Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
अशोक सुन्दर्युवाच -
[*कदा ह्येष्यति मे भर्ता विहितो दैवतैर्यदि । सत्यं वदस्व धर्मज्ञ मम सौख्यं प्रवर्धय ।। ६१ शीघ्रं द्रक्ष्यसि भर्तारं त्वमेव शृणु सुन्दरि ] | एवमुक्त्वा जगामाथ गन्धर्वो विबुधालयम् ।। ६२ अशोक सुन्दरी चापि तपस्तेपे हि तत्र वै । कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा || ६३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थ नाहुषे नवाधिकशततमोऽध्यायः ॥ १०९ ॥ आदितः श्लोकानां समथ्र्यङ्काः -- ८४८६
अश्र दशाधिकशततमोऽध्यायः ।
३५६
कुञ्जल उवाच -
३
७
11
८
आमन्त्र्य च मुनीन्सर्वान्वसिष्टं तपतां वरम् । समुत्सुको गन्तुकामी नहुषो दानवं प्रति । ततस्ते मुनयः सर्वे वसिष्ठाद्यास्तपोधनाः । आशीर्भिरभिनन्द्यैनमायाः पुत्रं महाबलम् ॥ आकाशे देवताः सर्वा जनुर्वै दुन्दुभीन्मुदा । पुष्पवृष्टिं प्रचक्रुश्च नहुषस्यापि मूर्धनि ।। अथ देवः सहस्राक्षः सुरैः सार्धं समागतः । ददौ शस्त्राणि चास्त्राणि[+ सूर्यतेजोपमानि च ॥ ४ देवेभ्यो नृपशार्दूलो जगृह द्विजसत्तमाः । तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ]॥ ५ अथ ते र्भुनयः सर्वे सहस्राक्षमथाब्रुवन । स्यन्दनो दीयतामस्मै नहुषाय सुरेश्वर ॥ मुनीनां मतमाज्ञाय वज्रपाणिः स सारथिम् । आहूय मातलि चापि ह्यादिदेश सुराधिपः ॥ एनं गच्छ महात्मानं युज्यतां स्यन्दनेन वै । सध्वजेन महात्मानं समरे नृपनन्दनम् स चोवाच सहस्राक्षं कारप्यं तव शासनम् । एवमुक्त्वा जगामाऽऽशु वायुपुत्रं रणोद्यतम् ॥ ९ राजानं प्रत्युवाचाथ देवराजेन भाषितम् । विजयी भव धर्मज्ञ रथेनानेन संगरे | इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर । जहि त्वं दानवं संख्ये हुण्डं व पापचेतनम् ॥ एवमाकर्ण्य राजेन्द्रः सानन्दपुलकोद्गमः । प्रसादाद्देवराजस्य वसिष्ठस्य महात्मनः । दानवं सूदयिष्यामि समरे पापचेतसम् । देवानां च विशेषेण मम मायामचारिणम् ॥ एवमुक्ते शुभे वाक्ये नहुषेण महात्मना । अथाऽऽयातः स्वयं विष्णुः शङ्खचक्रगदाधरः ॥ स्वचक्राच्चक्रमुत्पाद्य सूर्यबिम्बोषमं महत् । ज्वलता तेजसा दीप्तं सुवृत्तान्तं शुभावहम् ॥ नहुषाय ददौ देवो हर्षण महता किल । तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसाऽन्वितम् ।। १६ तेन शूलवरेणासौ शोभते समरोद्यतः । [द्वितीयः शंकरथायं त्रिपुरनो यथा प्रभुः ] ॥ ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम् । [ + चन्द्रतेजःप्रतीकाशं जलजं नालसंगतम् ] ॥ वज्रमिन्द्रस्तथा शक्तिं वायुश्चापं समार्गणम् । आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने || १९
१०
११
१२
१३
१४
१५
१७
१८
* एतचिहान्तर्गतः पाठः क ख घ ड च छ. झ ट ठ ड ढ पुस्तकस्थः +एतच्चिदान्तर्गतः पाठः क. ख. घ. ङ. छ. झ. ट, ठ, ड, ढ, पुस्तकस्थः । एतच्चिहान्तर्गतः पाठः क. ख.घ. ड. च. ट. ट. ड. ट. पुस्तकस्थ: । + एतच्चि - नान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ट. ट. ड. द. पुस्तकस्थः ।
।
१ क. ख. ङ. च. छ. झ. ट ड ड सूत । २ ग घ ज ज ट ट 'कोऽभवद्युण्डं हन्तुं वै दानवाधमम् । ३ क. ख. ङ. च. छ. स. ह. 'पोमलाः । आ । ४ क. ख. ङ. व. छ. ढ. देवताः । ५ क. ख ङ. च. छ. झ. ट. ट. ड. दवानां । ६ क. ख. घ. ड. च. छ. झ ट ठ ड ढ महाप्राज्ञं ।

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387