________________
10
प्रकाश:
विक्रमार्कप्रबन्धाः। कुमारसम्भवप्रभृतिमहाकाव्यत्रयषट्प्रबन्धान रचयामास।इति कालिदासोत्पत्तिप्रवन्धः* ॥१॥
३) अन्यदा तन्नगरवास्तव्यो दान्ताभिधानश्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरुपागत्य प्रणामपूर्वकं विज्ञपयामास-'स्वामिन् ! मया शुभे मुहूर्ते प्रधानवर्द्ध किभिर्द्धवलगृहं कारितम् । तत्र महतोत्सवेन प्रवेशः कृतः । यावदहं तत्र निशीथे पल्यङ्कस्थितः सुप्तजाग्रदवस्थया तिष्ठामि, तावत् , पतामीत्याकस्मिकी गिरं निशम्य, भयभ्रान्तो मा पतेत्युदीरयंस्तदैव 5 पलायनमकार्षम् । तस्य धवलगृहस्य सम्बन्धे नैमित्तिकैः स्थपतिभिश्च यथावसरमर्हणादिभिः" सत्कारैर्वृथादण्डितः । इत्यर्थे देवः प्रमाणम्' । तमुदन्तं सम्यगवधार्य तदुक्तं तद्धवलगृहमूल्यं लक्षैत्रयं तस्मै प्रदाय सन्ध्यायां सर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः सुखं प्रसुप्तः । तामेव पतामीति गिरमाकासमसाहसिकतया सत्वरं पतेत्युदीरयन् समीपे" पतितं सुवर्णपुरुषं प्राप । इत्थं [ सुवर्ण] पुरुषसिद्धिः॥२॥
४) अथान्यस्मिन्नवसरे" कश्चिदुर्विधः पुरुषः करकृतलोहमयकृशतरदरिद्रपुत्रको द्वाःस्थनिवेदितो नृपं प्राह-खामिन् ! भवता नाथेन प्रथितायामवन्त्यां सर्वाण्यपि वस्तूनि सत्वरमत्र विक्रयं यान्ति लभन्ते" चेति प्रसिद्धिं बुद्ध्वा चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय दरिद्रपुत्रको भ्रामितोऽपि केनापि न गृहीतः । प्रत्युताहं निर्भसितः। इति नगर्या यथावस्थितं कलई महाराज्ञे विज्ञप्य यथागतं व्रजामीत्यापृच्छन्नस्मि । तदैव तं महान्तं कलङ्कपत पुर्याः पर्या-15 लोच्य दीनारलक्षं तस्मै प्रदाय नृपस्तं दरिद्रलोहपुत्रकं कोशे निवेशयामास । तस्यामेव निशि" प्रथमयामे सुखप्रसुप्तस्यै राज्ञः समीपे गजाधिष्ठातृदैवतम् , द्वितीययामे हयाधिष्ठातृदैवतम् , तृतीययामे लक्ष्मीश्चाविर्भूय 'महाराज्ञी दारिद्र्यपुत्रके क्रीते नास्माकमिहावस्थातुमुचितमित्यापृच्छय, राज्ञा साहसभङ्गो माभूदित्यनुज्ञातानि तानि जग्मुः । चतुर्थयामे तु कश्चिदुदारपुरुषो दिव्यतेजोमयमूर्तिः प्रादुर्भूय 'अहं सत्त्वनामा भवन्तमापुच्छे' इत्युदिते करतलेन नृपः कृपाणि-20 कामादाय यावदात्मघाताय व्यवस्यति तावत्तेनैव करे गृहीत्वा तुष्टोऽस्मीत्यभिधाय स्खलितः। गजायधिष्ठातृणि त्रीणि दैवतानि प्रत्यावृत्य नृपं प्रोचुः-गमनसङ्केतव्याघातिना सत्त्वेन विप्रलब्धानां नृपं विहाय नास्माकं गमनमुचितमिति तान्यप्ययनं तस्थुः।
[१] 'अर्थास्तावद् गुणास्तावद् तावत्कीर्तिः समुज्वला । यावत्खेलसि सत्त्व त्वं चित्तपत्तनमध्यमः(गः)॥ [२] 'राज्यं यातु स्त्रियो यान्तु यातु श्लोकोऽपि लोकतः। न ते गमनमाजीवमनुमन्यामहे वयम् ॥ 25
इति विक्रमादित्यसत्त्वप्रबन्धः॥३॥ 1 B कुमारसंभवमहाकाव्यत्रयप्रभृतीन पद०, P कुमारसंभवादि षद; De oमहाकाव्यप्रबन्धान् । * एतत्प्रकरणसमातिवाक्यं ADP भादर्शेषु नोपलभ्यते। 2De अथान्यदा। 3 B.प्रवरश्रेष्ठी। 4 P . पूर्व। 5A वार्द्धकि; B वर्द्धिकि। 6 B पल्यंके। 7 Db स्थितः पुरुषमेकमवलोक्य सुप्त। 8 B नास्ति । 9 D सम्बन्धि। 10 P नैमित्तिक । 11 D •सरमहीनादिभिः, Da .सरं महादानादिभिः सत्कारैश्च । 12 BP नास्ति। 13 AD सन्ध्यासर्वा०; P मध्याह्वसर्वाः। 14 A नात्मीयकृते; Boनात्मीकृते। 15 BP सुखः। 16 A 'समीपे' नास्ति । 17 ABD अथास्मिन्नव०। 18 AD दुर्विधपुरुषः, P दुर्विदग्धः पुरुषः। 19 Boतरु। 20 B 'सत्वरं नास्ति । 21 B लभते; D लभ्यन्ते; P लभ्यते। 22 B प्रसिद्धं । 23 P श्रुत्वा। 24 B .पृच्छमानोऽस्मि। 25 AD 'दरिद्र' नास्ति । 26 B संस्थापितवान् । 27 P निशायां। 28 BP प्रसुसराज्ञः। 29 D राज्या०। 30 B महाराजा। 31 B स्थान। 32 राज्ञः । 33 B साहसस्य । 34 BP नास्ति । 35 Dऽत्र; AP नास्ति । 36 D भवन्तमा भवं श्रितो गन्तुमापृच्छे । 37 A गजाधिष्ठाः। 38 ABP विप्रलुब्धाः । 39 A ०यनमस्तु । न केवलं P आदर्श एवेमौ द्वौ श्लोको लिखितौ लभ्येते। 1 BP आदशौं विहाय नास्त्यन्यत्र प्रकरणसमातिसूचकमिदं वाक्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org