Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१२५ पञ्चविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
३७९ दिनस्यैकस्य वै पापं तस्य चैत्र प्रणश्यति । यो नरो भावसंयुक्तो अध्यायं शृणुते सुधीः॥ ९ तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः । दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि ॥ १० यत्फलं तत्मजायेत विष्णुश्चैव प्रसीदति । अस्य पद्मपुराणस्य पठमानस्य नित्यशः॥ ११ कलो युगे सुविघ्नाश्च जायन्ते तस्य नो कदा ॥
व्यास उवाचकस्मात्कलौ प्र(न)जायन्ते शृण्वानस्य च पद्मज । नरस्य पुण्यपकस्य नाना विघ्नाः सुदारुणाः ॥
ब्रह्मोवाचमखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते । तत्फलं दृश्यते विप्राः पुराणे पद्मसंज्ञके ॥ १४ अश्वमेधमखः पुण्यः कलो नैव प्रवर्तते । पुराणं चापि यत्तद्वदश्वमेधसमं किल ॥ १५ अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् । न भुञ्जन्ति नराः पापाः पापमार्गेषु संस्थिताः ॥ १६ पुराणस्यास्य च फलं पद्मसंज्ञस्य मत्तमाः। अश्वमेधस्य यत्पुण्यं [*स्वर्गमोक्षफलप्रदम् ॥ १७ न भुञ्जन्ति नराः पापाः पापमार्गेषु संस्थिताः । पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम ॥ १८ कलौ युगे नरैः पापैर्गन्तव्यं नरकार्णवम् । तस्माच्छोप्यन्ति तत्पुण्यं] चतुर्वर्गप्रसाधकम् ॥ १९ येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम् । सर्व हि माधितं तेन चतुर्वर्गस्य कारणम् ॥ २० अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते । शृण्वानम्य नरस्यापि महाविघ्नो न संचरेत् ॥ २१ अश्रद्धा जायते चापि पाठकस्य नरस्य च । लोमश्च जायते तस्य श्रावकस्य द्विजोत्तमाः ॥ २२ प्रेपिता देवदेवेन महामोहाः सुदारुणाः । अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः॥ २३ दृपकाः कुन्सकाः पापाः मंभवन्ति दिने दिने । ज्ञातव्यं तु सुशुद्धेन विनरूपं ममाधुना ॥ २४ [*संजातं दृश्यते व्यास तथा होमं समाचरेत् । ] वैष्णवैश्च महामविष्णुसूक्तैः सुपुण्यदैः २५ विष्ण्वागधनमत्रण सहस्रशीर्षकेण च । इदं विष्णुरित्यनेन आब्रह्मेण पुनः पुनः ॥ २६ त्र्यम्बकेण च मत्रंण [+होममेव समाचरेत् । बृहन्माम्ना सुमत्रेण ] द्वादशाक्षरकेण वा ॥ २७ यस्य देवस्य या होमस्तस्य मव्रण होमयेत् । अष्टोत्तरतिलाय॑श्च पालाशेः समिधेरपि ॥ २८ विनंशं पूजयेत्पूर्व शारदां च सुरश्वरीम् । ग्रहाणामपि कर्तव्यं स्थापनं पूजनं द्विजाः॥ २९ जातवेदोमहामायां चण्डिको क्षेत्रनायकम् । निलेश्च तण्डुलैराज्यस्तपामन्त्रसमुद्भवैः ॥ ३० एवं होमः प्रकर्तव्यो ब्राह्मणेभ्यो धनार्पणम् । यथामामर्थ्यमंवापि दक्षिणा धेनुसंयुताः ॥ ३१ ततो विघ्नाः प्रणश्यन्ति पुराणं मिद्धिमानुयात् । एवं न कुरुते यस्तु तस्य विघ्नं वदाम्यहम् ३२ तस्याङ्गे जायते रांगो बहुपीडाप्रदायकः । भार्याशोकः पुत्रशोको धनहानिः प्रजायते ॥ १३ नानाविधान्महारोगान्भुञ्जते नात्र संशयः । यस्य गेहे नास्ति वित्तमुपवास समाचरेत् ॥ ३४ एकादशी स संप्राप्य पूजयेन्मधुसदनम् । उपचारैः पोडशभिर्भावयुक्तेन चेतसा ॥ ३५
___एतच्चिदान्तर्गतः पाठः, द. छ. स.इ. द. पुस्तकस्थः । एतदने क. ख. ङ. च. छ. स. ड. ढ. पुस्तकेषु 'अश्वमेधादयो यज्ञाः कस्मात्रष्टा महामते । कली यगेत ते सर्वेसर्वद माङ्गमुस्वराः । यः कोऽपि शत्रुमपत्रः श्रद्धावान्भावतत्परः। श्रोतुमिच्छति धर्मात्मा सपत्रो भार्यया सह । श्रवणार्य महाश्रद्धा पर्व यत्र प्रजायते' इत्यधिकं दृश्यते । * एतचिहान्तर्गतः
एतद्विान्तर्गतः पाठः क. ख..च छ... पुस्तकस्थः।
पाठः क.ख. घ. ड.च. छ. झ. ट.ट. द. पुस्तकस्थः ।
१क. ख. ङ. ह. दयोऽन्तरे भा । २ क. ख. च. प्रायः । घ. छ. ठ. तात। ३ क.ब. ग. घ... छ.ज. झ. ज. ड. द. विष्णोरराटम' ।

Page Navigation
1 ... 383 384 385 386 387