Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवंविधं पुण्यमयं चरित्रं वरिष्ठमेतयशसा समेतम ।।
आयोः सुतस्यापि शृणोति मयों भोगान्स भुक्त्वैति पदं मुरारेः॥ ३३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवमोपाख्याने नाहुषे सप्तदशाधिकशततमोऽध्यायः ॥ ११ ॥
आदितः श्लोकानां समध्यङ्काः-८७१७
अथाष्टादशाधिकशततमोऽध्यायः ।
कपिञ्जल उवाचगङ्गामुखे पुरा तात रोदमाना वराङ्गना । नेत्राभ्यामश्रुविन्दनि पतन्ति च महाजले ॥ ? गङ्गामध्ये निमज्जन्ति भवन्ति कमलानि च । पुण्यानि हृद्यरूपाणि सुगन्धीनि महान्ति च* ॥२ अस्थिशेषोऽथ पुरुषो जटाचीरधरः पुनः । तानि सौगन्थ्ययुक्तानि पानि विचिनोति सः॥३ हेमवर्णानि दिव्यानि शिवं नीत्वा समर्चयेत् । सा का नारी समाचक्ष्व सवा को हि महामते ॥४ अर्चयित्वा शिवं चापि कस्मात्पश्चात्परोदिति । एतन्मे सर्वमाचक्ष्व यद्यहं तव वल्लभः ॥ ५
कुञ्जल उवाचशृणु वत्स प्रवक्ष्यामि वृत्तान्तं देवनिर्मितम् । चरितं सर्वपापघ्नं विष्णोश्चैव महात्मनः ॥ ६ योऽसौ हुण्डो महावीर्यो नहुषेण हतो रणे । तस्य पुत्रो महाबीर्यो विहुण्डस्तपसान्वितः ॥ ७ निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम । आयुपुत्रेण धीरेण नहुषेण बलीयसा ॥ तपश्चचार संक्रुद्धो देवान्हन्तुं समुद्यतः । पौरुषं तस्य दुष्टस्य तपसा वर्धितस्य च ॥ जानन्ति देवाः सर्वे तु दुःसहं समराङ्गणे । हुण्डात्मजो विहुण्डस्तु त्रैलोक्यं हन्तुमिच्छति ॥ १० पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान । एवं समुद्यतः पापी देवब्राह्मणकण्टकः॥ ११ उपद्रवं समारंभे प्रजाः पीडयते च सः। तस्यैव तेजसा दग्धा देवाश्चन्द्रपुरोगमाः ॥ शरणं देवदेवस्य जग्मुर्विष्णोर्महौजसः । देवदेवं जगन्नाथं शङ्खचक्रगदाधरम् ।। ऊचुश्च पाहि नो नित्यं विहुण्डस्य महाभयात् ॥
विष्णुरुवाचवर्धन्तु देवाः सर्वे तु सुसुखेन महेश्वराः । विहुण्डं नाशयिष्यामि पापिनं देवकण्टकम् ॥ १५ एवमाभाष्य तान्देवान्मायां कृष्णो विधाय च । स्वयमेव स्थितस्तत्र नन्दने सुमहायशाः ॥ १६ मायामयं चकाराथ स्वकं रूपं गुणान्वितम् । विष्णुमाया महाभागा सवेविश्वप्रमोहिनी ॥ १७ [+चकार रूपमतुलं विष्णोर्माया प्रमोहिनी] । विहुण्डस्य वधार्थाय रूपलावण्यशालिनी ॥ १८
___ कुञ्जल उवाचस देवानां वधार्थाय दिव्यमार्ग जगाम ह । नन्दने तपन्ती मायामपश्यदितिजेश्वरः॥ १९ तया विमोहितो दैत्यः कामवाणकृतान्तरः । आत्मनाशं न जानाति कालरूपां वरस्त्रियम् ।। २० तां दृष्ट्वा तप्तहेमामां रूपद्रविणशालिनीम् । लुब्धो विदुण्डः पापात्मा तामुवाच वराङ्गनाम् ॥२१ कासि कासि वरारोहे मम चित्तपमाथिनी । संगमं देहि मे भद्रे रक्ष रक्ष वरानने ॥ २२ ___ * एतदने क. ख. ड. च. छ. स. ढ. पुस्तकेषु ' तस्यास्तात सुनेत्राभ्यां किमर्थ सा प्रदेवति । गङ्गोदके महाभाग निर्मला अश्रुपिन्दवः ' इत्यधिकम् । + एतचिहान्तर्गतोऽयं पाठो ड. पुस्तकस्थः ।

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387