Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः।
[प्रथमः करतलेन' संस्पृश्य, हा दैवमित्युदीरयन् घाते पातिते सति दुर्गतो यथाप्रास्या रत्नानि लभते'। स वृत्तान्तममुं तस्मात्सम्यगवगम्य विक्रमेण तदैन्यं कारयितुमक्षमस्तान्युपकरणानि सहादाय रत्नखननाथ खनीमध्ये प्रहारोद्यतं विक्रममभिदधे-'यत् कश्चिदवन्त्याः समागतो वैदेशिकः 'स्वगृहकुशलोदन्तं पृष्टो भवन्मातुः पञ्चत्वमाचख्यौ' । तत्तप्तवज्रशूचीनिभं वचो निशम्य ललाटं 5 करतलेनाहत्य, हा दैवमित्युचरन् खनित्रं करतलाचिक्षेप । तेन खनित्राग्रेण विदारितायां भुवि देदीप्यमानं सपादलक्षमूल्यं रत्नं प्रादुरासीत् । 'भद्दमात्रस्तदादाय विक्रमेण सह प्रत्यावृत्तः । तच्छोकशङ्कुशङ्कापनोदाय खनीवृत्तान्तज्ञापनपूर्व तत्कालमेव मातुः कुशलमुक्तवान् । विक्रमः सहजा लोलुभतां विमृश्य भट्टमात्रस्य क्रुधा तत्कराद्रनमाच्छिद्य पुनः खनी कण्ठे प्राप्तः ।
२. धिग् रोहणं गिरिं दीनदारिद्यव्रणरोहणम्" । दत्चे हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥२ 10 इत्युदीर्य सकललोकप्रत्यक्षं तत्रैव तद्रनमुत्सृज्य पुनर्देशान्तरं "परिभ्राम्यन्नवन्तिपरिसरे प्राप्तः । पटुपटहध्वनिमाकर्ण्य "वृत्तान्तमवबुध्य च तं छुसवान् । तेन समं स राजमन्दिरे समायातः। तस्मिन्नेवापृष्टे मुहूर्ते अहोरात्रप्रमिते राज्ये सचिवैरभिषिक्तो दीर्घदर्शितयेति दध्यौ-यदस्य राज्यस्य" प्रबलः कोऽप्यसुरः" सुरो वा क्रुद्धः सन् प्रतिदिनमेकैकं नृपं संहरति। नृपाभावे च" देशविनाशं करोति। अतो भक्त्या शक्त्या वा तदनुनयः समुचित इति-नानाविधानि भक्ष्यभो. 15 ज्यानि निर्माप्य, प्रदोषसमये चन्द्रशालायां सर्वमपि सज्जीकृत्य, निशारात्रिकावसरानन्तर
मङ्गरक्षैर्नृपस्तत्र भारशृङ्खलायां निहितपल्यङ्के निजपढ्दुकूलाच्छादितमुच्छीर्षकं नियोज्य स्वयं प्रदीपच्छायामाश्रितः कृपाणपाणिधैर्यनिर्जितर्जगत्रयो दिगवलोकनपरो यावदास्ते; तावन्महानिशीथसमये वातायनद्वारेण प्रथमं धूमम् , ततो ज्वालाम्, ततः साक्षात्प्रेतप्रतिरूपमिव करालं
वेतालमालोकितवान् । स च बुभुक्षाक्षामकुक्षिस्तानि भोज्यानि यदृच्छयोपभुंज्य, गन्धद्रव्यैश्च 20 स्वशरीरं विलिप्य, ताम्बूलास्वादनेन परितुष्टस्तत्र पल्यङ्के समुपविश्य श्रीविक्रमं प्राह-रे मनुज !
अहमग्निवेतालनामा देवराजप्रतीहारतया प्रतीतः प्रतिदिनमेकैकं नृपं निहन्मि । किं तु तवानया भक्त्या प्रीणितेन मयाऽभयदानपूर्व तव राज्यं प्रदत्तम् । परमेतावद्भक्ष्यभोज्यानि मम सदैवोपढौकनीयानि ।' इत्थमुभाभ्यामपि प्रतिपन्ने कियत्यपि गते काले श्रीविक्रमेण राज्ञा निजमायुः पृष्टः-'नाहं वेद्मि, किं तु खस्वामिनं विज्ञप्य भवन्तं ज्ञापयिष्यामि' इत्युक्त्वा 25 गतः । पुनरन्यस्यां निशि समेतः-'महेन्द्रेण त्वं सम्पूर्णवर्षशतायुरादिष्ट' इति तं जगौ । स
1A करतालेन। 2 A पतिते। 3 Da समादाय; Db आदाय। 4 Da तात कश्चित् ; Db देवः कश्चित् ; B ततः कः। 5 AD स्वगृहे। 6 Db आदर्श एतस्माद्वाक्यादने 'भाग्येन किं न घटते यतः
(6) यद्यपि कृतसुकृतशतः प्रयाति गिरिकन्दरान्तरेषु नरः। करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥ एतावानधिकः पाठः । 7 B स भट्ट० । 8 B शोकशंकापनोदाय; Da-b शोकापनोदाय । 9 AB ज्ञापना० । 10 Daविक्रमस्तदानीं। 11 Da व्रणरोपणं । 12 B.भ्रमनः। 13 D परिसरं; B.देशपरिसरे। 14 A B तं वृत्ता। 15 Db राज्ये; B राजा। 16 B सार्थबलः । 17 B कोपि ऽसुरः सुरो वा; P कोपि सुरो असुरो वा। 18 D'च' नास्ति । 19 A 'शक्त्या' नास्ति; B शक्त्याशक्त्या वा; Da-b यथाशक्त्या भक्त्या वा। 20 P भक्ष्यखाद्यानि। 21 P विधाप्य; De निर्माय। 22 D तस्तत्र । 23 AP निहितः। पल्यं०। 24 A मुत्सीर्षकं। 25 AD माश्रित्य । 26 B निर्जितजयविजयो। 27 करालवेतालं। 28 A Qज्य । 29 B .स्वादेन। 30 B मनुष्य; P सतुष्टा। 31 P देवराजेन। 32 P विहितः। 33 BP हन्मि । 34 BP 'किंतु' नास्ति । 35 BP ऽत्यन्तभक्त्या। 36 Da-b •एतद् । 37 BP भोज्यादि। 38 BP नीयम् । 39 P 'अपि नास्ति । 40 D विज्ञाप्य । 41 D विज्ञाप०; Da विज्ञप० । 42 D 'वं नास्ति । 43 P विनानान्यत्र 'संपूर्ण' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164