Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 352
________________ महामुनिश्रीव्यासमणीत [२ भूमिखण्डेविष्णुरुवाचऐलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः । सार्वभौमः स धर्मात्मा सत्यधर्मपरायणः ।। १०१ इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः । दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च ॥ १०२ एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः । पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम् ॥ १०३ पुत्रं न विन्दते राजा तेन दुःखी व्यजायत । चिन्तयामास धर्मात्मा कथं मे जायते सुतः १०४ इति चिन्तां समापेद आयुश्च पृथिवीपतिः। पुत्रार्थ परमं यत्नमकरोन्सुसमाहितः॥ १०५ अत्रिपुत्रो महात्मा वै दत्तात्रेयो द्विजोत्तमः । क्रीडमानः स्त्रिया साध [श्मदिरारुणलोचनः १०६ वारुण्या मत्तधर्मात्मा स्त्रीवृन्देन समावृतः । अङ्के युवतिमाधाय] सर्वयोषिद्वरां शुभाम् ॥ १०७ गायते नृत्यते विमः सुरां च पिवते भृशम् । विना यज्ञोपवीतेन महायोगीश्वरोत्तमः ॥ १०८ पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदः । चन्दनागुरुदिग्धाङ्गी राजमानो मुनीश्वरः॥ १०९ तस्याऽऽश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् । प्रणाममकरोन्मुना दण्डवत्सुसमाहितः॥ ११० अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् । आगतं पुरता भक्त्या अथ ध्यानं समास्थितः१११ एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम । निश्चलत्वं परिज्ञाय मानम भक्तितत्परम् ॥ ११२ [+समाहूय समाचष्टे किमर्थ क्लिश्यसे नृप। ब्रह्माचारण हीनाऽस्मि ब्रह्मत्वं नास्ति मेकदा ११३ मुरामांसपलुब्धोऽस्मि स्त्रिया सक्तः सदव हि । वरदाने न में शक्तिरन्यं शुश्रूष ब्राह्मणम् ११४ आयुरुवाचभवादृशो महाभाग नास्ति ब्राह्मणसत्तमः । सर्वकामप्रदाता वै त्रलोक्ये परमेश्वरः ॥ ११५ अत्रिवंशे महाभाग गोविन्दस्त्वं सुरोत्तम । ब्राह्मणस्यैव रूपेण भवान्दै गरुडध्वजः ॥ ११६ नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर । त्वामहं शरणं प्राप्तः शरणागतवत्सल ॥ ११७ उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि । विश्वस्थानां प्रजानां च विद्वांसं विश्वनायकम् ११८ जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम् । मां रक्ष शरणं प्राप्त विश्वरूप नमोऽस्तु ते ॥ ११९ कुञ्जल उवाचगते बहुतिथे काले दत्तात्रेयो नृपात्तमम् । उवाच मैत्तरूपेण कुरु त्वं वचनं मम ॥ १२० कपालेन सुरां देहि बहुलं मांसभोजनम् । एवमाकर्ण्य तद्वाक्यं स चाऽऽयुः पृथिवीपतिः ॥१२१ उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान् । पलं सुविपुलं चैव च्छित्वा हस्तेन सत्वरम् ॥ १२२ नृपेन्द्रः प्रददौ तस्मै दत्तात्रेयाय पुत्रक । अथ प्रसनचेताश्च संजानो मुनिपुंगवः ॥ १२३ दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं तथा । समुवाच नृपन्द्रं तमायुं प्रणतमानसम् ॥ १२४ वरं वरय भद्रं ते दुर्लभं भुवि भूपते । सर्वमेव प्रदास्यामि यं यमिच्छसि सांप्रतम् ॥ १२५ राजोवाच-~भवान्दाता वरं सत्यमिच्छया मुनिसत्तम । पुत्रं देहि गुणोपेतं सर्वशं गुणसंयुतम् ॥ १२६ ___ * एतचिहान्तर्गतः पाठो ङ. छ. ड इ. पस्तकस्थः । + एतच्चिद्वान्तर्गतः पाटः क. ख. ङ. च. ड. द. पुस्तकस्थः । १क. ख. ङ. च. छ.स. इ. ढ तुगपुत्रो । २ घ. ट. ठ. ड. ह. सत्यधर्मज्ञः । ३ क.ख. घ. च. छ. झ.ट. ठ. ड. योगीन्द्रः । ४ क. ख. घ. ड. च. छ. स. ट. ठ. ड. द. अवज्ञाय ततः स्थि । ५ घ. ङ. छ. ट. ठ. ढ. 'श्वस्यास्य प्रधा. तारं भवन्तं वि। ६ अ. मत्पूजनेन । ७ क. ख. घ. छ. च. छ झ. ड. पाचितं । ट. पवित्रं । ८ ड उद्धतेन क । ९क. ब. घ..च. छ. स. ट. ठ. . ढ. सुपाचितं । १० ङ. छ. द. परम् । ११ क. स्व. घ. ड. च. छ. स. ट. ठ. ढ. प्रणतमाहतः । ड. प्रणतमाहतम् । १२ क. ख. घ. ड. च. छ. स.ट.ठ. इ. द. सत्यं कृपया।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387