Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
श्रीमेरुतुङ्गाचार्यविरचितः
प्रबन्धचिन्तामणिः।
॥ॐ नमः सर्वज्ञाय ॥ श्रीनाभिभूर्जिनः पातु परमेष्ठी भवान्तकृत् । श्रीभारत्योश्चतुर्दारमुचितं यचतुर्मुखी ॥१ नृणामुपलतुल्यानां यस्य द्रावकरः करः। ध्यायामि तं कलावन्तं गुरुं चन्द्रप्रभं प्रभुम् ॥२ गुम्फान्विधूय विविधान्सुखबोधाय धीमताम् । श्रीमेरुतुङ्गस्तद्गद्यबन्धाद् ग्रन्थं तनोत्यमुम् ॥३
रत्नाकरात्सद्गुरुसम्प्रदायात्प्रबन्धचिन्तामणिमुद्दिधीर्षोः। श्रीधर्मदेवः शतधोदितेतिवृत्तैश्च साहाय्यमिव व्यधत्त ॥ ४ श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामणिं नवं ग्रन्थम् । भारतमिवाभिरामं प्रथमादर्शेऽत्र दर्शितवान् ॥५ भृशं श्रुतत्वान्न कथाः पुराणाः प्रीणन्ति चेतांसि तथा बुधानाम् । वृत्तैस्तदासन्नसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥६ बुधैः प्रबन्धाः "खधियोच्यमाना भवन्त्यवश्यं" यदि भिन्नभावाः।
__10 ग्रन्थे तथाप्यत्र सुसम्प्रदायाद् दृब्धे न चर्चा चतुरैर्विधेया ॥७
[१. अथ विक्रमार्कप्रबन्धाः ।] १. अन्त्योऽप्याद्यः समजनि गुणैरेक एवावनीशः शौर्यौदार्यप्रभृतिभिरिहोर्वीतले विक्रमार्कः।
श्रोतुः श्रोत्रामृतसवनवत्तस्य राज्ञः प्रबन्धं संक्षिप्योचैर्विपुलमपि तं वच्मि किञ्चित्तदादौ ॥१ १) तथाहि-अवन्तिदेशे सुप्रतिष्ठाननामनि नगरेऽसमसाहसैकनिधिर्दिव्यलक्षणलक्षितो 15 "कर्मविक्रमादिगुणैः सम्पूर्णो विक्रमनामा राजपुत्र आसीत् । स पुनराजन्मदारियोपद्रुतोऽप्यतिनीतिपरःसन् "पर शतैरप्युपायैराननुपलभमानः कदाचिद्भट्टमात्रमित्रसहायों रोहणाचलं प्रति प्रतस्थे । तत्र तदासन्ने प्रवरनामनि नगरे कुलालस्यालये विश्रम्य प्रभातसमये स भट्टमात्रेण खनित्रं याचितः । प्राह-'अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रावणापूर्व" ललाटं
1 AP श्रीसर्व०, D॥ ॐ नमः श्रियै ॥ श्रीस्वामिने नमः। 2 BTb मारत्या० । 3 DP गुरुं चन्द्रः। 4 B प्रभप्रभु। 5 BDa-b ग्रन्थान् । 6 Da देवैः। 7 ADP प्रथमोपरोधवृ०। 8 A वृत्तौ च; D वृत्तेश्च। 9 A नास्ति 'नवं'। 10 BP ऽत्र निर्मितवान् ; D प्रदर्शित; Db विनिर्मित। 11 AD सुधियो। 12 B भवत्ववश्यं । 13 B दायहन्धे; Da दायारब्धे; Db दायदृष्टे। 14 Db उजयिनीपूर्या। 15 D 'कर्म' नास्ति । BDb क्रमविक्रमादि। 16 Db आदर्श 'सकलकलाकलापनिलयो भर्तृहरिबन्धुः' एतद्विशेषणद्वयं पृष्ठपार्श्वभागे लिखितमधिकमुपलभ्यते। 17 AB दुतः परः शतैः। 18 Boनुपलम्भमाणः, Db oर्थानलभ। 19 Da-bभहमात्रसहायो। 20 BDa-b प्रवरनगरे। 21 B पुण्यश्रवणापूर्व; D पुण्यश्रवणपूर्व; Db पुण्यश्रवणात्पूर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164