Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 368
________________ महामुनिश्रीव्यासप्रणीतं [२ मूमिखण्डेमहातेज महापाझं महादानवशासनम् । स चुक्रोध सुदुष्टात्मा दृष्ट्वा तं नृपनन्दनम् ॥ ५ स्थितो गत्वेदमाभाष्य तिष्ठ तिष्ठेति चाऽऽहवे । त्वामद्यैव नयिष्यामि आयुपुत्र यमान्तिके ॥ ६ नहुष उवाचस्थितोऽस्मि समरे पश्य त्वामहं हन्तुमागतः । अहत्वा नैव यास्यामि भवन्तं पापचेतनम् ॥ ७ इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान । छत्रेण ध्रियमाणेन शुशुभे सोऽपि संगरे ॥ ८ इन्द्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत् । वाहयस्व रथं मेऽद्य हुण्डदेत्यस्य संमुखे ॥ ९ इत्युक्तस्तेन वीरेण मातलिर्लयुविक्रमः । तुरगांश्चोदयामास महावातरोपमानं ॥ १० उत्पेतुश्च ततो वाहा हंसा इवे सरोजले । छत्रेण चंन्दुवर्णेन स रथेन पताकिना ॥ ११ नभस्तलं समासाद्य यथा सूर्यो विराजते । आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण च ॥ १२ अथ हुण्डो रथस्थोऽपि भ्राजमानः स्वतेजसा । सर्वायुधास्त्रसंयुक्तस्तद्वेत्सोऽप्यम्बरे स्थितः॥१३ उभयो:रयोयुद्धं देवविस्मयकारकम् । आसीत्तदा महापाज्ञ दारुणं भीतिदायकम् ॥ १४ मुबाणेनिशितैस्तीक्ष्णैः कङ्कपत्रेः शिलीमुखेः । हुण्डेन ताडितो राजा स बाहोरन्तरे तदा ॥ १५ सुभाले पञ्चभिर्वाणविद्धः क्रुद्धोऽभवत्तदा । [*स विद्धस्तु महाबाणरधिकं शुशुभे नृपः ॥ १६ सारुणः करमालाभिरुदयंश्च दिवाकरः । रुधिरेण सुदिग्धाङ्गो हेमबाणैस्तनुस्थितैः॥ १७ सूर्यवच्छोभते राजा पूर्ववन्नभमि स्थितः । दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् ॥ १८ तिष्ठ तिष्ठ क्षणं देत्य पश्य मे लाघवं पुनः । इत्युक्त्वा चरणे देत्यं जघान दशभिः शरैः॥ १९ मुखे बाणैर्हतस्तेन मूर्छितो निपपात ह । पश्यमानः सुरैः सर्वं रथांपरि महाबलः ॥ २० देवैश्व चारणैः सिद्धेः कृतः शब्दः महर्षजः । जय जयेति राजेन्द्र शङ्खान्दःमः पुनः पुनः ॥ २१ स कोलाहलशब्दस्तु तुमुलो देवतेरितः । कर्णगन्धं समाविष्टो हुण्डस्य मूछितस्य च ॥ २२ श्रुत्वा स धनुरादाय बाणमाशीविषोपमम् । स्थीयता स्थीयतां युद्धे न मृतोऽस्मि त्वया हतः२३ इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः । एकविंशतिभिर्वाणनहषं चाहनत्पुनः ॥ २४ एकेन मुष्टिमध्ये तु बहुभिर्जानुमध्यतः । चतुर्भिश्च महाश्वांश्च च्छत्रमंकन चैव च ॥ पञ्चभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः। [ ध्वजदण्डं त्रिभिस्तीक्ष्णेर्दानवः शिखिभित्रिभिः]॥ आदानं दानवेन्द्रस्य शरमाक्षं दुरात्मनः । लाघवं तस्य व दृष्ट्वा देवास्तं विस्मयं गताः ॥ २७ तस्य पौरुषमापश्य स राजा दानवेश्वरम् । धीरोऽसि कृतविद्योऽसि शुगंऽसि रणपण्डितः।।२८ इत्युक्त्वा दानवं तं तु धनुर्विस्फार्य भूपतिः । मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः ॥ २९ त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले । तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ॥ ३० एकेन च्छत्रं तस्यापि चकर्त लघुविक्रमः । दशभिः सारथिस्तस्य प्रेषितो यममन्दिरम् ॥ ३१ दंशनं दशभिश्छित्वा शरैश्च विदलीकृतः । सर्वाङ्गेषु च त्रिंशद्भिविव्याध दनुजेश्वरम् ॥ ३२ हताचो विरथो जातो बाणपाणिर्धनुर्धरः । अभ्यधावत्स वेगेन वर्षयनिशितैः शरैः ॥ ३३ खड़चमेधरो देत्यो राजानं तमधावत । धावमानस्य हुण्डस्य खडं चिच्छेद भूपतिः॥ ३४ * एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च छ. झ. ट. ठ. इ. ८. पुस्तकस्थः । + एतचिहान्तर्गतःपाठो ड. पुस्तकस्थः। १ क. ख. अ. व यथाम्बरे । छ । २ ड. 'द्वत्स चाऽऽहवे स्थि । ३ दृ. ड. द. मुबाणैः पञ्चभिविद्धो नहुषोऽपि पुनस्तदा । ४ छ. झ. 'खे भाले हत । ५ इ. तो दुष्ट वै यु। ६ घ. ट. ठ. ड. निशितैस्तं ।

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387