Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 351
________________ १०३ व्यधिकशततमोऽध्यायः ] पत्रपुराणम् । पुत्राणां धनधान्यस्य ते वंशस्य च सांप्रतम् । सर्व ते नाशयित्वाऽहं यास्यामि च न संशयः॥७॥ यथा त्वयाऽहमानीता चरन्ती परमं तपः । पतिकामा प्रवाञ्छन्ती नहुषं चाऽऽयुनन्दनम् ॥ ७४ तथा त्वां मम भर्ता हि नाशयिष्यति दानव । मन्निमित्त उपायोऽयं दृष्टो देवेन वै पुरा ॥ ७५ सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः । प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः।। यत्र येन प्रभोक्तव्यं यस्माहुःखसुखादिकम् । सत्यं च भुज्यते तत्र तस्मादेव न संशयः॥ ७७ कर्मणोऽस्य फलं भुक्ष्व स्वकीयस्य महीतले । यास्यसे निरयं स्थानं परदाराभिमर्शनात् ॥७८ सुतीक्ष्णं हि सुधारं तु सुखङ्गं च विघट्टति । अङ्गुल्यग्रेण कोपाय तथा मां विद्धि सांप्रतम् ॥७९ सिंहस्य संमुखं गत्वा क्रुद्धस्य गर्जितस्य वो । को लुनाति मुखात्केशान्साहसाकारसंयुतः ।। ८० सत्याचारां दमोपेतां नियतां तपसि स्थिताम् । निधनं चेच्छने सद्यो यो वै मां भोकुमिच्छति ॥ स मणिं कृष्णसर्पस्य जीवमानस्य सांप्रतम् । ग्रहीतुमिच्छत्येवापि यथा कालेन प्रेषितः ॥ ८२ भवांस्तु प्रेषितो मृढ कालेन काममोहितः । तदा त ईदृशी जाता कुमतिः किं न पश्यासि ॥ ८३ ऋते तु आयुपुत्रेण समालोकयते हि कः । अन्यो हि निधनं याति मम गात्रावलोकनात् ॥ ८४ एवमाभाष्य तं दुष्टं गङ्गातीरं गता सती । मशोका दुःखसंविना नियता नियमान्विता ॥ ८५ पूर्वमाचरितं घोरं पतिकामनया तपः । तव नाशार्थमद्याहं चरिष्ये दारुणं तपः॥ ८६ यदा त्वां निहतं दुष्ट नहुषेण महात्मना । निशितैर्वनसंकाशेर्बाणैराशीविषोपमैः॥ ८७ रणे निपतितं पाप मुक्तकेशं सलोहितम् । गंतोत्साहं प्रद्रक्ष्यामि तदा यास्याम्यहं पतिम् ॥ ८८ एवं सुनियमं कृत्वा गङ्गातीरे अनुत्तमे । संस्थिता हुण्डनाशाय निश्चिता शिवनन्दिनी ॥ ८९ वह्नर्यथा दीप्तिमती शिखोज्ज्वला तनोभियुक्ता पदहेत्सुलोकान् ॥ क्रोधेन दीप्ता विबुधेशपुत्रिका गङ्गातटे दुश्वरमाचरत्तपः ॥ कुञ्जल उवाच--- एवमुक्त्वा महाभागा शिवस्य तनया गता । गङ्गाम्भसि ततः स्नात्वा सुपुरे काश्चनाहये ॥ ९१ तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे । अशोकसुन्दरी बाला सत्येन च समन्विता ॥ ९२ हुण्डोऽपि दुःखितो जान आत्मना पापचेतमा । चिन्तयामास संतप्ता यतीव वचनानलैः ॥ ९३ समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् । समाचष्ट प्रवृत्तान्तं तस्याः शापोद्भवं महत् ॥ ९४ शप्तो ह्यशोकसुन्दर्या शिवस्यापि सुकन्यया । नहुषस्यापि मे भर्तुस्त्वं तु हस्तान्मरिष्यासि ॥ ९५ नैवं स्यात्तु ह्यसौ गर्भ आयोर्भार्या न गुर्विणी। यथा तु स्यादलीकस्तु तस्याः शापस्तथा कुरु ९६ कम्पन उवाचअपहृत्य पियां तस्य आयोश्चापि समानय । अनेनापि प्रकारेण तव शत्रुर्न जायते ॥ ९७ [*नो वा प्रपातयस्व त्वं गर्भ तस्याः प्रभीषणेः । अनेनापि प्रभावेण तव शत्रुर्न जायते ॥९८ जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः । अपहृत्य समानीय जहि त्वं पापचेतनम् ॥ ९९ एवं संमन्त्र्य तेनापि कम्पनेन स दानवः । अभूत्स चोद्यमी ह्येवं नहुषस्य प्रणाशने ॥ १०० * एतचिहान्तर्गतः पाठः उ. पुस्तकस्थः । १ ङ. छ. तनिमित्त । २ ग. घ. ज. ट. ठ. ड. वा । कौतुकान्मृगकोपेन साहसात्कर्तुमिच्छति । स । ३ क. ख.. च. छ. झ. इ. ड. कालमोहितः । ४६. ट. गतासं च प्र। छ. गताशं च प्र। ५क. ख. र.च. छ.स. ह. द. निबला। ६ . आपयुक्तेन चें। क. ख. मदनानलैः । ८ ङ. छ. श. ड. व जातस्त्वसी ।

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387