Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१२३ त्रयोविंशत्यधिकशततमोऽध्यायः ] पनपुराणम् । नासाकर्णौ च ज्ञानस्य नास्ति वै पाणसंग्रहः । केन दृष्टं तु वै शान कानि लिङ्गानि तस्य च ॥ आकारैर्वजितं नित्यं सर्व वत्ति स सर्ववित् । दिवा प्रकाशकः सूर्यो रात्रौ प्रकाशवेच्छशी ॥३ गृहे प्रकाशको दीपो लोकमध्ये स्थिता ह्यमी । तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम ॥ ४ न विन्दन्ति च मूढास्ते मोहितो विष्णुमायया । कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् ।। ५ तत्पदं तेन दृश्येत चन्द्रसूर्यादिभिर्न च । हस्तपादं विना ज्ञानमचक्षुः कर्णवर्जितम् ॥ ६ सर्वत्र गतिमञ्चास्ति सर्व गृह्णाति पश्यति । सर्वमाघ्राति विप्रेन्द्र शृणोत्येव न संशयः। ७ नास्ति ज्ञानसमो दीपः सर्वान्धकारनाशने । स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते ॥८ कायमध्ये स्थितं ज्ञानं न विन्दन्ति कुबुद्धयः । ज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते ॥९ पाणिनां हृदये नित्यं निहितं सर्वदा द्विज । कामादीन्सुमहाभोगान्महामोहादिकांस्ततः ॥ १० विवेक वाहिना मवान्दिधक्षति सदैव यः । सर्वशान्तिमयो भूत्वा चेन्द्रियार्थान्धमदयेत् ॥ ११ ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम् । शान्तिमूलमिदं ज्ञानं निर्मलं पापनाशनम् ॥ १२ तम्माच्छान्ति कुरुष्व त्वं सर्वसौख्यप्रवर्धिनीम् । समः शत्रौ च मित्रे च यथाऽऽत्मनि तथा परे भवस्व नियतो नित्यं जिताहारो जिनेन्द्रियः । मैत्रं नैव प्रकर्तव्यं वैरं दूरं परित्यज ॥ ११ निःमङ्गो निस्पृहो भूत्वा एकान्तस्थानमंश्रयः । सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यास ॥१५ एकस्थानस्थिता वत्स त्रैलोक्ये यद्भविष्यति। वृत्तान्तं वेत्स्यसि त्वं तु मत्प्रसादान संशयः॥ १६
कुञ्जल उवाचसिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशिनम् । नस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः १७ त्रैलोक्ये वर्तते यद्यदेकस्थानस्थितो यहम् । तत्तदेव प्रजानामि प्रसादात्तस्य सगुरोः॥ १८ तत्ते सर्व समाख्यातमात्मवृत्तान्तमेव हि । अन्यत्किं ते प्रवक्ष्यामि तद्यूहि द्विजसत्तम ॥ १९
च्यवन उवाचकीरयानि कथं प्राप्तो भवाज्ञानवतां वरः । तन्म त्वं कारणं हि सर्वसंदेहनाशनम् ॥ २०
कुञ्जल उवाच-. संमोजायते पापं संसर्गात्पुण्यमंव वा । तस्माद्धि वर्जयेच्छुद्धी भव्यो विरुद्धमेव च ॥ २१ लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुः । वन्धयित्वा ममानीतो विक्रयार्थ समुद्यतः ।। २२ चाटुकारं सुरूपं तं चादवाक्यं समीक्ष्य च । गृहीतो ब्राह्मगैकेन मम दत्तः सुप्रीतये ॥ २३ ज्ञानध्यानस्थितो नित्यमहमेवं द्विजोत्तम । म मे बालस्वभावेन कौतुकात्करसंस्थितः ॥ २४ तस्य कौतुकवाक्यैवा मुग्धोऽहं द्विजसत्तम । शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः॥ २५ मामेवं वदते सोऽपि तात मामहि आस्यताम् । स्थानं गच्छ महाभाग देवानर्चय सांपतम् ॥२६ इत्यादिचाटुकैवाक्यममिवं परिभाषते । तस्य वाक्यविनादेन विस्मृतं ज्ञानमुत्तमम् ॥ २७ पुष्पार्थ फलभोगार्थ गतोऽहं वनमेव हि । नीतः शुको बिडालेन मम दुःखाय केवलम् ॥ २८ अनृशंसर्तृभिः सर्वयस्थैः साधुकारिभिः । विडालन हतः पक्षी तेनैव भक्षितो हि मे ॥ २९ श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम् । महता दुःखभावेन असोनातिपीडितः॥ ३०
१क.ख. घ. ड.च.छ.झ.ट..ड.इ. "ता माहमा । २. स्कन्धवजितम् । ३ क.ख..च. म.र. 'गोद्धर्म एव हि । त । ४ छ. भव्यं संसर्गमे । ५ ग. घ. ज. अ. ट. ठ.. पुण्येन । ६ क. ख. घ. उ. च. छ. ट.. इ. इ. स्नानं । क. ख. ड. च. छ. ई. 'भारेण अ।

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387