Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८
३६४ महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेनमस्कृत्य द्विजेन्द्र तं गतो मातलिना तदा । [*स्वपुरं पितरं द्रष्टुं तां च माता यशस्विनीम्॥१४
सूत उवाच]-- अप्सरा मेनका नाम प्रेषिता दैवतैस्ततः । आयोर्भार्या सुदुःखेन पतिता शोकसागरे । १५ तामुवाच महाभागां देवीमिन्दुमती प्रति । मुश्च शोकं महाभागे तनयं पश्य संमुखम् ॥ १६ निहत्य दानवं पापं तव पुत्रापहारकम् । समायान्तं सभायां च वीरश्रिया समन्वितम् ॥ १७ मुवृत्तं संगरे तत्र नहुषेण यथा कृतम् । तस्यै निवेदयामास इन्दुमत्यै च मेनका ॥ मेनकाया वचः श्रुत्वा हर्षेणाऽऽकुलितेक्षणा । सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥१९ सामृतं सुमियं वाक्यं मनःप्रोत्साहकारकम् । जीवादिकं मया देयं त्वयि सर्वस्वमेव च ॥ २० एवमाभाष्य तां देवी राजानमिदमब्रवीत् । तव पुत्रो महाबाहुः समायातो हि सांपतम् ॥ २१ आख्याति च महाभाग एषा चैव वराप्सरा । भर्तारमेवमाभाष्य विरराम महर्षिता ॥ २२ समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां सतीम् । पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥ २३ पुत्र प्रति न कर्तव्य दुःखं राजन्कदाचन । तं निहत्य स्ववीर्येण दानवं चैष्यते पुनः॥ संजातं सत्यमेवं हि मुनिना भाषितं पुरा । अन्यथा वचनं तस्य कथं देवि भविष्यति ॥ २५ दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो जनार्दनः । शुश्रूषितो मया देवि त्वया च तपसा पुरा ॥ २६ पुत्ररत्नं तेन दत्तं विष्णुतेजःसमन्वितम् । सदा हनिप्यति पर दानवं पापचेतनम् ॥ २७ सर्वदेत्यमहतो च प्रजापालो महाबलः । दत्तात्रयेण मे दत्तो वैष्णवांशः सुतोत्तमः॥ एवं संभाष्य तां देवीं राजा चेन्दुमती तदा । महोत्सवं ततश्चक्रे पुत्रस्याऽऽगमनं प्रति ॥ २९ हर्षेण महताऽऽविष्टो विष्णुं सस्मार वै पुनः॥
अर्थोपपत्रं सुरसंघयुक्तमानन्दरूपं परमार्थमेकम् । क्लेशापहं सौख्यपदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्ड वेनोपाख्याने गुरुतीर्थे षोडशाधिकशततमोऽध्यायः ॥ ११६ ॥
आदितः श्लोकानां समष्टयङ्काः-८६८४
अथ सप्तदशाधिकशततमोऽध्यायः ।
१ २
कुञ्जल उवाचनहुषः प्रियया सार्धं तया चैवापि रम्भया । ऐन्द्रेणापि सुदिव्येन स्यन्दनेन वरेण च ॥ नागाहयं पुरं प्राप्तः सर्वशोभासमन्वितम् । दिव्यमण्डपयुक्तं च भवनरुपशोभितम् ॥ हेमतोरणगेहैश्च पताकाभिरलंकृतम् । नानावादित्रसंघोषेन्दिचारणशोभितम् ॥ देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम् । नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यन्दनैस्तथा ॥ नानामङ्गलशब्दैश्च वेदध्वनिसमाकुलम् । गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्तथा ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. इ. इ. . पुस्तकस्थः । १ घ. ट. 8. ह. 'त्यै महामतिः । में । २ क. ख. घ. ड. च. छ. स. ट. . इ. ढ मङ्गलयु। ३ ४. गसंधैव ।

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387