Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 380
________________ २७४ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डेआचारैश्च समायुक्तो विद्यादिस्वगुणैः पुनः । नामशर्मा महामाज्ञस्तद्वचाऽऽसीगुणाधिकः ॥ १५ अहमेव महामूर्खः संजातः शृणु सत्तम । विद्यानामुत्तमं विष भावमर्थ शुभं कदा ॥ १६ न शृणोमि न वै यामि गुरुगेहमनुत्तमम् । ततस्तु जनको मे तु मामेव परिचिन्तयेत् ॥ १७ धर्मशर्मेति मे पुत्रो यस्य नाम निरर्थकम् । संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः॥ १८ इति चिन्त्य स धर्मात्मा मामुवाच सुदुःखितः । व्रज पुत्र गुरोर्गेहं विद्यार्थ परिसाधय ।। १९ एवमाकर्ण्य तसस्य पितुर्वाक्यं मया शुभम् । [*नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम् ॥२० यत्रैव ताडनं नित्यं भूभङ्गादि च क्रोधनम् । अनं न दृश्यते तत्र कर्मणा शृणु सत्तम ॥ २१ दिवा रात्रौ न निद्राऽस्ति नास्ति सुखस्य साधनम् ]] तस्माद्धि कारणात्तात न यास्ये गुरुमन्दिरम् २२ विद्याकार्य न करिष्ये क्रीडार्थमुत्सुकः पितः । भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पुनः२३ डिम्भैः सार्ध सुखेनापि दिवारात्रावतन्द्रितः। [+मामुवाच स धर्मात्मा मूहूँ ज्ञात्वा सुदुःखितः]२४ मा पुत्र साहसं कार्षीविद्यार्थमुद्यमं कुरु । विद्यया पाप्यते सौग्व्यं यशः कीर्तिस्तथाऽतुला ॥२५ मानं स्वर्गः सुमोक्षश्च तस्माद्वियां प्रसाधय । पूर्व सुदुःखमूला तु पश्चाद्विद्या सुखपदा ॥ २६ तस्मात्साधय पुत्र त्वं विद्या गुरुगृहं व्रज । पितुर्वाक्यमकुर्वाणो ह्यहमेवं दिने दिन ॥ २७ यत्र तत्र स्थितो नित्यमर्थहानि करोम्यहम् । उपहासः कृतो लोकेर्मम विम प्रकुन्सनम् ॥ २८ मम लज्जा समुत्पन्ना जीवनाशकरी तदा । विद्यार्थमुद्यतो विष के गुरुं प्राथेयाम्यहम् ॥ २९ इतिचिन्तापरो जातो दुःखशोकसमाकुलः । कथं विद्यामहं जाने कथं विन्दाम्यहं गुणान् ॥ ३० कथं मे जायते स्वर्गः कथं माझं व्रजाम्यहम् । इत्येवं चिन्तयन्वि वार्धक्यमगर्म पुनः ॥ ३१ देवतायतने दुःखी उपविष्टस्त्वहं कदा । मद्भाग्यैः प्रेषितः कश्चिसिद्धोऽकस्मात्ममागतः ॥ ३२ निराश्रयो निराहारः सदानन्दस्तु निस्पृहः । एकान्तमास्थितो विप्र दयायुक्तो जितेन्द्रियः।।३३ परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान । तमहं संश्रितो विप्र ज्ञानरूपं महामतिम् ॥ ३४ अहं सिद्धमभावेन भक्त्या नमितकंधरः । नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ॥ ३५ दीनरूपी बह जातो मन्दभाग्यस्त्वहं यतः । तेनाहं पृच्छितो विप्र कथं भवान्प्रशोचति ॥ ३६ केनाभिप्रायभावेन दुःखमेवं भुनक्ति वै । तेनैवमुक्तो विप्रन्द्र घृणिना योगिना तदा ॥ ३७ सुमूढत्वं मया तस्य पूर्ववृत्तान्तमेव हि । तस्मै संश्रावितं सर्व सर्वज्ञत्वं कथं व्रजेत् ॥ ३८ एतदर्थमहं दुःखी भवान्मम गतिथि॒वम् । स चोवाच महात्मा मे सर्व ज्ञानस्य कारणम् ॥ ३९ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थ च्यवनसंवाद द्वाविशत्यधिकशततमोऽध्यायः ॥ १२२ ॥ आदितः श्लोकानां समष्टयङ्काः--८९४४ अथ त्रयोविंशत्यधिकशततमोऽध्याय. । सिद्ध उवाचश्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः । न स्तो ज्ञानस्य वै हस्तो न च पादौ न चक्षुषी ॥१ *एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. . ढ. पुस्तकस्थः। +एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. स. १.द. पुस्तकस्थः। क. ख. र. च. छ. म. द.म् । बहुदुःखमयं तात । २ घ. ट. ठ. ड. छ. "न्तयाऽऽविष्टो दुःखार्तोऽपि गतः ३क. ख. ग. स.च.छ.ज.म. म. ड. प्रविषादम। ४ छ. ड. योगयुक्तो।५ क.ख.ड, च छ. झ. द. ज्ञानिना । पु

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387