Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः ।
[प्रथमः [४. वनराजादिप्रबन्धः।] १५) *तस्य कन्यकुब्जस्यैकदेशो गूर्जरधरित्री, तस्यां गूर्जरभुवि वढीयाराभिधानदेशे पश्चाशरग्रामे चापोत्कटवंश्यं झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय तन्मातेन्धनमवचिनोति । प्रस्तावात्तत्रायातेर्जेनाचार्यः श्रीशीलगुणसूरिनामभिरपराह्नेऽपि तस्य वृक्षस्य छायाममन्तीमा5 लोक्य, झोलिकास्थितस्य तस्यैव बालकस्य पुण्यप्रभावोऽयमिति विमृश्य, जिनशासनप्रभावकोऽयं
भावीत्याशया वृत्तिदानपूर्व तन्मातुः पार्थात्स बालो जगृहे । वीरमतीगणिन्या स बालः परिपाल्यमानो गुरुभिर्दत्तवनराजाभिधानोऽष्टवार्षिको देवपूजाविनाशकारिणां मूषकाणां रक्षाधिकारे नियुक्तः। स तान् बाणेन निघ्नन् गुरुभिर्निषिद्धोऽपि चतुर्थोपायसाध्यास्तानेवं जगौ । तस्य जातके
राजयोगमवधार्याऽयं महानृपतिरेवं भावीति निर्णीय स" तन्मातुः पुनः प्रत्यर्पितः। मात्रा समं 10 कस्यामपि पल्लिभूमौ स्वमातुलस्य चौरवृत्त्या वर्तमानस्य [सन्मानपात्रतां प्राप्तो जनपदस्यान्तरस्खलितपौरुषवृत्तिनगरग्रामसाकेव....(2)] सर्वत्र धाटीप्रपातमकरोत् ।।
१६) कदाचित्" काकरग्रामे खात्रपातनपूर्व कस्यापि व्यवहारिणो गृहे धनं मुष्णन् देधिभाण्डे करे पतिते सत्यत्र भुक्तोऽहमिति विचिन्त्य तत्सर्वखं तत्रैव मुक्त्वा विनिर्ययौ । परस्मिन्नहनि
तद्भगिन्या श्रीदेव्या निशि गुप्तवृत्त्या सहोदरवात्सल्यादाहूतः। पृष्टः-'कथं मगृहे प्रविश्य सर्व15 सारं [गृहीत्वा ] त्वया पुनरेव मुक्तम् ?' । तेनोक्तं
२०. कह नाम तस्स पावं चिंतिजइ आगए वि कोवम्मि । उप्पलदलसुकुमालो जस्स घरे अल्लिओ हत्थो॥ सापि तद्वचनमाकर्ण्य तच्चरित्रेण चमत्कृता भोजनवस्त्रदानादिकमुपकारं चकार । 'मम पट्टाभिषेके भवत्यैव भगिन्या तिलकं विधेयमिति प्रतिपेदे ।।
१७) अथान्यस्मिन्नवसरे तस्य चरटवृत्त्या वर्तमानस्य चौरैः काप्यरण्यप्रदेशे रुद्धो जाम्बा20भिधानो वणिक तं चोरत्रयं दृष्ट्वा खैबाणपञ्चकमध्याहाणद्वयं भञ्जस्तैः पृष्ट इति प्राह- भवत्रितयाधिकं बाणद्वयं विफलमि'त्युक्ते, तदुक्तं चैलवेध्यं बाणेनाहत्य तैः परितुष्टैरात्मना सह नीतस्तद्योधविद्याचमत्कृतेन "श्रीवनराजेन 'मम पट्टाभिषेके त्वं महामात्यो भावी'त्यादिश्य विसृष्टः।
१८) अथ कन्यकुब्जादायातपञ्चकुलेन तद्देशराज्ञः सुतायाः श्रीमहणकाभिधानायाः कश्रुकसम्बन्धे पितृप्रदत्तंगूर्जरदेशस्योद्ग्राहणकहेतवे समागतेन सेल्ल द्वनराजाभिधानश्चक्रे । षण्मासी ___* द्वितारकान्तर्गतः पाठः AD नास्ति । 1 Db बाण। 2 Da शीलगणि; Db शीलगण। 3 B सूरिभिः; A सूरिभिनामभिः। 4 B मवनमन्ती। 5 B 'पुण्य' नास्ति । 6 Db परिपाख्यः। 7 B नास्ति। 8 D लोष्टैः; Pa बाणैः । 9 AD नृपतिर्भा०। 10 P 'स' नास्ति; AD 'तन्' नास्ति। 11 B समर्पितः। + एतरकोष्ठकान्तर्गतः पाठः केवलं P आदर्श एवोपलभ्यते। 12 प्रदान। एतदने Po आदर्श 'चौरस्वभावे लग्ने न सुखं कदाचिदपि । यतः
(२२) नक्तं दिवा न शयनं प्रकटा न चर्या स्वैरं न चान्नजलवस्त्रकलत्रभोगः ।
__शंकानुजादपि सुतादपि दारतोऽपि लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् ॥" एसावान् प्रक्षिप्तः पाठः समुपलभ्यते। 13 केवलं B आदर्श एव एष शब्दः। 14 B नास्ति । 15 B तद्दधिः। $ एतद्विचिद्वान्तर्गतपाठस्थाने AD आदर्श 'तया भोजनवस्त्र (वसु D)दानपूर्वकमुपकृतो'; B आदर्श 'नानभोजनवस्त्रदान.' एतादृशः संक्षिप्तः पाठः प्रपठ्यते । 16 P प्रतिपन्नम्। 17 AD नास्ति । 18 Dजम्बा। 19 P तच्चौर०। 20 AD 'स्व' नास्ति । 21 B 'इति' नास्ति । 22 D बलः। 23 P 'तद्' नास्ति । 24 BP 'श्री' नास्ति । 25 D तादृश० । 26 D महणिका० । 27 P०प्रतिपन्न। 28 B सोल्लवृद्ध P सल्लभृद् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164