Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
पद्मपुराणम् ।
३५९
९
१०
११३ त्रयोदशाधिकशततमोऽध्यायः ] गच्छत्यपि मनस्ताप एनं दृष्ट्वा महामतिम् । पापमेवं परित्यज्य सत्यमेव प्रधावति ॥ भर्ताऽयमायुपुत्रस्ते तत्सत्यं च न संशयः । अन्यं दृष्ट्वा विशङ्केत पुरुषं पापलक्षणम् ॥ [*एवं विधिः कृतो देवैः सत्यपाशेन बन्धितः । अस्यास्तु वायुपुत्रोऽपि भर्तृत्वमुपयास्यति । । १ १ एवमाकर्णितं भद्रे ह्यात्मानं चापि सुन्दरि ] । तद्ध्रुवं सत्यसंपन्नो विज्ञानात्मा स्वयं स्थितः १२ अन्यं भावं न जानाति ह्यायुपुत्रं च विन्दति । प्रकृतिर्नैव ते देवि ह्येनं जानाति चाऽऽगतम् १३ ऐवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति । आत्मा सर्व प्रजानाति आत्मा देवः सनातनः ।। १४ स्वयमेव नरेन्द्रोऽयं नहुषो नाम वीर्यवान् । तस्माद्गच्छति चेतस्ते सत्यवन्धं विशिष्यते ॥ १५ आयोः सुतं परिज्ञाय अन्यं चैव न गच्छति । एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् ।। १६ go हत्वा महाघोरं समरे दानवाधमम् | त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् ॥ १७ हृतो दैत्येन वीरेन्द्रो निजपुण्येन शेषितः । [ 'वाल्यात्प्रभृति वीरेन्द्रो वियुक्तः स्वजनेन वै ] १८ पितृमातृविहीनस्तु गतो वृद्धिं महावनं । यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम् ॥ एवमाभाषितं श्रुत्वा रम्भायाः शिवनन्दिनी । हर्षेण महताऽऽविष्टा तामुवाच तपस्विनी ॥ अयमेव स धर्मात्मा मम भर्ता सुवीर्यवान् । मनो मे धावते सत्यं कामाकुलितविद्दलम् ।। २१ नास्ति चित्तममो देवो यो जानाति सुनिश्चितम् । सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि ।। २२ मनोभवसमानं तु पुरुषं दिव्यलक्षणम् । न ( प्र ) धावत्यतिभावेन एनं दृष्ट्वा यथा सखि ।। २३ तथा न धावते भद्रे पुंसमन्यं न मन्यते । एवं गन्तव्यमात्राभ्यां सखीभिर्गृहमेव हि ॥ एवमाभाष्य सा रम्भां गमनायोपचक्रमे । गमनायोत्सुकां ज्ञात्वा नहुषस्यान्तिकं प्रति ।। तामुवाच ततो रम्भा कम्मादेवि न गम्यते ।।
२४
२५
१९
२०
सूत उवाच -
२७
२८
२९
३०
३१
सख्या च रम्भया सार्ध नहुषं वीरलक्षणम् । तस्यान्तिकं तु संप्राप्य प्रेषयामास तां सखीम् २६ एनं गच्छ महाभागे नहुषं देवरूपिणम् । कथयस्व कथामेतां तवार्थ आगता यतः ।। एवं सखि करिष्यामि सुप्रियं तव सुव्रते । एवमुक्त्वा गता रम्भा नहुषं राजनन्दनम् ॥ चापंत्राणधरं वीरं द्वितीयमिव वासवम् । प्रत्युवाच गता रम्भा संख्या वचनमुत्तमम् || आयुपुत्र महाभाग रम्भाऽहं समुपागता । शिवस्य कन्यया वीर तपस्यन्त्या प्रयोजिता ॥ त्वदर्थं देवदेवेन उमया दिव्यया पुरा । भार्यारत्नं बने सृष्टं श्रेष्ठं लोकेषु दुर्लभम् || दुष्प्राप्यं च नरश्रेष्ठैर्देवैः सेन्द्रैस्तपोधनैः । गन्धर्वैः पन्नगैः सिद्धैश्वारणैः पुण्यलक्षणैः ॥ स्वयमेव समायातं तत्रार्थे शृणु सांप्रतम् । स्त्रीरत्नं च महाप्राज्ञ प्रकृष्टं पुण्यनिर्मितम् ॥ अशोकसुन्दरी नाम तवार्थं तपसि स्थिता । अत्यर्थं तु तपस्तप्तं भवन्तमिच्छते सदा ॥ एवं ज्ञात्वा महाप्राज्ञ भजमानां भजस्व हि । त्वदृते सा वरारोहा पुरुषं नैव याचते ॥ नहुषेण तयोक्तं तु श्रुत्वा तथाऽवधारितम् । प्रत्युत्तरं ददौ चाथ रम्भं मे श्रूयतां वचः ॥ [तन्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः । ममाग्रे कथितं पूर्व वसिष्ठेन महात्मना ॥
३२
३३
३४
३५
३६
३७
* एतच्चिदान्तर्गत: पाठी घ ट ट उ पुस्तकस्थः । + एतचान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ ट ठ ड. ह. पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठः क. ख. ट. च. छ. झ. ह. पुस्तकस्थः ।
१ क. स्व. ग. तद्भावम' । २ ड. एन। ३ घ ट ठ ड समुद्रजाम् । ४ क. ख. घ ङ च छ झ ट ठ ढ. तेsत्यर्थ का । ५. घ. ज. अ. ट ठ विस्तरं । ६ ट. कुअल । ७ घ. च. झ ट ठ ड 'पतृणध' ।

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387