Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 32
________________ 10 प्रकाश: विक्रमार्कप्रबन्धाः। कुमारसम्भवप्रभृतिमहाकाव्यत्रयषट्प्रबन्धान रचयामास।इति कालिदासोत्पत्तिप्रवन्धः* ॥१॥ ३) अन्यदा तन्नगरवास्तव्यो दान्ताभिधानश्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरुपागत्य प्रणामपूर्वकं विज्ञपयामास-'स्वामिन् ! मया शुभे मुहूर्ते प्रधानवर्द्ध किभिर्द्धवलगृहं कारितम् । तत्र महतोत्सवेन प्रवेशः कृतः । यावदहं तत्र निशीथे पल्यङ्कस्थितः सुप्तजाग्रदवस्थया तिष्ठामि, तावत् , पतामीत्याकस्मिकी गिरं निशम्य, भयभ्रान्तो मा पतेत्युदीरयंस्तदैव 5 पलायनमकार्षम् । तस्य धवलगृहस्य सम्बन्धे नैमित्तिकैः स्थपतिभिश्च यथावसरमर्हणादिभिः" सत्कारैर्वृथादण्डितः । इत्यर्थे देवः प्रमाणम्' । तमुदन्तं सम्यगवधार्य तदुक्तं तद्धवलगृहमूल्यं लक्षैत्रयं तस्मै प्रदाय सन्ध्यायां सर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः सुखं प्रसुप्तः । तामेव पतामीति गिरमाकासमसाहसिकतया सत्वरं पतेत्युदीरयन् समीपे" पतितं सुवर्णपुरुषं प्राप । इत्थं [ सुवर्ण] पुरुषसिद्धिः॥२॥ ४) अथान्यस्मिन्नवसरे" कश्चिदुर्विधः पुरुषः करकृतलोहमयकृशतरदरिद्रपुत्रको द्वाःस्थनिवेदितो नृपं प्राह-खामिन् ! भवता नाथेन प्रथितायामवन्त्यां सर्वाण्यपि वस्तूनि सत्वरमत्र विक्रयं यान्ति लभन्ते" चेति प्रसिद्धिं बुद्ध्वा चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय दरिद्रपुत्रको भ्रामितोऽपि केनापि न गृहीतः । प्रत्युताहं निर्भसितः। इति नगर्या यथावस्थितं कलई महाराज्ञे विज्ञप्य यथागतं व्रजामीत्यापृच्छन्नस्मि । तदैव तं महान्तं कलङ्कपत पुर्याः पर्या-15 लोच्य दीनारलक्षं तस्मै प्रदाय नृपस्तं दरिद्रलोहपुत्रकं कोशे निवेशयामास । तस्यामेव निशि" प्रथमयामे सुखप्रसुप्तस्यै राज्ञः समीपे गजाधिष्ठातृदैवतम् , द्वितीययामे हयाधिष्ठातृदैवतम् , तृतीययामे लक्ष्मीश्चाविर्भूय 'महाराज्ञी दारिद्र्यपुत्रके क्रीते नास्माकमिहावस्थातुमुचितमित्यापृच्छय, राज्ञा साहसभङ्गो माभूदित्यनुज्ञातानि तानि जग्मुः । चतुर्थयामे तु कश्चिदुदारपुरुषो दिव्यतेजोमयमूर्तिः प्रादुर्भूय 'अहं सत्त्वनामा भवन्तमापुच्छे' इत्युदिते करतलेन नृपः कृपाणि-20 कामादाय यावदात्मघाताय व्यवस्यति तावत्तेनैव करे गृहीत्वा तुष्टोऽस्मीत्यभिधाय स्खलितः। गजायधिष्ठातृणि त्रीणि दैवतानि प्रत्यावृत्य नृपं प्रोचुः-गमनसङ्केतव्याघातिना सत्त्वेन विप्रलब्धानां नृपं विहाय नास्माकं गमनमुचितमिति तान्यप्ययनं तस्थुः। [१] 'अर्थास्तावद् गुणास्तावद् तावत्कीर्तिः समुज्वला । यावत्खेलसि सत्त्व त्वं चित्तपत्तनमध्यमः(गः)॥ [२] 'राज्यं यातु स्त्रियो यान्तु यातु श्लोकोऽपि लोकतः। न ते गमनमाजीवमनुमन्यामहे वयम् ॥ 25 इति विक्रमादित्यसत्त्वप्रबन्धः॥३॥ 1 B कुमारसंभवमहाकाव्यत्रयप्रभृतीन पद०, P कुमारसंभवादि षद; De oमहाकाव्यप्रबन्धान् । * एतत्प्रकरणसमातिवाक्यं ADP भादर्शेषु नोपलभ्यते। 2De अथान्यदा। 3 B.प्रवरश्रेष्ठी। 4 P . पूर्व। 5A वार्द्धकि; B वर्द्धिकि। 6 B पल्यंके। 7 Db स्थितः पुरुषमेकमवलोक्य सुप्त। 8 B नास्ति । 9 D सम्बन्धि। 10 P नैमित्तिक । 11 D •सरमहीनादिभिः, Da .सरं महादानादिभिः सत्कारैश्च । 12 BP नास्ति। 13 AD सन्ध्यासर्वा०; P मध्याह्वसर्वाः। 14 A नात्मीयकृते; Boनात्मीकृते। 15 BP सुखः। 16 A 'समीपे' नास्ति । 17 ABD अथास्मिन्नव०। 18 AD दुर्विधपुरुषः, P दुर्विदग्धः पुरुषः। 19 Boतरु। 20 B 'सत्वरं नास्ति । 21 B लभते; D लभ्यन्ते; P लभ्यते। 22 B प्रसिद्धं । 23 P श्रुत्वा। 24 B .पृच्छमानोऽस्मि। 25 AD 'दरिद्र' नास्ति । 26 B संस्थापितवान् । 27 P निशायां। 28 BP प्रसुसराज्ञः। 29 D राज्या०। 30 B महाराजा। 31 B स्थान। 32 राज्ञः । 33 B साहसस्य । 34 BP नास्ति । 35 Dऽत्र; AP नास्ति । 36 D भवन्तमा भवं श्रितो गन्तुमापृच्छे । 37 A गजाधिष्ठाः। 38 ABP विप्रलुब्धाः । 39 A ०यनमस्तु । न केवलं P आदर्श एवेमौ द्वौ श्लोको लिखितौ लभ्येते। 1 BP आदशौं विहाय नास्त्यन्यत्र प्रकरणसमातिसूचकमिदं वाक्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164