Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
विक्रमार्कप्रबन्धाः।
प्रकाशः]
७) 'अथान्यस्मिन्नवसरे श्रीविक्रमो राजपाटिकायां व्रजस्तन्नगरनिवासिना श्रीसङ्घनानुगम्यमानं बन्दिवृन्दैः 'सर्वज्ञपुत्र' इति स्तूयमानं श्रीसिद्धसेनाचार्यमागच्छन्तमवलोक्य सर्वज्ञपुत्र इति वचसा कुपितस्तत्सर्वज्ञतापरीक्षार्थं तस्मै मानसं नमस्कारमकरोत् । सिद्धसेनोपि पूर्वगतश्रुतबलेन नृपभावमवगम्य दक्षिणं पाणिमुदस्य धर्मलाभाशिषं ददौ । नृपतिनाऽऽशी
दहेतुं पृष्टः सन् महर्षिः-'तव मानसनमस्कारस्याशीर्वादः प्रदीयमानोस्ती'त्यभिहिते तज्ज्ञा- 5 नचमत्कृतेन राज्ञा तत्पारितोषिके सुवर्णकोटिळतीर्यत् ।
८) अथान्यस्मिन्नवसरे राज्ञा" कोशाध्यक्षस्तस्य" दापितसुवर्णवृत्तान्तं पृष्टः प्राह-'यद्धर्मवहिकायां श्लोकबन्धेन मया सुवर्णदानं निहितम् ।' तथाहि
६. धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं धराधिपः ॥ ६ ततः श्रीसिद्धसेनसूरीन् सभायामाकार्य तत्सुवर्ण गृह्यतामिति प्रोक्ते, वृथा भुक्तस्य" भोजन-10 मित्युच्चारपुरःसरमनेन सुवर्णदानेन" ऋणग्रस्तामवनीमऋणीकुरु इत्युपदिष्टे तत्सन्तोषपरितुष्टेन राज्ञा तदङ्गीकृतम् ।
(६) नवि मारीयए नवि चोरीयए, परदारागमण निवारीयए।
थोवांवि हु थोवं दईयए, इम सग्गि टगमगु जाईयए ॥ एवं पठति गोपा नृत्यन्ति । तैरुक्तं-अनेन जितं; त्वं किमपि न वेसि । ततो वृद्धवादिना पुरे गत्वा वादं विधाय जितः शिष्यो बभूव । ततः सिद्धसेनदिवाकरेण गुरुचरणसंवाहनां विधायमानेन गुरव उक्ताः-यदि यूयमादेशं ददत तदाहमागमं संस्कृतेन करोमि । गुरुभिरुक्तं-तव महत्पापमजनि, त्वं गुरुगच्छयोग्यो न, गच्छेः । तेनोक्तं-प्रायश्चित्तं ददत । गुरुभिरुक्तं-यन्त्र जिनधर्मो न तत्र जिनप्रभावनां विधाय पुनः समागन्तव्यमित्यवधूतवेषेण चलितः। द्वादशवर्षाणि यावदन्यत्र परिभ्रम्य तदनन्तरं मालवके गूढमहाकालप्रासादे शिवाभिमुखं चरणौ कृत्वा चरणत्राणौ द्वारकाष्ठे नियोज्य सुप्तः। तत्र वारितोऽपि तथैव । अत्रान्तरे राज्ञाऽऽरक्षिकपुरुषान् प्रेषयित्वोपद्रुतः। तावतान्तःपुरे रव-प्रदीपनं लग्नम् । समागत्य पृष्टः-कथं शिवस्य नमस्कारं न विदधासि । तेनोक्तं-मम नमो असौ न सहते । विधेहि । तेन सकललोकसमक्षं
(७) प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥ इति द्वात्रिंशद् द्वात्रिंशतिका कृता । तदा लिङ्गमध्यादवन्तिसुकुमालद्वात्रिंशत्पनीकारितप्रासादे श्रीपार्श्वनाथबिम्बं प्रकटीभूतं नमस्कृतं च । असौ सहते नमस्कारम् । तदा प्रभृति गूढमहाकालोऽजनि । राजा विक्रमार्कः परमजैनोऽभूत् । सिद्धसेनोऽपि स्वगुरुपाव समेत्य सूरिमन्त्रं प्राप्यैकदोजयिन्यामेव चातुर्मासकं स्थितः।" __1 AD अथास्मिन्नः। 2 B पाटिकाया। 3 AB मानः। 4 AD बन्दिपुत्रैः। 5 BP श्री सर्वः। 6 BP मालोक्य । * अत्रान्तरे D पुस्तके निम्नलिखितं पद्यमधिकमुपलभ्यते। (८)"आप्ते दर्शनमागते दशशती सम्भाषिते चायुतं यद्वाचा च हसेहमाशु भवता लक्षोऽस्य विश्राण्यताम् ।
निष्काणां परितोषके मम सदा कोटिर्मदाज्ञा परा कोशाधीश सदेति विक्रमनृपश्चके वदान्यस्थितिम् ॥" A आदर्श पृष्ठस्याधोभागे टिप्पणीरूपेणेदं पद्यं लिखितं विद्यते ।
8 D पूर्वगतबलेन। 9 P दक्षिणपा०। 10 B अथास्मिन्न। 11 P नास्ति । 12 D तस्मै। 13 BP नराधिपः । 14 BP तृप्तस्य । 15 AD सुवर्णेन ।
* अत्रानन्तरे D पुस्तके निम्नावतारितानि पद्यानि विद्यन्ते । A आदर्श अमूनि पद्यानि पृष्ठपार्श्वभागेषु टिप्पणीरूपेण लिखितानि लभ्यन्ते।
(९) “दिदृक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ (१०) दीयन्तां दश लक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ (११) सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्टिं न वक्षः परयोषितः॥ (१२) सरस्वती स्थिता वक्त्रे लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् येन देशान्तरं गता। (१३) अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौधः समभ्येति गुणो याति दिगन्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164