Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 366
________________ महामुनिश्रीव्यासमणी [ २ भूमिखण्डेसर्वमेव विजानामि यस्यास्तु तप उत्तमम् । ] श्रूयतां वचनं रम्भे येन सौख्यं भविष्यति ॥ ३८ अहत्वा दानव हुण्डं न गच्छामि वैरानने । सर्वमेतत्सुवृत्तान्तमहं जानामि चैव हि ॥ ३९ ममार्थ तव संभूतिस्तप आचरितं त्वया । मम भार्या न संदेहो भवती विधिना कृना ॥ ४० ममार्थे निश्चयं कृत्वा तप आचरितं त्वया । हृता तस्मादुपायेन भवती नियमस्थिता ॥ ४१ सूतिगृहादहं तेन दानवेनाधमेन च । बालभावस्थितो देवि पितृमातृविनाकृतः॥ ४२ तस्मात्तं तु हनिष्यामि [*हुण्डं तं दानवाधनम् । पश्चात्वामुपनेप्येऽहं ] वसिष्ठम्याऽऽश्रमं प्रति॥ एवं कथय भद्रं ते रम्भे मत्मियकारिणीम् । एवं विसर्जिता तेन सत्वरं सा गता पुनः ॥ ४४ अशोकसुन्दरी देवीं कथयामास तस्य च । समासेन तथा सर्व रम्भा सा द्विजसत्तम ॥ ४५ अशोकसुन्दरी बाला ह्यवधार्य सुभाषितम् । नहुषस्यापि वीरस्य हर्षेण च समन्विता ॥ १६ तस्थौ तत्र तया सार्ध स्वसख्या रम्भया तदा । भर्तुश्च कीदृशं वीर्यामिति पश्याम्यहं स्थिता ४७ इति श्रीमहापुराणे पाद्मे मिखण्डे वनोपाख्याने गुरुतीर्थे नाहुषे त्रयोदशाधिकशनतमोऽध्यायः॥११३॥ आदितः श्लोकानां समष्टयङ्काः-८५७९ अथ चतुर्दशाधिकशततमोऽध्यायः । कुञ्जल उवाचअथ ते दानवाः सर्वे हुण्डस्य परिचारकाः । नहुपस्यापि संवादं रम्भायाः शुश्रुवुस्तदा ॥ १ आचचक्षुश्च ते हुण्डं देत्यन्द्रं सर्वमेव तत् । तमाकये स चुक्रार्ध दृनं वाक्यमथाब्रवीत् ॥ २ गच्छ दूंत ममाऽऽदेशांत्वमेवं तं समाचर । संभापत तया सार्धं पुरुपः शिवकन्यया ॥ ३ स्वामिनिर्देशमाकर्ण्य जगाम लघु दानवः । विविक्तं नहुपं वीगमिदं वचनमब्रवीत् ॥ ४ [+रथेन साश्वसूतेन दिव्येन परितिष्ठसि । धनुषा दिव्यवार्णस्तु सभायां हि भयंकरः॥ ५ कस्य केन सुकार्येण पेपितः केन व भवान । ] अनया रम्भया तेऽद्याप्यनया शिवकन्यया ॥६ किमुक्तं तत्स्फुटं सर्व कथयस्व ममाग्रतः । हुण्डस्य देवमर्दम्य न विभति भवान्कथम् ॥ ७ एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छनि । मद्या गच्छात्र मा तिष्ठ दुःसहां दानवाधिपः ॥ ८ नहुष उवाच - योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः । तस्य मां तनयं विद्धि सर्वदेत्यविनाशनम् ॥ नहुषं नाम विख्यातं देवब्राह्मणपूजकम् ।। हुण्डेनापहृतं बाल्ये स्वामिना तव मानद । सेयं कन्या शिवस्यापि दैत्यनापहृता पुरा ॥ १० घोरं तपश्चरत्येषा हुण्डस्यापि वधाय च । योऽहमादी हृतो बालस्वयाऽऽयोः सतिकागृहात् ११ दास्या अपि करे दत्तः सूदस्यापि दुरात्मना । वधार्थ श्रूयतां पाप सोऽहमद्य समागतः ॥ १२ * एनचिहान्तर्गतः पाटः क. ख. ड. च. छ. झ. द. पुस्तकस्थः । + एतांच्चदान्तर्गत: पाठः क. ख. घ. ङ. च. छ. स. ट. ठ. इ. ढ. पुस्तकस्थः । -----.-. . ---- .... १क. ख. ङ. च. छ. झ. ड पापं । २ छ. वगङ्गनाम् । ३ क. ख. घ. ङ. च. च. छ. झ.ढ स्मात्सुपापेन । ४ क. ख. घ. ङ. च. छ. स.ट. ठ. ह. द. सूत । ५ क. ख. घ. ङ. च. छ. झट. ठ. इ. द. पापाः । ६ क. ख. ड. च. छ. स... ध विशठं वा । ७क. ख. घ. ङ. च. छ.स. ट. ठ. ड.. वार । ८ छ. शाज्जानीहि पुरुषं हि तम् ।सं। . तत्र। १.क. ख. ङ. छ. झ. द. विशठो । ड. विसृष्टी ।

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387