Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 37
________________ १० प्रबन्धचिन्तामणिः। [प्रथमः कथं सम्भाव्यत?' इति नृपवचःप्रान्ते ताभ्यो मुख्यया सुमुख्याऽऽचचक्षे-'राजन् प्राक्पुण्योदयेन साम्प्रतं नवापि निधयस्तव सोधेऽवतेरुस्तदधिष्ठात्र्यो वयम् । भवताऽऽजन्मावधि महादानानि ददतैकस्यैव निधेरेतावदेव व्यवकलितं यावत्त्वं नासाग्रं न पश्यसि । इत्थं तदुक्तिमाकर्ण्य ललाटं करतलेन स्पृशन् 'यद्यहं नवनिधीनवतीर्णान् वेद्मि तदा नवभ्यः पुरुषेभ्यस्तान्समर्प5 यामीति देवेनाज्ञानभावाद्वश्चित इत्युच्चरस्ताभिः 'कलौ भवानेवोदार' इति प्रतिबोधितः परलोकमाप । 'ततः प्रभृति तस्य विक्रमादित्यस्य जगत्ययमधुनापि संवत्सरः प्रवर्त्तते ॥७॥ ॥ श्रीविक्रमार्कस्य दाने विविधाः प्रबन्धाः॥ [२. अथ सातवाहनप्रबन्धः ।] १३) अर्थ दाने विद्वत्तायां च श्रीसातवाहनकथा यथाश्रुता ज्ञेया। तत्पूर्वभवकथा चैवं-श्रीप्रति10 टानपुरे सातवाहनभूपो' राजपाटिकायां गच्छन्नगरप्रत्यासन्ननद्यां वीचिभिरतीरनिक्षिप्तं मत्स्यमेकं हसन्तमालोक्य मंकृतेर्विकृतिरुत्पात इति भयभ्रान्तो नृपः सर्वानेव विदग्धपुरुषान् सन्देहममुं पृच्छञ् ज्ञानसागरनामानं जैनमुनि पप्रच्छ। ज्ञानातिशयेन तेन तत्पूर्वभवं विज्ञायेत्युपदिष्टम्-'यत्पुरातनभवे त्वमस्मिन्नेव पत्तने उच्छिन्नवंशः काष्ठभारवाहनैकवृत्तिः* अस्यामेव नद्यां भोजनावसरे सन्निहितशिलातले सक्तून् पयसाऽऽलोड्य नित्यमनासि । कस्मिन्नप्यहनि मासोप15 वासपारणाहेतोः पुरे व्रजन्तं जैनमुनिमाहूय तं सक्तुपिण्डं तस्मै प्रादात् । तस्य पात्रदानस्यातिशयात्वं सातवाहननामा नृपतिरासीः। स मुनिर्देवो जातः । तद्देवताधिष्ठानवशात्तं काष्ठभारवाहिनो जीवं त्वां नृपतितयोपलक्ष्य प्रमोदाद्ध सितवान् । तत्कथासङ्ग्रहश्चैतत्काव्यम्-1 ९. मीनानने प्रहसिते भयभीतमाह श्रीसातवाहनमृषिर्भवताऽत्र नद्याम् । यसक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद्भवन्तमुपलक्ष्य झपो जहास ॥ 20 स श्रीसातवाहनस्तं पूर्वभववृत्तान्तं जातिस्मृत्या साक्षात्कृत्य ततःप्रभृति दानधर्ममाराध यन् सर्वेषां महाकवीनां विदुषां च सङ्ग्रहपरः चतसृभिः खर्णकोटीभिर्गाथाचतुष्टयं क्रीत्वा सप्तशतीगाथाप्रमाणं सातवाहनाभिधानं सङ्ग्रहगाथाकोशं शास्त्रं निर्माप्य नानावदातनिधिः सुचिरं राज्यं चकार । तद्गाथाचतुष्टयमेतदै । यथा____1 B ताभ्यां। 2 A मुख्या। 3 D सुमुख्यया; A नास्ति । 4 B तव प्राक् । 5 B 'तव सौधे' नास्ति । 6 AD भवता देवता रूपेणाजन्मा०। 7 AD 'अवतीर्णान्' नास्ति। 8 B देवे ज्ञान। 9 'वञ्चित' स्थाने B 'न चिंतित'। दण्डा. न्तर्गता पशिः B आदर्श नास्ति । 10 B दानविविधाः। 11 Db शातवाहनप्रबन्धा लिख्यन्ते । 12 A शालवाहन । 13 BP बथाश्रुतं। 14 BP शातवाहननरेन्द्रो। 15 AD तीरक्षिप्त। 16 B प्रकृतिवि०। 17 BP सर्वानपि। 18 BP ज्ञानातिशयात् । 19 B उच्छन्नः। * अत्र वृत्तिशब्दाने P Db सज्ञके आदर्श (२०) 'अहो कोऽपि दरिद्राणां दारिद्यव्याधिरद्भुतः । घृष्टिक्वाथेऽपि यः पीयमाने न क्षयभूरभूत् ॥' एषोऽधिकः श्लोकः उपलभ्यते । 20 AD 'अस्यां' स्थाने 'तस्यां'। 21 AD जैनमुनिं मासोप० । 22 A पारणहेतोः; BP पारणकारणे। 23 AD पुरो। अत्र Db आदर्श-'जैनमुनि दृष्ट्वा पूर्वभवे मया कस्मैचिन्न ददे तस्येदं फलम् । यदुक्तं (२१) रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त! खेदमुपयासि कथं वृथा त्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ इत्थं चिन्तयित्वा मुनिमाकार्य तं सक्तुपिण्डं-' एतावान् समधिकः पाठोऽस्ति । 24 Boमाकार्य। 25 B प्रदात् । 26 AD शालवाहननृपतिः। 27 BP एतद्वाक्यं नास्ति । 28 B देवाधिष्ठान। 29 P नास्ति । 30 BP नृपतया। 31 AD सङ्घहश्चैवं। 32 AD 'तं' नास्ति। 33 A शालवाहणाभि०; D शालिवाहनाभिः। 34 P .कोश। 35 P.मिदं; B Db भादर्शे-तद् गाथाचतुष्टयं बहुश्रुतेभ्यो ज्ञेयम् ।' एवंरूप उल्लेखोऽस्ति । अग्रेतना गाथाश्च न सन्ति । रे चित्तीद फलम् । यदि ते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164