Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
११७सप्तदशाधिकशततमोऽध्यायः ] पद्मपुराणम् । सर्वशोभासमाकीर्ण विवेश स पुरोत्तमम् । वेदमङ्गलघोषैश्च ब्राह्मणैरभिपूजितः ॥ ६ ददर्श पितरं वीरो मातरं तां सुपुण्यकाम् । हर्षेण महताऽऽविष्टः पितुः पादौ ननाम सः॥ ७ अशोकसुन्दरी सा तु तयोः पादौ पुनः पुनः । ननाम भक्त्या भावेन चोभयोः सा वरानना ८ रम्भा च सा ननामाप्यदर्शयत्पीतिमुत्तमाम् । [*नमस्कृत्वा समाभाष्य स्वगुरुं नृपनन्दनः॥९ अनामयं च पप्रच्छ मातरं पितरं प्रति । एवमुक्तो महाभागः सानन्दपुलकोद्गमः॥ १०
__ आयुरुवाचअद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ । भवतो दर्शनात्पुत्र संतुष्ट हृष्यते जगत् ] ॥ ११ कृतकृत्योऽस्मि संजातस्त्वयि जाते महौजास । स्ववंशोद्धरणं कृत्वा त्यहमेव समुद्धृतः॥ १२
इन्दुमत्युवाचपर्वणी प्राप्य चेन्दोस्तु तेजो दृष्ट्वा महोदधिः । वृद्धिं याति महाभाग तथाऽहं तव दर्शनात् ॥१३ वधिताऽस्मि सुहृष्टाऽस्मि ह्यानन्देन समाकुला । दर्शनात्ते महाभाग धन्या जाताऽस्मि मानद १४ एवं संभाष्य तं पुत्रमालिङ्गय तनयोत्तमम् । शिरस्याघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् ॥१५ अभिनन्ध सुतं प्राप्त नहुषं देवरूपकम् । आशीभिः सर्वपुण्याभिर्देवी चन्दुमती तथा ॥ १६
सूत उवाचअथासौ मातरं पुण्यं देवीमिन्दुमती सुतः । कथयामास वृत्तान्तं यथा चाऽऽहवमात्मनः ॥ १७ स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः। हुण्डेनापि यथा युद्धं हुण्डस्यापि निपातनम् ॥१८ समासेन समस्तं तदाख्यातं स्वयमेव हि । मातापित्रोर्यथा चाग्रे तयोरानन्ददायकम् ॥ १९ मातापितरावाकये पुत्रस्यापि पराक्रमम् । हर्षेण महताऽऽविष्टौ संजातौ पूर्णमानसौ ॥ २० नहुषो धनुरादाय इन्द्रस्य स्यन्दनेन च । जिगाय पृथिवीं सर्वो सप्तद्वीपां सपत्तनाम् ॥ २१ पित्रोः समर्पयामास वसुपूर्णा वसुंधराम् । पितरं हर्णयन्नित्यं दानधर्मंः सुकर्मभिः ॥ २२ पितरं याजयामास राजसूयादिभिस्तदा । महायज्ञैः सुदानश्च वर्तनियमसंयमैः॥ २३ [+सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयः]। सुसंपूर्णौ कृतो तो तु पितरौ चाऽऽयुसूनुना ॥ २४ अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् । अभ्यषिश्चन्महात्मानं नहुषं वीरमर्दनम् ॥ २५ मुनिभिः सह सिद्धैश्च ह्यायुनाऽनेन भूभुजा । अभिषिच्य स्वराज्ये ते समेतं शिवकन्यया ॥ २६ भार्यायुक्तः सुकायेन आयू राजा महायशाः। दिवं जगाम धर्मात्मा देवैः सिदैः सुपूजितः॥२७ ऐन्द्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः । हरलोकं जगामाय स राजा देवपूजितः॥ २८ स्वकर्मभिर्महाराजः सुपुत्रस्यापि तेजसा । हरेलोकं जगामार्थ स राजा भक्तसत्तमः ॥ २९ पुरुषैः पुण्यकर्माख्यैरीदृशे पुण्य उत्तमे । यतितव्यं महाभाग किमन्यैः शोकैकारकैः ॥. १० जातो यथा स धर्मात्मा नहुषः पितृतारकः। कुलस्य धर्ता सर्वस्य ज्ञानविज्ञानसंयुतः॥ १ एतत्ते सर्वमाख्यातं चरितं तस्य धीमतः । अन्यत्कि ते प्रवक्ष्यामि वद पुत्र कपिञ्जल ॥ १२
एतचिहान्तर्गतः पाठःक.ख. घ..च.छ...
* एतचिहान्तर्गतः पाठः क.स.घ..च. पुस्तकस्थः। इ. इ.पुस्तकस्थः ।
११. थ निवसत्येव पूजितः । पु । छ. ध निवसत्येष भूपतिः । पु। २ . 'ग्य धर्मा । ३ १. कसागरैः । जा। ४. र. फलस्य।

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387