Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 379
________________ १२२ द्वाविंशत्यधिकशततमोऽध्यायः ] पचपुराणम् । [*दिव्यपूजां विनाश्यैवं शोकपुष्पैः समर्चयेत् । एतदोषस्तवैवाघ समुत्पनः सुदारुणः] ॥ ४६ तस्माद्दण्डं प्रदास्यामि भुक्ष्व स्वकर्मजं फलम् । तस्य वाक्यं समाकर्ण्य कालाकष्टोऽभ्यभाषत।।१७ रे रे दुष्ट अनाचार मम कर्मप्रदूषक । हन्मि त्वामिह खड़ेन अनेनापि न संशयः॥ ४८ इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे । इन्तुकामः स्वशक्त्या च अभ्यधावत दानवः ४९ सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी । स्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज ह॥ ५. तेन हुंकारनादेन पतितो दानवाधमः । निश्रेष्टः कामरूपेण वजाहत इवाचलः ॥ ५१ पतिते दानवे तस्मिन्सर्वलोकविनाशके । लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः ॥५२ एतस्मात्कारणात्पुत्र सा स्त्री वे परिरोदिति । गङ्गातीरे वरारोहा दुःखव्याकुलमानसा ॥ एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥ विष्णुरुवाचएवमुक्त्वा स्वपुत्रं च कुञ्जलः पक्षिणां वरः । विरराम महापात्रः किंचित्रोवाच भूपते ॥ ५४ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने गुरुतीर्थे कामोदाख्यान एकविंशत्यधिकशततमोऽध्यायः ॥ १२१ ॥ कामोदाख्यानं समाप्तम् । आदितः श्लोकानां समयकाः-८९०५ अथ द्वाविंशत्यधिकशततमोऽध्यायः । विष्णुरुवाचकुञ्जलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्पति । विरराम महामानः किंचित्रोवाच तान्पुनः॥ १ वटाधस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम् । को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते ॥ २ किंवा देवोऽथ गन्धर्वः किंवा विद्याधरो भवान् । कस्य शापादिमां प्राप्तो योनि कीरस्य पातकीम् ॥३ कस्मात्त ईदृशं ज्ञानं वर्ततेऽतीन्द्रियं शुक । सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम् ॥ ४ किंवा प्रच्छन्नरूपण अनेनापि महामते । कस्त्वं सिदोऽय देवो वा तन्मे कथय कारणम् ॥ ५ कुञ्जल उवाचभोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम् । विद्या तपः प्रभावं च यस्मादमसि मेदिनीम ६ सर्व विष प्रवक्ष्यामि स्वागतं तव सुव्रत । उपविश्याऽऽसने पुण्ये छायामाश्रय शीतलाम् ॥ ७ अव्यक्तप्रभवो ब्रह्मा तस्माजझे प्रजापतिः । ब्रह्मणस्तु गुणैर्युक्तो भृगुब्रह्मसमो द्विजः॥ ८ भार्गवो नाम तस्याऽऽसीत्सर्वधर्मार्थतत्त्ववित् । तस्यान्वये भवान्विा च्यवनः ख्यातिमान्भुवि ९ नाहं देवो न गन्धर्वो नाहं विद्याधरः पुनः । योऽहं विम प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १० कश्यपस्य कुले जातः कश्चिद्राह्मणसत्तमः । वेददेदात्तत्त्वज्ञः सर्वधर्मप्रकाशकः ॥ ११ विद्याधर इति ख्यातः कुलशीलगुणैर्युतः । राजमानः सदा विप्रः प्रभावैस्तपसः सदा ॥ १२ संबभूवुः सुतास्तस्य त्रयो विद्याधरस्य वे । वसुशर्मा नामशर्मा धर्मशर्मा तु ते त्रयः॥ ११ [ तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः । वसुशर्मा मम भ्राता वेदशास्त्रार्यपारगः] ॥ १४ * एतचिहान्तर्गतः पाठः क. ख. ह. च छ. स. इ. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख.स.स.छ. स. उ.द. पुस्तकस्थः । १ड. पक्षीन्द्र है।

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387