________________
९८ महामुनिश्रीव्यासपणीतं
[ १ आदिखण्डेअबक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः । नान्यत्र निवसेत्पुण्यं नास्त्यत्र ग्रामसंनिधौ ॥ २३ न संवसेच पतितैर्न चाण्डालैर्न पुल्कसैः । न मूर्नावलिप्तैश्च नान्यैर्जायावसायिभिः ॥ २४ एकशय्यासने पतिर्भाण्डे पकाथमिश्रणम् । यजनाध्यापने योनिस्तथैव सहभोजनम् ॥ २५ सहाध्यायस्तु दशमः सहयाजनमेव च । एकादश समुद्विष्टा दोषाः सांकर्यसंहिताः ॥ २६ समीपे वाऽप्यवस्थानोत्पापं संक्रमते नृणाम् । तस्मात्सर्वप्रयत्नेन सांकर्य परिवर्जयेत् ॥ २७ एकपकत्युपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ २८ अमिना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भमार्गेण पंभिः पतिविभिद्यते ॥ २९ न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् । परक्षेत्रे गां चरन्तीं नाऽऽचक्षीत च कहिचित् ॥३० न संवसेत्सूचकेन न के वै मर्मणि स्पृशेत् । न सूर्यपरिवेषं वा नेन्द्रचापं शराग्निकम् ॥ ३१ परस्मै कथयेद्विद्वाञ्शशिनं वाऽथ काञ्चनम् । न कुर्याद्वहुभिः साध विरोध बन्धुभिस्तथा ॥ ३२ आत्मनः प्रतिकूलानि परेषां न समाचरेत् । तिथिं पक्षस्य न चूयान्न नक्षत्राणि निर्दिशेत् ॥ ३३ नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमाः।न देवगुरुविषाणां दीयमानं तु वारयेत् ॥ ३४ न चाऽऽत्मानं प्रशंसेद्वा परनिन्दां च वर्जयेत् । वेदनिन्दा देवनिन्दा प्रयत्नेन विवर्जयेत् ॥ ३५ यस्तु देवानृषीश्चैव वेदान्वा निन्दति द्विजः । न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः॥३६ निन्दयेद्वा गुरुं देवं वेदं वा सोपबृंहणम् । कल्पकाटिशतं साग्रं रोरवे पच्यते नरः॥ ३७ तूष्णीमासीत निन्दायां न यात्किचिदुत्तरम् । कर्णी पिधाय गन्तव्यं न चैनमवलोकयेत् ॥३८ वर्जयेत्तां परेषां तु गृहेषु गर्हणां बुधः । विवादं सुंजनैः सार्ध न कुर्याद्वै कदाचन ॥ ३९ न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः। सत्येन तुल्यदोषः स्यान्मिथ्याभिदोषवान्भवेत् ४० नृणां मिथ्याभिशस्तानां पतन्त्यभूणि रोदनात् । तानि पुत्रान्पशन्नन्ति तेषां मिथ्याभिशंसिनाम् ४१ ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे । दृष्टं वै शोधनं वृद्धर्नास्ति मिथ्याभिशंसिनि ॥ ४२ नेक्षेतोद्यन्तमादित्यं शशिनं वाऽनिमित्ततः । नास्तं यान्तं न वारिस्थं मेघस्पृष्टं न मध्यगम् ॥४३ तिरोहितं समीक्षेत नादर्शाधर्नुशायिनम् । न नग्ना स्त्रियमीक्षेत पुरुषं वा कदाचन ॥ ४४ न च मूत्र पुरीषं वा न च संसृष्टमैथुनम् । नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः ॥ ४५ नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः । न पश्येत्तसंस्पर्श न क्रुद्धस्य गुरोर्मुखम् ॥ ४६ न तैलोदकयोश्छायां न पक्तिं भोजनेऽसति । न मुक्तबन्धनं पश्येनोन्मत्तं गजमेव च ॥ ४७ नाश्नीयाद्भार्यया सार्ध नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा नाऽऽसनस्थां यथासुखम् ४८ नोदके चाऽऽत्मनो रूपं शुभं वाऽशुभमेव वा । न लययेच्च मतिमानाधितिष्ठेत्कदाचन ॥ ४९ न शूद्राय मतिं दद्यात्कृसरं पायसं दधि । नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ ५० न चैवास्मै व्रतं ब्रूयान च धर्म वदेद्बुधः। न च क्रोधवशं गच्छेद्वेगं रागं च वर्जयेत् ॥ ५१ लोभ दम्भं तथाऽवज्ञामसूर्या ज्ञानकुत्सनम् । ईर्ष्या मदं तथा शोकं मोहं च परिवर्जयेत् ॥ ५२ न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत् । न हीनानुपसेवेत न च तृष्णामतिः कचित् ५३ नाऽऽत्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् । न विशिष्टमसत्कुन्निाऽऽत्मानं नामयेद्बुधः।। २४
१ ख. अ. ‘ण्यं नान्त्यजना। २ अ. नान्यन्त्यिाव' । ३ ख. अ. नात्सांकर्य क । ४ ख. अ. विलेखतः । ट. हणेन वा । ५ क. सद्भिः । ६ ख. अ. पं पराहिक । ७ख. स्वजनैः । ८ अ. नगामिन' । ९.द. 'प्रेमसं। १० ख. म. पत्नी । ११ म. च्छेद्वेषं रा'। १२ ख. अ. 'नं तापये।