________________
३५४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतेनैव मांसेन सुसंस्कृतेन मृष्टेन पकेन रसानुगेन ।
तमेष दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ॥ बुभुजे दानवो मांसं रसेनाक्तं सुचाटुना । हर्षेणापि समाविष्टो जगामाशोकसुन्दरीम् ॥ ४ तामुवाच ततस्तूर्ण कामोपहतचंतनः । आयोः पुत्रो मया भद्रे भक्षितः पतिरेव ते ॥ मामेव भज चावनि भुझ्व भोगान्मनोनुगान् । किं करिष्यसि तेन त्वं मानुषेण गतायुषा ॥ ६ उवाच तद्वचः श्रुत्वा शिवकन्या यशस्विनी । भर्ता मे दैवतैर्दत्तो अमरो दोषवर्जितः ॥ ७ तस्य मृत्युनं वै दृष्टो देवैरपि महात्माभिः । एवमाकण्ये तद्वाक्यं दानवो दुष्टचेष्टितः॥ ८ तामुवाच विशालाक्षी प्रहस्यैव पुनः पुनः । अव भक्षितं मांसमायुपुत्रस्य सुन्दरि ॥ जातमात्रस्य बालस्य नहुषस्य दुरात्मनः । एवं त्वाकर्ण्य मा वाक्यं कोपं चक्र सुदारुणम् ॥१० प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः । तप एवं मया नप्तं मनमा नियमन व ॥ ११ आयुसूनुश्चिरायुश्च स सत्यन भविष्यति । इतो गच्छ दुराचार यदि जीवितुमिच्छसि ॥ १२ अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः । एवमाणितं तस्याः सृदेन नृपतिं प्रति ॥ १३ परित्यज्य महाराजनेतामन्यां समाश्रय । सदेन पेपिनो दैत्यः म हुण्डो दानवाधमः ॥ १४ निर्जगाम त्वरायुक्तः स स्वां भायों प्रियां प्रति । चेष्टितं नैव जानानि दास्या सुदन यत्कृतम् ।। तस्यै निवेदितं सर्व प्रियायै वृत्तमेव च ।।
सूत उवाचअशोकसुन्दरी सा च महता तपसा किल ।। दुःखशोकेन संतप्ता कृशीभूता तपस्विनी। चिन्तयन्ती प्रियं कान्तं तं ध्यायति पुनः पुनः ।। १७ किं न कुर्वन्ति वे दैत्या उपायैर्विविधैरपि । उपायज्ञाः सदा बुद्ध्या युपायेनापि सर्वदा ॥ १८ वर्तन्ते दनुजश्रेष्ठा नानाभावः सुसंपदा । यथोपायेन वगन हृताऽहं पापिना पुरा ॥ १० तथा स घातितः पुत्र आयोश्चैव भविष्यति । यं दृष्ट्वा देवयोगेन भवितारमनामयम् ॥ २० उद्यमेनापि पश्येत किंवा नद यति वा न वा । किंवा स उद्यमः श्रेष्ठः किंवा तत्कर्मजं फलम् ।। २१ भाविभावः कथं नश्येत्ततो वंदः प्रतिष्ठति । विशेषां भाविता देवः स कथं चान्यथा भवेत् ।।२२ एवं सा तु महाभागा चिन्तयन्ती पुनः पुनः । विद्युद्धरः किंनरस्तु बृहवंशो महातनुः ॥ २३ एतन्मध्ये महाकायः पक्षाभ्यां हि विवर्जितः । द्विभुजो वंशहस्तश्च हारकङ्कणशाभितः ॥ २४ दिव्यगन्धानुलिप्ताङ्गो भार्यया सह चाऽऽगतः । तामुवाच निगनन्दा स सुतां शंकरस्य हि ।। किं त्वं चिन्तयसे देवि विद्धि विद्युद्धरं हि माम् । किंनरं विष्णुभक्तं त्वां प्रषितं देवमत्तमः २६ दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति । हुण्डन पापचारेण वधार्थ तस्य धीमतः ॥ २७ कृतमेवाखिल कर्म हृतश्चाऽऽयुसुतः शुभे । स तु वै रक्षितो देवरुपायविविधैरपि ॥ २८ हुण्ड एवं विजानाति आयुपुत्रो हृतो मया । भक्षितस्तु विशालाक्षि इति जानाति सुत्रने ॥ २९ भवती श्रावयित्वा तु गतोऽसी दानवाधमः । स्वेन पूर्वविपाकेन पुण्यस्यापि महायशाः ॥ ३० पूर्वजन्मार्जितेनैव तव भर्ता स जीवति । पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम् ।। ३१
११. दो देवान्वगमायुसुतस्य तस्य । बु । छ. 'दो देवानुगमायुसुतस्य राजन् । बु। २ क ख. घ. ड. च. छ. झ. इ.इ. कालोप। ३ क. ख. र. च. छ. स. १. द. तपस्विनी। ४ क. स. उ. च. छ. स. २. द. हुण्ड: पापचेतनः । नि'। ५ क ख. घ. ड. च. छ. झ. ट. ठ. इ. द. पद्यमेना।