Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 384
________________ ३७८ महामुनिश्री व्यासप्रणीतं - [ २ भूमिखण्डे - करिष्यति च यः पापमाज्ञां वेनस्य भूपते । उल्लङ्घ्य वध्यतां सोऽपि यास्यते नात्र संशयः ।। ११ दान प्रदातव्यं यज्ञैश्चैव जनार्दनम् । यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः || १२ एवं शिक्षां तु दत्त्वा च राज्यं भृत्येषु वेनजः । निक्षिप्य स गतो विप्रास्तपसोऽर्थे तपोवनम् १३ सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान् । शतवर्षप्रमाणं वै निराहारो बभूव ह । तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह । तपस्तपसि कस्मात्त्रं तन्ममाऽऽचक्ष्व सुव्रत ॥ १५ १४ पृथुरुवाच अहो वेनो महाप्राज्ञः पिता मे कीर्तिवर्धनः । [समाचरति यः पापमस्य राज्ये नराधमः ॥ १६ शिरश्छेता भवत्वेष तस्य देवो जनार्दनः ] । अदृष्टैश्व महाचकैर्हरिः शास्ता भवेत्स्वयम् ।। १७ मनसा कर्मणा वाचा कर्तुं वाञ्छन्ति पातकम् । तेषां शिरांसि त्रुयन्तु शङ्गवृक्षफलं यथा ।। १८ एतदेव वरं मन्ये शृणु त्वत्तः सुरेश्वर । प्रजानां दोषभावैश्च न लिप्यति पिता मम ।। तथा कुरुष्व देवेश यदि भद्रमिहेच्छसि । ददस्व उत्तमं कामं चतुर्मुख नमोऽस्तु ते ।। २० ब्रह्मोवाच १९ एवमस्तु महाभाग पिता ते पूततां गतः । विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो ।। २१ एवं पृथुं समुद्दिश्य वरं दत्त्वा गतो विभुः । पृथुश्चापि महाप्राज्ञो राज्यकर्मणि संस्थितः ।। २२ बैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाऽऽचरेत् । यस्तु चिन्तयतं पापं त्रिविधेनापि कर्मणा२३ शिरश्छेदो भवेत्तस्य यथा चक्रेर्निकुन्तितः । तदाप्रभृति वै पापं नैव कोऽपि समाचरेत् || २४ इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः । सर्वलोकाः समाचारैः परिवर्तन्ति नित्यशः ।। २२ दानभोगैः प्रवर्तन्ते सर्वधर्मपरायणाः । सर्वसौख्यैः प्रवर्धन्ते प्रसादात्तस्य भूपतेः ।। २६ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने चतुविशत्यधिकशततमोऽध्यायः ॥ १२४ ॥ आदितः श्लोकानां समथ्र्यङ्काः - ९०३० अथ पञ्चविशत्यधिकशततमोऽध्यायः । सूत उवाच -- ३ dress समामाप्य प्रेतः परमधार्मिकः । संबभार स संभारान्नानापुण्यान्नृपात्मजः ॥ निमन्त्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानथ । अथ वेन इयाजासावश्वमेधेन भूपतिः ॥ दानान्यदाद्राह्मणेभ्यो नानारूपाण्यनेकशः । जगाम वैष्णवं लोकं सकायो जगतीपतिः ।। विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते । एतद्वः सर्वमाख्यातं चरितं तस्य भूपतेः ।। सर्वपापोपशमनं सर्वदुःखविनाशनम् । पृथुरेवं स धर्मात्मा राज्यं पृथ्व्याश्चकार ह ।। त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः । प्रजाऽनुरञ्जिता तेन पुण्यधर्मानुकर्मभिः || एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम् । प्रथमं सृष्टिखण्डं हि भूमिखण्डं द्वितीयकम् ॥ भूमिखण्डस्य माहात्म्यं कथयिष्याम्यहं पुनः । अस्य खण्डस्य वै श्लोकं यः शृणोति नरोत्तमः ।। ८ ७ * एतच्चिहान्तर्गतः पाठः क. ख. घ ङ च छ झ. ड ढ पुस्तकस्थः । १ ज. न्तु शङ्ख । ट. 'न्तु शिशवृ" । घ ठ न्तु संश' । २ क. ख. ड. छ. झ ड ढ पृथुः । ३ ड. “मर्थक' ।

Loading...

Page Navigation
1 ... 382 383 384 385 386 387