Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 367
________________ १११ पञ्चदशाधिकशततमोऽध्यायः ] पद्मपुराणम् । २६१ १४ अस्यापि हुण्डदैत्यस्य दुष्टस्य पापकर्मणः । अन्यांश्च दानवान्घोरानयिष्ये यमसादनम् ॥ १३ मामेवं विद्धि पापिष्ठ एवं कथय दानवम् । एवमाकर्ण्य तत्सर्व नहुषस्य महात्मनः ॥ गत्वा हुण्डं स दुष्टात्मा आचचक्षेऽस्य भाषितम् । निशम्य तन्मुखात्तूर्ण चुक्रोध दितिजेश्वरः १५कस्मात्सूदेन पापेन तया दास्या न घातितः । यतोऽयं वृद्धिमायातो मया व्याधिरूपेक्षितः १६ अद्यैनं घातयिष्यामि त्वनया शिवकन्यया । आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः ।। १७ एवमुक्त्वां विचिन्त्यैव सारथिं वाक्यमब्रवीत् । योजय स्यन्दनं त्वं मे वाजिभिः साधुभिः शुभैः ।। १८ सेनाध्यक्षं समाहूय इत्युवाच रुषाऽन्वितः । सज्यतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय ॥ १९ सारोहैस्तुरगान्योज पताकाध्वजचामरैः । चतुरङ्गं बलं मेऽय योजयस्व हि सत्वरम् || एवमाकर्ण्य तत्तस्य हुण्डस्यापि मतं लघु । सेनाध्यक्षो महाप्राज्ञः सर्व चक्रे यथाविधि || चतुरङ्गेण तेनासौ बलेन महताऽऽवृतः । जगाम नहुषं वीरं चापबाणधरं रणे ॥ इन्द्रस्य स्यन्दने युक्तं सर्वशस्त्रभृतां वरम् । उद्यतं समरे वीरं दुरापं देवदानवैः ॥ पश्यन्ति गगने देवा विमानस्था महौजसः । तेजोज्वालासमाकीर्ण दिविस्थमिव भास्करम् ||२४ सूत उवाच - २० २१ २२ २३ २५ २६ २७ अथ ते दानवाः सर्वेषुस्तं शरोत्तमैः । खड्रैः पाशैर्महाशूलैः शक्तिभिश्च परश्वधैः ॥ युयुधुः संयुगे तेन नहुषेण महात्मना । संरम्भाद्गर्जमानास्ते यथा मेघ गिरौ तथा ।। तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान । इन्द्रायुधसमं चापं विस्फार्य सगुणस्वरम् ॥ वज्रस्फोटसमः शब्दः चापस्यापि महात्मना । नहुषेण कृतो विमा दानवानां भयप्रदः ॥ महता तेन शब्देन दानवाश्च चकम्पिरे । कम्पनाविष्टहृदया भग्नसत्वा महाहवे ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनेोपाख्याने गुरुतीर्थे च्यवनोपाख्याने नाहुषे चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥ आदितः लोकानां समथ्र्यङ्काः - ८६०८ २८ २९ अथ पञ्चदशाधिकशततमोऽध्यायः । कुञ्जल उवाच ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरी महात्मा || [+ यथैव कालः कुपितः स लोकान्संहर्तुमैच्छत्तु तथा स दानवान् ॥ महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान तेजसा । वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् ॥ ] वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा । तथा स राजा ह्यसुर्रान्समस्तान्संनाशयेद्वाणवरैः सुतीक्ष्णैः ॥ न शेकुर्दानवाः सर्वे बाणवर्षे महात्मनः । मृताः केचिद्भुताः केचिन्नष्टाः केचिन्महाहवात् ॥ ४ + एतच्चिहान्तर्गत: पाठो ड. पुस्तकस्थः । १ ड. क्त्वा स दैत्येन्द्रः सा । २क. ख. ङ च छ झ. ढ. समातुरः । ३ क. ख. ङ. व. छ. झ. ड. धीरं । ४. घा इवाम्बरे । त । ५ क. ख. घ ङ च छ, झ. ठ ड ढ कश्मलावि । ६क. ख. ङ. च. छ. स. ड. ड. 'रान्मदोत्कटान्संना । ૪

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387