपस्ताम्रशासनं मण्डकवेष्टितं निर्माय तस्मै भिक्षागताय पत्रपुटे मोचयामास । स तदजानंस्ततः प्रत्यावृत्तः । पुरा प्रदत्तमार्गोऽपि सरस्वत्याः पूरे तदा न “दीयमानमार्गः, आजन्म निजदूषणानि विमृशंस्तात्कालिकभिक्षादोषपरिज्ञानाय यावद्विलोकते तावत्तद्दत्तं ताम्रशासनं 15 ददर्श । तदनु क्रुद्धं तपोधनं विज्ञाय तत्रागत्य नृपस्तत्सान्त्वनाय यावद्विनयवाक्यानि ब्रूते तावत्तेन मया दक्षिणपाणिना गृहीतं भवत्ताम्रशासनं कथं वृथा भवतीति वयजल्लदेवनामा निजविनेयो नृपाय समर्पितः। तेन वयजल्लदेवेन 'प्रतिदिनमङ्गोद्वर्तनाय जात्यघुसणस्याष्टौ पलानि, मृगमदपलचतुष्टयम् , कर्पूरपलमेकम् , द्वात्रिंशद्वाराङ्गनाः, ग्रासँसहितं सितातपत्रं च यदा ददासि तदा चिन्तायकत्वमङ्गीकरोमी'त्यभिहिते राज्ञा तत्सर्वप्रतिपद्य त्रिपुरुषधर्मस्थाने तपत्रिभूपतिपदे 20 सोऽभिषिक्तः । कंकूलोल इति प्रसिद्धः । इत्थं भोगान् भुञानोऽप्यजिह्मब्रह्मचर्यव्रतनिरतः स कदाचिनिशि मूलराजपच्या परीक्षितुमारब्धः । तां ताम्बूलप्रहारेण कुष्ठिनी विधाय पुनरनुनीतो निजोद्वर्त्तनविलेपनात् लानोत्सृष्टपयःप्रक्षालनाच सज्जीचकार । [अथात्रैव लाखाकोत्पत्ति-विपत्तिप्रवन्धः।] २८) पुरा कस्मिन्नपि परमारवंशे कीर्तिराजदेवाधिपतेः सुता कामलतानाम्नी। सा बाल्ये सम25 मालिभिः कस्यापि प्रासादस्य पुरोरममाणा, वरान् वृणीतेति ताभिर्व्याहियमाणों सा कामलता घोरान्धकारनिरुद्धनयनमार्गा प्रासादस्तम्भान्तरितं फूलडाँभिधानं पशुपालमज्ञातवृत्तान्तमेव वृत्वा, तदनन्तरं कतिपयैवर्षेः प्रधानवरेभ्य उपढौक्यमाना पतिव्रताव्रतनिर्वहणाय पितरावनुज्ञाप्य निबन्धात्तमेवोपयेमे । तयोर्नन्दनो लाखाकः । स कच्छदेशाधिपतिः, प्रसादितयशोराज 1AD नास्ति। 2P दवलोकमानः। 3 BP सरस्वत्याः सरितस्तीरे। 4D कन्धडिः। 5D 'स' नास्ति । 6 P रालोकते। 7 BP नास्ति । 8 BP आनृणे। 9 BP चिन्तायकत्वाय त्रिपुरुषधर्मस्थानस्य। 10 दिनं भव । 11 AD 'तत्वं' नास्ति। 12 AD 'कथं' नास्ति । 13 AD दत्त। 14 P पूरेऽदीयमानः। 15 B स दत्तस्ताम्र; AD तावत्तत्तान। 16 D प्राम। 17 A. कूकूलोल; D कंकरौल; Da-c कूकरौल। * B नास्त्येतद्वाक्यं । 18 B 'अपि' नास्ति। 19 BD 'व्रत' नास्ति। 20 P मारेभे। 21 D नास्ति 'तां'। 22 D विलेपनस्त्रानो। D पुस्तक एवैषा पर्टिश्यते, नान्यत्र। 23 P विनाऽन्यत्र 'देशाधि०'। 24 P समं सखिभिः। 25 AP oमाणे। 26 B फूलहा। 27 AD Oमज्ञातवृत्या तमेव। 28 A वृत्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164