Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 386
________________ महामुनिश्रीव्यासप्रणीतं पद्मपुराणम् । [ २ भूमिखण्डम् का ४ः ब्राह्मणान्भोजयेद्यस्तु यथावित्तानुसारतः । केशवाय ततो दत्त्वा संकल्प्य हविषाऽन्वितम् ॥ ३१ स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बान्धवैः । पुत्रैश्च भार्यया युक्तस्ततः सिद्धिमवामुयात् ॥ ३७ पुराणसंहिता पूर्णा श्रोतव्या धर्मतत्परैः । चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा ।। ३० सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु । कृते युगे तु निष्पापाः शृण्वन्ति मनुजा द्विजाः ॥ ३९ लक्षस्य ततः कृत्स्नं पुराणं पद्मसंज्ञकम् । श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाऽधिकम् ॥ ४० त्रेतायुगे तथा प्राप्ते शृण्वन्ति मनुजा द्विजाः । चतुर्वर्गफलं भुक्त्वा ते यास्यन्ति हरिं पुनः ॥ ४ द्वाविंशतिसहस्राणां संहिता पद्मसंज्ञका । द्वापरे कथिता विप्र ब्रह्मणा परमात्मना ॥ द्वादशैव सहस्राणां पद्माख्यां च सुसंहिताम् । कलौ युगे पठिष्यन्ति मानुषा विष्णुतत्पराः ॥ 8 एकोऽर्थचैकभावश्च चतुर्ष्वपि प्रवर्तितः । संहितास्वपि विप्रेन्द्राः शेषाख्यानमविस्तरः || ४१ द्वादशैव सहस्राणि नाशं यास्यन्ति सत्तमाः । कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति ।। भूमिखण्डं नरः श्रुत्वा सर्वपापैः प्रमुच्यते । रोगैर्दुःखैः शत्रुभिश्च विमुक्तः सुखमामुयात् ॥ अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम् । श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम् ॥ ४ प्रथमं सृष्टिखण्डं हि भूमिखण्डं द्वितीयकम् । तृतीयं स्वर्गखण्डं च पातालं तु चतुर्थकम् ॥ ४८ पञ्चमं चोत्तरं खण्डं सर्वपापप्रणाशनस् । यः शृणोति नरो भक्त्या पञ्च खण्डान्यनुक्रमात् ॥ ४९ सहस्रगोप्रदानस्य मानत्रो लभते फलम् । महाभाग्येन लभ्यन्ते पश्च खण्डानि भूसुराः ॥ श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः ॥ ४० ४६ ५० ३८० इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने पश्चविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ इति श्रीमहामुनिव्यासप्रणीते महापुराणे पाद्मे द्वितीयं भूमिखण्डं समाप्तम् । अध्यायानामादितः समथ्यङ्काः - १८७ आदितः श्लोकानां समथ्यङ्काः – ९०८० १. ट. ठ. राणं पद्मसंज्ञं च श्रोतव्यं । २ ट. पद्माख्यं । ३ क. स. घ. ङ. च. छ. झ ट ठ ड ढ का धर्माख्या कथ्यते सा तु द्वापरस्य महामते । द्वा । ४ ८. संभ्रमात् ।

Loading...

Page Navigation
1 ... 384 385 386 387