Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 36
________________ प्रकाशः ] विक्रमाकेप्रबन्धः । त्तिष्ठति तावत्तावेव वृषौ शृङ्गाग्रेण तं स्तम्भं भूयो भूयस्ताडयतः । अत्रान्तरे स विप्रोऽकमान्निद्राभङ्गमासाद्याकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्डलसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य, 'होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयिष्ये' इति सावधानं नृपे शृण्वति, स गृहिण्योचे-'अयं नृपः पृथिवीमणां कुर्वन्नपि मम कन्यासप्तकस्य विवाहाय द्रव्यमयच्छञ् शान्तिककर्मणां कथं व्यसनान्मोचयितुमुचित' इति तद्वचसा सर्वथा 5 परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्तिस्तम्भवाता विस्मरन् राज्यं चिरं चकार । इति विक्रमार्कस्य निर्गर्वताप्रबन्धः ॥६॥ [*अथान्यस्यां निशि एका रजकी राज्ञा पृष्टा-वस्त्राणि विरूपाणि कथं ससैकतानि । तयोक्तम्[३] यासौ दक्षिणदक्षिणार्णववधू रेवाप्रतिस्पर्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता । तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं खद्दण्डद्विरदेन्द्रदन्तमुशलप्रक्षोभितैः पांशुभिः॥ 10 [४] रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । स्वाङ्गगपृष्ठकसहितं लक्षं भ्रूक्षेपमात्रेण ॥ [५] चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ । चातुःप्रहरिकं दानं दत्तं विक्रमभूभुजा ॥] ॥ इति श्रीविक्रमस्यात्र विविधाः प्रबन्धा यथाश्रुतं ज्ञेयाः॥ १२) कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्रीविक्रमस्य वपुरपाटवे वायसपिशिताहारेण रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः-15 'साम्प्रतं धौषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः।जीवितलोलुपतया लोकोत्तरां सत्त्वप्रकृतिमपहाय काकमांसमभिलषन्सर्वथा न जीवसी'ति वैद्यनाभिहितः।तं पारितोषिकदानार्थ परमार्थबान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमर्थिभ्यो वितीर्य राजलोकं नगरमापृच्छय विजने कापि धवलगृहप्रदेशे तत्कालोचितलानदानदेवतार्चनपूर्व दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणोक्रान्तिं करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं सं ददर्श । अञ्जलिं बद्ध्वा प्रणामपूर्वं 20 'का यूयमिति पृष्टे-'न वाग्विस्तरार्होऽयमवसरः, “परमापृच्छनायैव वयमुपागता इत्यभिधायाप्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे-'नवीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीनामेकॅमेव रूपं नासया" हीनमिति जिज्ञासुरस्मि । अथ ताः "सहस्ततालं विहस्य 'निजमेवापराधमस्मासु सम्भावयसी'ति ता मौनमाश्रिता नृपेणोचिरे-'खर्गलोकस्थितासु भवतीषु ममापराधः 1B वृषभौ। 2 B नास्ति । 3 अत्र Db आदर्श एतदने 'उपरि च फणी पुच्छावलम्बेनाधोभूय कुसुमगन्धि नृपशिरसि दंशाय पुनः पुनः फूत्कुर्वति' एतादृशोऽधिकः पाठः समुपलभ्यते। 4 B 'तन्' नास्ति; Pस। 5 D ढोकयेति । 6 AD 'अपि' नास्ति । 7AD शान्तिकर्मः। 8 B मोच्यः स राजा तस्कृत्यं कृत्वा मुचितः। 9 AD स्तम्भं विस्म। * कोष्ठकान्तर्गतः पजयः Db आदर्श लभ्यते। 10 AD नास्त्येषा पतिः। अत्र D पुस्तके निम्नलिखिता गाथा मुद्रिता लभ्यते परं सा प्रक्षिप्ता अस्ति APB आदर्शष्वनुपलब्धत्वात् । A आदर्श पृष्ठाधोभागे टिप्पणीरूपेण लिखिता दृश्यते । (१७) 'कटं काउं मुकं च साहसं मइलिअंच अप्पाणं । अजरामरं न पत्तं हा विकम हारिओ जम्मो॥' Db सब्ज्ञक आदर्शेऽत्र निम्नलिखितोऽधिकः पाठः समुपलभ्यते (१०) 'स्वच्छं सजनचित्तवल्लघुतरं दीनार्थिवच्छीतलं पुत्रालिङ्गनवत्तथा च मधुरं बालस्य सजल्पवत् । एलोशीरलवणचन्दनलसत्कर्पूरपालीमिलत्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ (१९) यदा जीवश्च शुक्रश्च परितश्चन्द्रमण्डलम् । परिवेष्टयतस्तद्वै राजा कष्टेन जीवति ॥' 11 D'मान' स्थाने 'म्लान' शब्दः। 12 B स नृपो। 13 B अञ्जलिबद्धप्रणाम। 14 AD 'परं' नास्ति । 15 B इत्यप्सरसोऽभिधायापसरन्त्यो। 16 D 'एकम्' नास्ति। 17 B नासाग्रहीनं। 18 Da-b दत्तहस्त। 19 D 'एव' नास्ति । कर्पूरपाली मिल , यदा जीवश्च 11 D'नान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164