Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
११६ षोडशाधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
३७
३८
३९
क्षुरमैर्निशितैर्बाणैश्वर्म चिच्छेद भूपतिः । अथ हुण्डः सुदुष्टात्मा समालोक्य समन्ततः ।। जग्राह मुद्गरं तूर्ण मुमोच लघुविक्रमः । वज्रवेगं समायान्तं ददृशे नृपतिस्तदा ॥ मुद्गरं स्वनवन्तं चापातयदम्बरात्ततः । [दशाभिर्निशितैर्बाणैः क्षुरमैश्च स्वविक्रमात् ] ॥ मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि । गदामुद्यम्य वेगेन राजानं समधावते || खड्गेन तीक्ष्णधारेण तस्य बाहुं प्रचिच्छिदे । सगदं पतितं भूमौ साङ्गदं कटकान्वितम् ॥ महाशब्दं ततः कृत्वा वज्रस्फोटमयं स तु । रुधिरेण विदिग्धाङ्गो धावमानो महाहवे || ४० क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम् । दुर्निवार्यः समायातः पार्श्वे तस्य च भूपतेः ॥४१ नहुषेण महाशक्त्या ताडितो हृदि दानवः । पतितः सहमा भूमौ बज्राहत इवाचलः ।। तस्मिन्दैत्ये गते भूमावितरे दानवा गताः । विविशुगिरिदुर्गेषु कति पातालमास्थिताः ॥ देवाः प्रहर्ष जग्मुस्ते गन्धर्वाः सिद्धचारणाः । हते तस्मिन्महापापे नहुषेण महात्मना ॥ तस्मिन्हते दैत्यवरे महाहवे देवाश्व सर्वे प्रमुदं च लेभिरे ।
ITS.
४२
३६२
३५
३६
अथ पोडशाधिकशततमोऽध्यायः ।
४३
४४
तां देवरूपां तपसा विवर्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ।
४५
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनेोपाख्याने नाहुषे पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥ आदितः श्लोकानां समयङ्काः- ८६५३
कुञ्जल उवाच
अशोकसुन्दरी पुण्या रम्भया मह हर्षिता । नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी ॥ अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी । उद्वाहयस्व मां वीर पतिधर्ममिहेच्छतीम् ॥ सदैव चिन्तमाना च त्वामहं तप आस्थिता । भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम । नहुष उवाच
———
४
७
८
मदर्थे नियता भद्रे यदि त्वं तप आस्थिता । गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥ अनया रम्भया सार्धमावां गच्छाव भामिनि । समारोप्य रथे तां तु रम्भां च सुमनोहराम् ॥ ५ तेनैव रथमुख्येन वसिष्ठस्याऽऽश्रमं प्रति । जगाम लघुवेगेन ताभ्यां सह महाशयाः ॥ तमाश्रमगतं विप्रं समालोक्य प्रणम्य च । तया सार्धं महातेजा हर्षेण महताऽन्वितः ॥ यथा च युद्धं संजातं निहतो दानवो यथा । निवेदयामास सर्व वसिष्ठाय महात्मने ॥ वसिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम् । हर्पेण महताऽऽविष्ट आशीर्भिरभिनन्द्य तम् ॥ तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः । विवाहं कारयामास अग्निब्राह्मणसंनिधौ । आशीर्भिरभिनन्द्यैवं मिथुनं प्रेषितं पुनः । मातरं पितरं पश्य द्रुतं गत्वा महामते ।। त्वां च दृष्ट्वा हि ते माता पिताऽसौ चापि सुव्रतः । हर्षेण दृद्धिमानोतु पर्वणीव तु सागरः।। १२ एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना । तेनैव रथवर्येण जगाम लघुविक्रमः ।
९
१०
११
१३
* एतचिहान्तर्गत: पाठो घ ट ठ ड. पुस्तकस्थः ।
१
१ ड. रं स्वेन बाणेन चिच्छेद नृपतिस्तदा । द' । २ ड. पातयामास मुद्गरम् । ३ ड त । राजा परशुना तस्य बाहु चिच्छेद पर्वतः । स ।

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387