Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 383
________________ १२४ चतुर्विशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । विष्णुरुवाचयज त्वमश्वमेधेन राजसूयेन भूपते । गोभूस्वर्णाम्बुधान्यानां कुरु दानं महामते ॥ ५६ दानाबश्यति वै पापं ब्रह्मवध्यादिघोरकम् । चतुर्वर्गस्तु दानेन सिध्यत्येव न संशयः॥ ५७ तस्मादानं प्रकर्तव्यं मामुद्दिश्य च भूपते । यादृशेनापि भावेन मामुद्दिश्य ददाति यः॥ ५८ तादृशं तस्य वै भावं सत्यमेवं करोम्यहम् । ऋषीणां दर्शनात्स्पर्शादृष्टस्ते पापसंचयः ॥ ५९ आगमिष्यसि यज्ञान्ते मम देहं न संशयः । एवमाभाष्य तं वेनमन्तर्धानं गतो हरिः॥ ६० इति श्रीमहापुराणे पाने भूमिखाडे वेनोपाख्याने गुरुतीर्थ त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३ ॥, आदितः श्लोकानां समष्ट्यङ्काः-९००४ अथ चतुर्विशन्यधिकशततमोऽध्यायः । सूत उवाचअन्तर्धानं गते विष्णौ वेनो राजा महामतिः । क गनो देवदेवेश इतिचिन्तापरोऽभवत् ॥ १ हर्षेण महताऽऽविष्टश्चिन्तयित्वा नृपोत्तमः । समाहूय पृथु चैव स्वपुत्रं मधुराक्षरैः॥ २ उवाच च महाभागो हर्पण महताऽऽवृतः । त्वया पुत्रेण भूलॊके तारितोऽस्मि सुपातकात् ॥ ३ नीत उज्ज्वलतां वत्स वंशो मे सांप्रतं पृथो । मया विनाशितो दोस्त्वया चैव प्रकाशितः॥ ४ यजेऽहं चाश्वमेधेन दास्ये दानान्यनकशः । विष्णुलोकं प्रयास्यामि सकायस्त्वत्प्रसादतः ॥ ५ संभरस्त्र महाभाग संभारांश्चाप्यनुत्तमान । आमत्रय महाभागान्ब्राह्मणान्वेदपारगान् ॥ ६ एवं पृथुः समादिष्टो वेनेनापि महात्मना । प्रत्युवाच महात्मा स वेनं पितरमादरात् ॥ ७ कुरु राज्यं महाभाग भुक्ष्व भोगान्मनोनुगान् । सुदिव्यान्मानुपान्पुण्यान्यज्ञैर्यज जनार्दनम् ॥८ [+एवमुक्त्वा प्रणम्पैनं पितरं ज्ञानतत्परम् ] । धनुरादाय स पृथुः सवाणं यत्नपूर्वकम् ॥ ९ आदिदेश वरान्मान्धोषध्वं भूनले मम । पापमेवं न कर्तव्यं कर्मणा नियमेन वै ॥ १० - +तचिहान्तर्गत: पाठ: क. ख. इ.च. छ. झ. ड.. पुस्तकस्थः । १क. ख. घ. हु. च. छ. झ. ट. ट. इ. द. ते । दानयज्ञश्च भूयस्त्वमन्नार्यः शुभदायकैः । पचादागच्छ मे कायं सखी भव गतवरः । एवमाभाष्य त वनमन्तधानं गतो हरिः । हर्षेण महताऽऽविष्टो वेनराजा महामतिः । क गतो देवदेवेश इति चिन्त्य मुहुर्मुहुः ।। इति श्रीपद्मपुराणे गुरुतीर्थाख्यानं समाप्तम् ॥ व्यास उवाचविष्णुना देवदेवेन समाख्यातमनुत्तमम् । धर्माग्ल्यानं महापुण्यं सर्वपातकनाशनम् । तीर्थानां जगमानां हि सङ्घ प्रत्ययकारकम् । स वेनः किं चकाराथ तन्मे कथय पद्मज । ब्रह्मोवाचपनरुवाच जगन्नाथो नारायणो नृपोतमन् । यज त्वमश्वमेधेन दद दानं महामते। दानानश्यन्ति ते पापा अधोरा गतिमा शकाः । हस्तिहत्यादिका राजस्तस्माद्दानं प्रदीयते । चतुर्वर्गस्तु दानेन सिध्यते नात्र संशयः । तस्माद्दान प्रदातव्यं मामुहिश्य नरोत्तम । यादृशेनापि भावेन माभूद्दिश्य ददाति यः । तादृशं तस्य भावेन सत्यमेकं करोम्यहम् । ऋषीणां दर्शनास्पर्शान ते पातक नृप । पश्चाद्भवान्समागच्छ गेहं च मम संनिधौ । एवमुक्त्वा हृषीकेशो अन्तर्धानं गतस्ततः । हर्षेण । २ क. ख. घ. ङ. च. छ. झ. ठ. ढ.महाभागे । ३ क.स्व.. च. छ. झ. ह. द. त्रिविधेन ।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387